SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ २७० सप्तत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । १८६५ [*अनया विद्यया देव्या सीतयोपाधिकारिणे । नमः पुंम ( स्प ) कृतिभ्यां च युवाभ्यां जगतां कृते ] जगन्मातापितृभ्यां च जनन्यै राघवाय च । नमः प्रपश्चरूपिण्यै निष्प्रपञ्चस्वरूपिणे । २९ नमो ध्यानस्वरूपिण्यै योगिध्येयात्ममूर्तये । परिणामापरीणामनित्याभ्यां च नमो नमः ॥ ३० कूटस्थबीजरूपिण्यै सीतायै राघवाय च । सीता लक्ष्मीर्भवान्विष्णुः सीता गौरी भवाशिवः ३१ सीता स्वयं हि सावित्री भवान्ब्रह्मा चतुर्मुखः । सीता शची भवाम्शक्रः सीता स्वाहाऽनलो भवान् ॥ ३२ ३७ सीता संहारिणी देवी यमरूपधरो भवान् । [ सीता हि सर्वसंपत्तिः कुबेरस्त्वं रघूत्तम ] | ३३ सीता देवी च रुद्राणी भवान्रुद्रो महाबलः । सीता तु रोहिणी देवी चन्द्रस्त्वं लोकसौख्यदः ३४ सीता संज्ञा भवान्सूर्यः सीता रात्रिर्दिवा भवान् । सीता देवी महाकाली महाकालो भवान्सदा स्त्रीलिङ्गेषु(ङ्गं तु)त्रिलोकेषु यत्तत्सर्वं हि जानकी । पुन्नामलाञ्छितं यत्तु तत्सर्वे हि भवान्प्रभो ३६ सर्वत्र सर्वदेवेश सीता सर्वत्रधारिणी । तदा त्वमपि च त्रातुं तच्छक्तिर्विश्वधारिणी ॥ तस्मात्कोटिगुणं पुण्यं युवाभ्यां परिचिह्नितम् । चिह्नितं शिवशक्तिभ्यां चरितं शान्तिदं प्रभो ३८ आवां राम जगत्पूज्यौ मम पूज्यौ सदा युवाम् । त्वन्नामजापिनी गौरी त्वन्मन्त्रजपवानहम् ३९ मुमूर्षोर्मणिकर्ण्य तु अर्धोदकनिवासिनः । अहं दिशामि ते मन्त्रं तारकं ब्रह्मदायकम् || ४० अतस्त्वं जानकीनाथ परं ब्रह्मासि निश्चितम् । स्वन्मायामोहिताः सर्वे न त्वां जानन्ति तत्त्वतः ईश्वर उवाच इत्युक्तः शंभुना रामः प्रसादप्रणतोऽभवत् । दिव्यरूपधरः श्रीमानद्भुताद्भुतदर्शनः ॥ तं तथारूपमालोक्य नरवानरदेवताः । [+न द्रष्टुमपि शक्तास्ते भेषजं महदद्भुतम् ॥ भयाद्वै त्रिदशश्रेष्ठाः प्रणेमुश्चातिभक्तितः । संविज्ञाय च रामोऽपि नरवानरदेवताः ] ॥ मायामानुषतां प्राप्तः सर्वदेवान्त्रवीद्वचः ॥ ४२ ४३ ४४ श्रीराम उवाच - ४६ ४७ शृणुध्वं देवता यो मां प्रत्यहं संस्तु (स्त) + विष्यति । स्तवेन शंभुनोक्तेन देवतुल्यो भवेन्नरः || ४५ विमुक्तः सर्वपापेभ्यो मत्स्वरूपं समश्नुते । रणे जयमवाप्नोति न कचित्प्रतिहन्यते ॥ भूतवेतालकृत्याभिर्ग्रहैश्वापि न बाध्यते । अपुत्रो लभते पुत्रं पतिं विन्दति कम्यका || दरिद्रः श्रियमाप्नोति सत्त्ववाञ्शीलवान्भवेत् । आत्मतुल्यसुतः श्रीमाञ्जायते नात्र संशयः ॥ ४८ निर्विघ्नं सर्वकार्येषु सर्वारम्भेषु वै नृणाम् । यं यं कामयते मर्त्यस्तं लभेत मनोरथम् ॥ षण्मासान्मुक्तिमाप्नोति स्तवस्यास्य प्रसादतः । यत्पुण्यं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् ॥ तत्फलं कोटिगुणितं स्तवेनानेन लभ्यते ।। ४९ १ झ. त्रिर्भवान्दिवः । सर्व । २ झ. ह्मवाचक' । ३ क. ज. स. फ. सात्सिद्धिमा' | २३४ ५० ईश्वर उवाच - इत्युक्त्वा रामचन्द्रोऽसौ विससर्ज महेश्वरम् । ब्रह्मादित्रिदशान्सर्वान्विससर्ज समागतान् ॥ ५१ अर्चिता मानवाः सर्वे ऋक्षवानरदेवताः । विसृष्टा रामचन्द्रेण भीत्या परमया युताः ॥ ५२ * अयं श्लोको झ. फ. पुस्तकस्थः । इदमर्वे ज. झ. फ. पुस्तकस्थम् । + धनुश्चिहान्तर्गतः पाठो झ. पुस्तकस्यः । * अडभाव आर्षः । + इडार्ष: ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy