________________
२६९ एकोनसप्तत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८६३ तदाघवाय प्रददौ वस्त्राण्याभरणानि च । तेन संपूजितः श्रीमान्रामचन्द्रः प्रतापवान् ॥ ३४४ आरुरोह विमानाय्यं वेदेह्या भार्यया सह । लक्ष्मणेन च शूरेण भ्रात्रा दशरथात्मजः ॥ ३४५ ऋक्षवानरसंघातैः सुग्रीवेण महात्मना । विभीषणेन शूरेण राक्षसैश्च महाबलैः॥ ३४६ यथा विमाने वैकुण्ठे नित्यमुक्तैर्महात्मभिः । तथा सर्वः समारुह्य ऋक्षवानरराक्षसैः॥ ३४७ अयोध्यां प्रस्थितो रामः स्तूयमामः सुरोत्समैः । भारद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः ३४८ भरतस्यान्तिके तत्र हनूमन्तं व्यसर्जयत् । स निषादालयं गत्वा गुहं दृष्ट्वाऽथ वैष्णवम् ॥ ३४९ राघवागमनं तस्मै प्राह वानरपुंगवः । नन्दिग्रामं ततो गत्वा दृष्ट्वा तं राघवानुजम् ॥ ३५० न्यवेदयत्तथा तस्मै रामस्याऽऽगमनोत्सवम् । भरतश्चाऽऽगतं श्रुत्वा वानरेण रघूत्तमम् ॥ ३५१
प्रहर्षमतुलं लेभे सानुजः ससुहृजनः । पुनरागत्य काकुत्स्थं हनूमान्मारुतात्मजः ॥ ३५२ __ सर्व शशंस रामाय भरतस्य च वर्तनम् । राघवस्तु विमानायादवरुह्य सहानुजः॥ ३५३
ववन्दे भार्यया सार्धं भरद्वाजं तपोनिधिम् । स तु संपूजयामास काकुत्स्थं सानुजं मुनिः ॥३५४ पकान्नैः फलमूलाद्यैर्वस्वैराभरणैरपि । तेन संपूजितस्तत्र प्रणम्य मुनिसत्तमम् ॥ अनुज्ञातः समारुह्य पुष्पकं सानुगस्तदा । नन्दिग्रामं ययौ रामः पुष्पकेण सुहृद्धृतः॥ ३५६ मत्रिभिः पौरमुख्यैश्च सानुजः कैकयीसुतः । प्रत्युद्ययौ नृपवरैः सबलैः पूर्वजं मुदा ॥ ३५७ संप्राप्य रघुशार्दूलं ववन्दे सोऽनुगैर्वृतः । [+पुष्पकादवरुह्याथ राघवः शत्रुतापनः ॥ ३५८ भरतं चैव शत्रुघ्नमुपसंपरिषस्वजे । पुरोहितं वसिष्ठं च मातृवृद्धांश्च बान्धवान् ॥ ३५९ पणनाम महातेजाः सीतया लक्ष्मणेन च । विभीषणं च सुग्रीवं जाम्बवन्तं तथाऽङ्गदम् ॥ ३६० हनूमन्तं सुषेणं च भरतः परिषस्वजे । भ्रातृभिः सानुगैस्तत्र मङ्गलस्नानपूर्वकम् ॥ ३६१ दिव्यमालाम्बरधरो दिव्यगन्धानुलेपनः । आरुरोह रथं दिव्यं सुमत्राधिष्ठितं शुभम् ॥ ३६२ संस्तूयमानस्त्रिदशैदेह्या लक्ष्मणेन च । भरतश्चैव सुग्रीवः शत्रुघ्नश्च विभीषणः॥ ३६३ अङ्गदश्च सुपेणश्च जाम्बवान्मारुतात्मजः । नीलो नलश्च सुभगः शरभो गन्धमादनः॥ ३६४ अन्ये च कपयः शूरा निषादाधिपतिर्मुहः । राक्षसाश्च महावीर्याः पार्थिवेन्द्रा महाबलाः ॥३६५ गजानश्वाव्रथान्सम्यगारुह्य(रूढा) बहुशः शुभान् । नानामङ्गलवादित्रैः स्तवनैः पुष्कलैस्तथा ॥ ऋक्षवानररक्षोभिर्निपादनरसैनिकैः । प्रविवेश महातेजाः साकेतं पुरमव्ययम् ॥ ३६७
आलोक्य राजनगरी पथि राजपुत्रो राजानमेव पितरं परिचिन्तयानः।। सुग्रीवमारुतिविभीषणपुण्यपादसंचारपूतभवनं प्रविवेश रामः ॥ ३६८ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे रामस्यायोध्याप्रवेशो
नामेकोनसप्तत्य धिाद्विशतमोऽध्यायः ॥ २६९ ॥ आदितः श्लोकानां समष्ट्यङ्काः-४७०००
+ धनुश्चिह्नान्तर्गतः पाटो झ. फ. पुस्तकस्थः ।
१ झ. फ. गैर्नुपः । पु । २ इ. अ. सुमित्राधि ।