________________
१८६६
महामुनिश्रीव्यासप्रणीतं -
इत्थं विसृष्टाः खलु ते च सर्वे सुखं तदा जग्मुरतीव हृष्टाः । एवं पठन्तः स्तवमीश्वरोक्तं रामं स्मरन्तो वरविश्वरूपम् ॥
इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे विश्वरूपदर्शनं नाम सप्तत्यधिकद्विशततमोऽध्यायः ॥ २७० ॥
आदितः श्लोकानां समथ्र्यङ्काः --४७०५३
अथैकसप्तत्यधिकद्विशततमोऽध्यायः ।
[ ६ उत्तरखण्डे -
-→
५३
शंकर उवाच
१
३
8
६
९
अथ रामस्तु वैदेह्या राज्यभोगान्मनोरमान् । बुभुजे वर्षसाहस्रं पालयन्सर्वतो दिशः ॥ अन्तःपुरजनाः सर्वे राक्षसस्य गृहे स्थिताम् । गर्हयन्ति स्म वैदेहीं तथा जानपदा जनाः ॥ २ लोकापवादभीत्या च रामः शत्रुनिवारकः । दर्शयन्मानुषं धर्ममन्तर्वत्नीं नृपात्मजाम् || वाल्मीकेराश्रमे पुण्ये गङ्गातीरे महावने । विससर्ज महातेजा गर्भदुःखसमन्विता ॥ सा भर्तुः परतन्त्रा हि उवास मुनिवेश्मनि । अर्चिता मुनिपत्नीभिर्वाल्मीकिना च रक्षिता ॥ ५ तत्रैवासूत यमौ नाम्ना कुशलवौ सुतौ । तौ च तत्रैव मुनिना वट्टधाते सुसंस्कृतौ ॥ रामोऽपि भ्रातृभिः सार्धं पालयामास मेदिनीम् । यमादिगुणसंपन्नः सर्वभोगविवर्जितः ॥ अर्चयन्सततं विष्णुमनादिनिधनं हरिम् । ब्रह्मचर्यपरो नित्यं शशास पृथिवीं नृपः ॥ शत्रुघ्नो लवणं हत्वा मॅथुरां देवनिर्मिताम् । पालयामास धर्मात्मा पुत्राभ्यां सह राघवः ॥ गन्धर्वान्भरतो हत्वा सिन्धोरुभयपार्श्वतः । स्वात्मजौ स्थापयामास तस्मिन्देशे महाबलौ ॥ १० पश्चिमे मद्रदेशे तु मद्रान्हत्वा च लक्ष्मणः । स्वसुतौ च महावीर्यावभिषिच्य महाबलः ॥ गत्वा पुनरयोध्यां तु रामपादावुपास्पृशत् । ब्राह्मणस्य मृतं बालं कालधर्ममुपागतम् ॥ जीवयामास काकुत्स्थः शूद्रं हत्वा च तापसम् । ततस्तु गौतमीतीरे नैमिषे जैनसंसदि ॥ इयाज वाजिमेधेन राघवः परवीरहा । काञ्चनीं जानकीं कृत्वा तया सार्धं महाबलः ॥ चकार यज्ञान्वहुशो राघवः परमार्थवित् । अयुतान्यश्वमेधानि वाजपेयानि च प्रभुः ॥ अग्निष्टोमं विश्वजितं गोमेधं च शतक्रतुम् । चकार विविधान्यज्ञान्परिपूर्णान्सदक्षिणान् ॥ एतस्मिन्नन्तरे तत्र वाल्मीकिः सुमहातपाः । सीतामानीय काकुत्स्थमिदं वचनमब्रवीत् ॥ वाल्मीकिरुवाच
११
6
८
१२
१३
१४
१५
१६
१७
अपापां मैथिलीं राम त्यक्तुं नार्हसि सुव्रत । इयं तु विरजा साध्वी भास्करस्य प्रभा यथा ॥ अनन्या तव काकुत्स्थ कस्मात्त्यक्ता त्वयाऽनघ
१८
श्रीराम उवाच —
१९
अपापां मैथिलीं ब्रह्मञ्जानामि वचनात्तव । रावणेन हृता साध्वी दण्डके विजने पुरा ।। तं हत्वा समरे दुष्टं शुद्धामग्निमुखं गताम् । पुनर्यातोऽस्म्ययोध्यायां सीतामादाय धर्मतः || २० लोकापवादः सुमहानभूत्पौरजनेषु च । त्यक्ता मया शुभाचारा तद्भयात्तव संनिधौ ॥ तस्माल्लोकस्य संतु सीता मम परायणा । पार्थिवानां सहर्षीणां प्रत्ययं कर्तुमर्हति ॥
२१
२२
१ झ. परं ॥ २ झ. मन्त्रिभिः । ३ झ. फ. व्रतचर्यापरो । ४ झ. माथुरां । ५ झ. मुनिसंसदि ।
I
"