________________
१८८० महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेदानवान्प्रेरयामास निधनाय महात्मनः । बालेनैव हताः सर्वे लीलयाऽनेन धीमता ॥ २५६ . अत्यद्भुतानि कर्माणि कृतवान्परमेश्वरः । गोवर्धनाद्रिधरणं नागराजविवासनम् ॥ २५७ समागमं महेन्द्रस्य निधनं सर्वरक्षसाम् । श्रुत्वा देवर्षिणाऽऽख्यातमतीवभयपीडितः॥ २५८ इतो नीत्वा महाबाहू रामकृष्णौ दुरासदौ । मदोत्कटैर्महानागैर्मल्लै| हन्तुमुद्यतः ॥ २५९ कृष्णस्य नयनार्थाय प्रेरयामास मामिह । वसुदेवस्य दुष्टात्मा निग्रहं कृतवानसौ ॥ २६० एतत्सर्व समाख्यातं चेष्टितं सुदुरात्मनः । उपभोक्तुं धनुर्यागं यूयं सर्वे व्रजौकसः॥ २६१ दध्याज्यादि गृहीत्वा वै श्वोभूते गन्तुमर्हथ । सहिता रामकृष्णाभ्यां गोपाः सर्वे तदन्तिकम्२६२ कृष्णेन निहतः कंसो भविष्यति न संशयः। परित्यज्य भयं तस्माद्गमिष्यध्वं(न्तव्यं वै)नेपाज्ञया
ईश्वर उवाचइत्युक्त्वा स तदाऽङ्करस्तूष्णीमासीत्सुबुद्धिमान् । तस्य तद्वचनं श्रुत्वा दारुणं रोमहर्षणम् २६४ नन्दगोपमुखाः सर्वे गोपवृद्धा भयातुराः । आजग्मिरे महादुःखसागरे शोकमोहिताः ॥ २६५ " तानाश्वास्य हरिस्तत्र दृष्ट्या कमललोचनः । न भीः कार्येति संप्राह राक्षसं प्रति वीर्यवान्२६६ विनाशाय प्रयास्यामि कंसस्यास्य दुरात्मनः । मथुरां सह रामेण भवद्भिः सह संगतः ॥ २६७ तत्र हत्वा दुरात्मानं कंसं दानवपुंगवम् । सर्वाश्च राक्षसाम्हत्वा पालयिष्यामि मेदिनीम् ॥२६८ तस्माच्छोकं परित्यज्य गच्छध्वं मथुरां पुरीम् । एवमुक्तास्तु हरिणा गोपनन्दपुरोगमाः॥२६९ मुहुर्मुहुः परिष्वज्य मूर्ध्याघ्राणं प्रचक्रिरे । अप्रमेयानि कर्माणि विचार्य सुमहात्मनः ॥ २७० अक्रूरवचनाच्चैव गोपाः सर्वे गतव्यथाः। दुग्धदध्याज्ययुक्तानि शुचीनि विविधानि च ॥२७१ पक्कान्नानि सुहृद्यानि स्वादूनि मधुराणि च । अक्रूराय ददौ सौम्यं यशोदा भोजनं बहु॥२७२ सहितो रामकृष्णाभ्यां नन्दाद्यैर्गोपसत्तमैः । सुहृद्भिर्बालवृद्धश्च भवने समलंकृते ॥ २७३ दत्तं यशोदया सौम्यं भोजनं कलुषापहम् । बुभुजे यादवश्रेष्ठो ह्यनुरागावहं शुभम् ॥ २७४ भोजयित्वा यथान्यायं दत्त्वाऽऽचमनमम्भसा । सकर्परं सुताम्बूलं ददौ तस्मै दृढव्रता ॥ २७५ अस्तं याते दिनकरे संध्यामुपास्य यादवः । सहितो रामकृष्णाभ्यां भुक्त्वा क्षीरानमुत्तमम् ॥ ताभ्यामेव तदाऽक्रूरः शयनं समुपाविशत् । तस्मिस्तु भवने श्रेष्ठे रम्ये दीपविराजिते ॥ २७७ श्लक्ष्णे विचित्रपर्यङ्के नानापुष्पविराजिते । तस्मि शेते हरिः कृष्णः शेषे नारायणो यथा।॥२७८ तं दृष्ट्वा सहसाऽक्रूरो हर्षाश्रुपुलकाङ्कितः। विहाय तामसीं निद्रां सुश्रेयः समुदीक्ष्य वै ॥ २७९ पादसंवाहनं विष्णोश्चक्रे भागवतोत्तमः । एतावता मे साफल्यं जीवितं च सुजीवितम् ॥ २८० इदं त्रैलोक्यमैश्वर्यमिदं वै सुखमुत्तमम् । इदं राज्यमिदं धर्ममिदं मोक्षसुखं परम् ॥ २८१ न शक्यं मनसा स्मर्तु शिवब्रह्मादिदेवतैः । सनकायैर्मुनीन्द्रश्च वसिष्ठायैमहर्षिभिः॥ २८२ तच्छ्रीशस्य पदद्वंद्वं शरदम्बुरुहोज्ज्वलम् । संस्पृष्टमिन्दिराश्लक्षणकराभ्यां सुसुखं परम् ॥ २८३ दिट्या लब्धं मया विष्णोः श्रीपदाब्जयुगं शुभम् । व्यतीता सा क्षणाद्रात्रिस्तब्रह्मानन्दगौरवात् ततः प्रभाते विमले दिवि देवगणोत्तमैः । संस्तूयमानों बुबुधे तस्मात्तु शयनाद्धरिः ॥ २८५ । उपस्पृश्य यथान्यायं सह रामेण धीमता । पपात पादयोर्मातुः प्रयाणं चाभ्यरोचयत् ॥ २८६ समुत्थाप्य यशोदा तु दुःखहर्षसमन्विता । अश्रुपूर्णमुखी पुत्रौ प्रेम्णा संपरिषस्वजे ॥ २८७
१ झ. फ. मुदान्विताः । २ क. ज. झ. द. फ. दृष्ट्वा । ३ झ. फ. जरारोगापहं ।