________________
.
२७४ चतुःसप्तत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१८८७ मुचुकुन्द उवाचधन्योऽस्मि कृतकृत्योऽस्मि दर्शनात्परमेश्वर । अद्य मे सफलं जन्म जीवितं सफलं मम ॥ ६१ नमस्ते वासुदेवाय जगन्नाथाय शाङ्गिणे । दामोदराय देवाय तेजसां निधये नमः॥ ६२ अधोक्षजाय हरये नृसिंहवपुषे नमः । राघवाय नमस्तुभ्यं पुण्डरीकेक्षणाय च ॥ ६३ अच्युतायाविकाराय तथाऽनन्ताय ते नमः । गोविन्दाय नमस्तुभ्यं विष्णवे जिष्णवे नमः॥६४ नारायणाय श्रीशाय कृष्णाय परमात्मने । मुकुन्दाय नमस्तुभ्यं चतुर्ग्रहाय ते नमः॥ ६५ नमः परमकल्याण नमस्ते परमात्मने । वासुदेवाय शान्ताय यदूनां पतये नमः ॥ ६६
__ महेश्वर उवाचएवं स्तुत्वा तु गोविन्दं प्रणनाम पुनः पुनः। संतुष्टो भगवान्प्राह मुचुकुन्दं महामुनिम् ॥ ६७
भगवानुवाचवरं वृणीष्व राजर्षे यत्ते मनसि वर्तते ॥
६८ महेश्वर उवाचसोऽपि मुक्तिं ययाचाथ पुनरावृत्तिवर्जिताम् । तस्मै ददौ तदा कृष्णो दिव्यं लोकं सनातनम्॥ राजा तु मानुषं रूपं विहायाथ महामतिः । समानरूपमास्थाय देवस्य परमात्मनः ॥ वैनतेयं समारुह्य शाश्वतं पदमाविशत् ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे श्रीकृष्णचरिते मुचुकुन्दोपाख्यानं नाम
त्रिसप्तत्यधिकद्विशततमोऽध्यायः ॥ २७३ ॥ आदितः श्लोकानां समष्ट्यङ्काः-४७६१३
अथ चतुःसप्तत्यधिकद्विशततमोऽध्यायः ।
--
--
-
-
श्रीरुद्र उवाचहत्वाऽथ यवनं तत्र मुचुकुन्देन धीमता । दत्त्वा तस्मै वरं(रां) मुक्तिं निष्क्रान्तो यदुनन्दनः ॥१ हतं च यवनं श्रुत्वा जरासंधः सुदुर्मतिः । युयुधे रामकृष्णाभ्यां स्ववलेन समावृतः॥ २ कृष्णेन निहतं सैन्यं सर्व तस्य दुरात्मनः । स पपात महीपृष्ठे मूर्छितो मगधाधिपः॥ ३ चिरेण लब्धसंज्ञस्तु विह्वलाङ्गो भयातुरः। न शशाक रणे योद्धं रामेण मगधेश्वरः॥ ४ विमुखः पाद्रवत्तूर्ण हतशेषवलानुगः । अजेयाविति तो मत्वा रामकृष्णौ महावलौ ॥ ५ तयोविरोधं त्यक्त्वाऽथ नगरी स्वां विवेश ह । अथ तो वसुदेवस्य तनयो सह सेनया ॥ ६ मथुरां त्यज्य नगरी द्वारकां प्रविवे(वि)शतुः । इन्द्रेण प्रेषितो वायुः सभां तत्र दिवौकसाम् ॥७ कृष्णाय प्रददौ प्रीत्या निर्मितां विश्वकर्मणा । वनवैदूर्यरचिती चन्द्रासनविचित्रिताम् ॥ ८
नानारत्नमयैर्दिव्यैः स्वर्णच्छत्रविराजिताम् । तां प्राप्य रम्यां सुसभामुग्रसेनादयो नृपाः॥ ९ ५. मोदन्ते नैगमैः सार्ध दिवि देवगणा इव । इक्ष्वाकुवंशसंभूतो रैवतो नाम पार्थिवः ॥ १० कन्यां दुहितरं स्वस्य सर्वलक्षणसंयुताम् । रामाय प्रददौ प्रीत्या रेवतीं नाम नामतः ॥ ११
१ झ. फ. त्रयीनाथाय । २ झ. फ. विश्वमहल । ३ क. ज. झ. फ. 'तां बहास'।