SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 7 F २१ एकविंशोऽध्यायः ] नारद उवाच - ७ कोऽयं देव समाख्यातो भगीरथो महातपाः । येन तीर्थ समानीतं लोकानां हितकारणात् ॥ ६ गङ्गातीर्थं महत्पुण्यं सर्वपापप्रणाशनम् । लोकाः सर्वे वदन्त्येवमेतत्तीर्थोत्तमोत्तमम् ॥ गङ्गा गङ्गेति यो ब्रूयाद्येोजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ कथं तेन समानीता किं कार्य वद सुव्रत । पद्मपुराणम् । १२८७ ሪ महादेव उवाच ९ १० येन गङ्गा यथाssनीता गङ्गाद्वारेऽतिशोभने । तत्सर्व संप्रवक्ष्यामि क्रमानुक्रमयोगतः ॥ पूर्वमासीद्धरिश्वन्द्रस्त्रैलोक्ये संत्यपालकः । रोहितस्तस्य पुत्रोऽभूदेको विष्णुपरायणः ॥ तस्यापि च वृकः पुत्रो धर्मिष्ठः सत्पथे स्थितः । तस्य पुत्रः सुबाहुच जातेऽस्मिन्वै कुले तदा ११ तस्य पुत्रो गरो नाम नात्यन्तं धार्मिकोऽभवत् । कदाचित्कालयोगेन दुःखी जातोऽत्र कारणात् राजभिस्तत्र देशोऽयं तर्जितोऽधर्मकारणात् । स कुटुम्बं गृहीत्वा तु गतोऽसौ भार्गवाश्रमम् १३ रक्षितो भार्गवेणाथ कृपया तत्र वै तदा । तेत्र पुत्रो ह्यभूत्तस्य सगरो नाम वै द्विज ॥ ववृधे चाऽऽश्रमे पुण्ये भार्गवेणाभिरक्षितः । उपवीतादिकं सर्व क्षत्रियस्य तदा कृतम् ॥ Marणां च तथाऽभ्यासं वेदानां तु तथैव च । आग्नेयास्त्रं ततो लब्ध्वा भार्गवात्सगरो नृपः १६ जघान पृथिवीं गत्वा तालजघान्सहैहयान् । सशकान्पारदांश्चैव जघान स महातपाः ॥ १४ १५ १७ नारद उवाच - माहात्म्यं सगरस्याथ वद शंकर विस्तरात् । सूर्यवंशे महाराजो विख्यातः स महाबली ॥ १८ महादेव उवाच 1 गरस्य व्यसने जाँते हृतं राज्यमभूत्किल । हैहयैस्तालजङ्घाद्यैः शकैः सार्धं च नारद ॥ १९ यवनाः पारदाचैव काम्बोजाः पह्लवास्तथा । एते पञ्च गणा ब्रह्मन्हैहयार्थे पराक्रमन् ॥ २० हृतराज्यस्ततो राजा संगरे वै वनं ययौ । पत्न्या चानुगतो दुःखी स वै प्राणानवासृजत् ॥ २१ तस्य पत्नी तु कल्याणी सगर्भा च व्रतान्विता । स पत्न्या भार्गवस्तस्य वृतः पूर्व सुतेप्सया २२ सा तु भव्यचितां कृत्वा वने तं प्ररुरोद ह । [ + और्वस्तां वारयित्वा च गरपत्नीं च नारद] २३ न्यवेदयत तत्पुत्रं धर्मिष्ठं सात्विकं प्रियम् । निवेदिते ततो वाले [* मरणात्सा न्यवर्तत ॥ २४ ततो मासद्वये जाते] ववधर्वस्य चाऽऽश्रमे । जातकर्मादियोगश्च और्वेण च तथा कृतः ॥ २५ उपवीतादिकं सर्व जातं तत्र महामुने । तत्र वेदादिकं सर्वं पठितं चौर्वयोगतः ॥ अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् । आग्नेयं तं महाभागममरैरपि दुःसहम् ॥ स तेनास्त्रबलेनाऽऽजौ बलेन च समन्वितः । हैहयान्वै जघानाऽऽशु संक्रुद्धः स्त्रवलेन च ॥ २८ आजहार च लोकेषु स च कीर्तिमवाप सः । ततः शकाः सयवनाः काम्बोजाः पह्लवास्तथा ।। इन्यमानास्तदा ते तु वसिष्ठं शरणं ययुः । वसिष्ठोऽपि च तत्कृत्वा समयं स महाद्युतिः ॥ ३० सगरं वारयामास तेषां दत्त्वाऽभयं नृप । सगरः स्वां प्रतिज्ञां तु गुरोर्वाक्यं निशम्य च ।। ३१ धर्मैर्जघान तांश्चैषां विकृतत्वं चकार ह । अर्ध शकानां शिरसो मुण्डं कृत्वा व्यसर्जयत् ॥ ३२ २६ २७ + इदमर्ध क. ख. च. ज झ ञ. पुस्तकस्थम् । * धनुश्चिहान्तर्गतः पाठः क. ख. च. ज. झ. न. पुस्तकस्थः । १ ङ. मुखदायकः । १ . ततः । ३ . शास्त्राणां । ४क. ख. च. ज. स. म. द. फ. तात । ५ फ. क्रुद्धोऽखन ं ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy