________________
१९ एकोनविंशोऽध्यायः ]
पद्मपुराणम् । हते तदा सिन्धुसुते हरेण नाराचघातैत्रिजगत्तदा बभौ ।
प्रसूनवृष्टिर्ननृतुस्तदाऽङ्गना जगुश्च यक्षाः सुरकिंनरायाः॥ शंभुर्वैरिजयास्थितेन यशसा स्फाराङ्गकान्तिगिरिं
स्वं भेजे सुरसिद्धचामरगणैः संस्तूयमानः सदा । गौरी वाऽपि जगाम चाऽऽशु गिरितः श्वेतं सखीसंवृता ___ संचक्रुस्त्वभिसेवनं सुमनसां वर्पण देवाङ्गनाः॥ देवोऽसौ करुणामयः सुरगणान्स्वे स्व पदे स्थापय
न्यादादन्यदपि स्वकं वसु ततो ज्ञात्वा पतिः शंकरः। किं वक्तव्यमतः परं यदि भवेदीशानुकम्पा परा
कोऽयं वा त्रिदिवो धरातलमिदं स्यादात्मसात्सर्वतः॥ देवाः स्वराज्यमासाद्य यथापूर्व चकासिरे । बुभुजुर्यज्ञभागांस्ते लोकपालत्वमाश्रिताः ॥ १३७
नारद उवाचइति जालंधरस्योक्तं यथावदनुपूर्वशः। चरितं लोकवीरस्य राजन्नत्यद्भुतं तव ॥ १३८ विष्णुस्त्यजति नाद्यापि क्षीराब्धि यद्वशो नृप। सर्वोऽपि भुते स्वं कर्म तद्विद्धि त्वमसंशयम् १३९ तुभ्यं दुःखनिरासाय प्रोक्तमाख्यानमुत्तमम् । यावदेहोऽस्ति कर्माणि सुखदुःखानि कर्मतः १४० देही भुङ्क्तेऽवशो राजंत्राणं न ज्ञानतः परम् । कृष्णादीनां देहवन्धे सुखदुःखादि वर्तते ॥ १४१ तोतरेपां किं वाच्यं ये वैराग्यपराङ्मुखाः । ज्ञात्वेदृशीं कर्मगति सर्वेभ्यो बलवत्तमाम् ॥ १४२ धीरो भव प्रतीक्षस्व शुभकर्मागर्म पुनः । शत्रुजित्वा तु समये स्वं राज्यं पुनराप्स्यसि ॥ १४३ इतिहासमिम श्रुत्वा न दुःखेः परिभूयते । धमार्थकाममोक्षाश्च यथावचात्र कीर्तिताः॥ १४४ स्वयं पापहरं पुण्यं शोकमोहविनाशनम् । ब्राह्मणो ज्ञानमामोति राज्यं पामोति क्षत्रियः १४५ वैश्यश्च वहीं संपत्तिं श्रुत्वा शूद्रः सुखं लभेत् । राजा यो भ्रष्टराज्योऽपि रतः सन्नेव सत्पथि ॥ स राज्यं पुनरामोति श्रवणान्नित्यमस्य तु । आकय॑तन्सतां राजश्राव्यमन्यन्न रोचते ॥ ११७ कलं च कोकिलाला रूक्षं ध्वाङ्क्षरुतं तथा। आख्यानमेतदनपं श्रुत्वा सज्जनहत्मियम् ॥ १४८ हिरण्यतिलवस्त्राद्यैर्धेनुभूमिप्रदानतः । संतोषयेद्वाचकं तु तस्मिंस्तुष्टे फलं लभेत् ॥ १४९ देवताश्च प्रसीदेयुरचिते वाचके गुरो । अन्नदानादि दद्याच ब्राह्मणेभ्यः प्रपूजयेत् ॥ १५० जायते विजयी नित्यं पुत्रपौत्रसमृद्धिमान् । जायते विष्णुलोके यः शृणोत्याख्यानमुत्तमम् १५१ इति व्याजेन भो भूप तुलस्युत्पत्तिकारणम् । ये शृण्वन्ति नरश्रेष्ठा न तेषां पातकं कचित् १५२ तुलसीमाहात्म्यमिदं पवित्रं पापनाशनम् । श्रुत्वा तु लभते मोक्षमुक्त्वा चव न संशयः ॥ १५३ स्वगृहे रोपिता चैव तुलसी पापनाशिनी । दर्शनाद्ब्रह्महत्याऽपि नश्यते नात्र संशयः ॥ १५४ कार्तिके चैव माघे तु तुलस्या पूजयेद्धरिम् । वैशाखे तु विशेषेण पूजनं च हरेः स्मृतम् ॥ १५५
एकेनैव प्रदक्षिणेन सकलं पापं गतं वै सदा । _ येऽशुद्धा भुवि सन्ति दाननिरताः कालेन शुद्धिं गताः। तेऽपि स्युः सुरपृजनातनवः पापाच्च दूरं गता। ये वै विष्णुजनाश्च दुर्लभतरा द्यस्मिन्कलौ सांप्रतम् ॥
१५६ इति श्रीमहापुराणे पाद्म उत्तरखण्डे नाग्दयुधिष्टिरसंवादे जालंधरवधे मुरमहोत्सवो नामैकोनविंशतितमोऽध्यायः ॥ १९ ॥
आदितः श्लोकानां समष्ट्यङ्काः--३२८४१