________________
२१३
१८७८ महामुनिश्रीव्यासभणीतं
[६ उत्तरखण्डेतस्मै देवाय भवते विधेम हविषा वयम् । य आपो महिना दक्षं पर्यपश्यत्मजापतिम् ॥ २०२ यज्ञ दधानास्तत्राऽऽदौ जनयन्तीर्हविः पुमान् । यो देवेष्वेक एवाऽऽसीदधि देवः परात्परः॥ तस्मै देवाय भवते विधेम हविषा वयम् । मा नो हिंसीजनिता यः पृथिव्या अव्ययः पुमान् ।। यो वा दिवं सत्यधर्मा जजानाव्यय ईश्वरः। यश्चन्द्रा बृहतीरपो जजान सकलं जगत ॥ २०५ तस्मै देवाय भवते विधेम हविषा वयम् । एतानि विश्वजातानि बभूव परि ता प्रभो ॥ २०६ त्वदन्यो न प्रजाध्यक्ष भविष्यद्भूतभावन । यजामस्त्वां च यत्कामास्तन्नो अस्तु समासतः २०७ रयीणां पतयः स्याम तव कारुण्यवीक्षणात् । हिरण्मयाख्यः पुरुषो हिरण्यश्मश्रुकेशवान् ॥२०८ आपणखात्सर्व हिरण्यं सविता च हिरण्यभाक् । असौ सर्वगतो ब्रह्मा यस्त्वादित्ये व्यवस्थितः तद्वै देवस्य सवितुर्वरेण्यं भर्ग उत्तमः। सदा धीमहि ते रूपं धियो यो नः प्रभाति हि ॥ २१० नमस्ते पुण्डरीकाक्ष श्रीश सर्वेश केशव । वेदान्तवेद्य यज्ञेश यज्ञरूप नमोऽस्तु ते ॥ २११ नमस्ते वासुदेवाय गोपवेषाय ते नमः । त्वत्सर्वध्वंसनादेव अपराधं मया कृतम् ॥ २१२ तत्क्षम्यतां जगन्नाथ घृणाब्धे पुरुषोत्तम । अल्पेनैव हि कालेन जहि कंसं दुरासदम् ॥ देवानां च हितं कृत्वा सुखे स्थापय मेदिनीम् ॥
महादेव उवाचइति संस्तुत्य गोविन्दं सर्वदेवेश्वरो हरिः । सुधामृतेनाभिषिच्य दिव्याम्बरविभूषणैः ॥ २१४ अर्चयित्वा तु देवेशं [*जगाम त्रिदिवं पुनः । गोपवृद्धाश्च गोप्यश्च दृष्ट्वा तत्र शतक्रतुम् ।। २१५ तेन संपूजिताश्चैव महर्षमतुलं] ययुः । रामकृष्णौ महावीर्यों दिव्याभरणभूषितौ ॥ २१६ नन्दस्य गोबजे रम्ये गोवत्सान्संररक्षतुः । एतस्मिन्नन्तरे देवि नारदो मुनिसत्तमः॥ २१७ सहसा मथुरां गत्वा कंसस्यान्तिकमाविशत् । राज्ञा संपूजितस्तत्र समासीनः शुभासने ॥ २१८ सर्व विज्ञापयामास चेष्टितं' शाङ्गिणस्तदा । देवतानां समुद्योगं जन्म वै केशवस्य च ॥ २१९ तथा च वसुदेवेन पुत्रनिक्षेपणं बजे । निधनं राक्षसानां च सर्पराजविवासनम् ।। २२० धारणं गिरिवर्यस्य शतक्रतुसमागमम् । न्यवेदयच्च कंसस्य तत्सर्वं सविशेषतः ॥ २२१ प्रययौ ब्रह्मभवनं पूजितस्तेन रक्षसा । कंसः समुद्विग्रमना मत्रिभिः परिवेष्टितः ॥ मन्त्रयामास तैः साकमात्मनो निधनं प्रति । तत्र बुद्धिमतां श्रेष्ठमकूरं धर्मवत्सलम् ॥ उवाचाऽऽत्महितं कार्य दानवेन्द्रो महाबलः ॥
कंस उवाचमद्भयात्रिदशाः सर्वे शतक्रतुपुरोगमाः। विष्णोः समीपमागत्य भयार्ताः शरणं गताः ॥ २२४ स तेषामभयं दत्त्वा भगवान्भूतभावनः । उत्पन्नो देवकीगर्भे मां हन्तुं मधुसूदनः॥ २२५ वसुदेवोऽपि दुष्टात्मा वञ्चयित्वा तु मां निशि । पुत्रं निक्षिप्तवान्गेहे नन्दस्य सुदुरात्मनः॥२२६ बाल्येनैव दुराधर्षो निजघान महासुरान् । मां हन्तुमपि संनद्धो भवेदेवं न संशयः॥ २२७ सोऽत्र हन्तुं न शक्यो हि सेन्ट्रैरपि सुरासुरैः। उपायेनैव हन्तव्यः समानीय मया तदा ॥२२८ मदोत्कटैस्तु मातङ्गैर्मल्लैश्च वरवाजिभिः । येन केनाप्युपायेन हन्तुं शक्यमिहैव तु ॥ २२९ ।
* धनुचिहान्तर्गतः पाठः क. ज. झ. फ. पुस्तकस्थः ।
१ ङ. तं यदुभिः सह । दे'।