________________
१८४७
२६८ अष्टषष्ट्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् । गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ५१ ततो भगीरथो राजा गौतमश्च महातपाः । तपसा पूजयित्वा मां गङ्गार्थ समयाचत ॥ ५२ सर्वलोकहितार्थाय तां गङ्गां वैष्णवीं शिवाम् । तयोरहं तामददां प्रीत्या देवि सरिद्वराम् ॥५३ गौतमेन समानीता गौतमी तेन कीर्तिता । भागीरथीति विख्याता तेन राज्ञा वृता यतः ॥५४ प्रसङ्गात्ते समाख्यातं गङ्गाजन्मात्यनुत्तमम् । ततो नारायणः श्रीमान्बलिदैत्यपतेः प्रभुः॥ ५५ रसातलं शुभं लोकं प्रददौ भक्तवत्सलः । सर्वेषां दानवानां तु नागानां यादसामपि ॥ ५६ राजानं तु बलि चक्रे यावदाभूतसंप्लवम् । प्रतिगृह्य बलेर्लोकान्बटुवेषेण दैत्यहा ॥ ५७ महेन्द्राय ददौ प्रीत्या काश्यपिर्विष्णुरव्ययः। ततो देवाः सगन्धर्वा ऋषयश्च महौजसः॥ ५८ तुष्टुवुः स्तवनैर्दिव्यैः पूजयामासुरच्युतम् । संक्षिप्य तन्महदूपं तेषां संदर्शनाय वै ॥ ५९ संपूज्यमानस्त्रिदशैरन्तर्धानं ययौ हरिः । इत्थं सुरक्षितः शक्रो विष्णुना प्रभविष्णुना ॥ ६० त्रैलोक्यं महदैश्वर्यमवाप त्रिदशेश्वरः । एतत्ते सर्वमाख्यातं वामनं वैभवं शुभे॥ शेषं च वैभवं देवि तद्वक्ष्यामि यथाक्रमम् ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे वामनचरितं नाम सप्तषष्टयाधेकद्विशततमोऽध्यायः ॥ २६॥
आदितः श्लोकानां समष्ट्यङ्काः-४६५५१
've
६२
अथाष्टषष्टयधिकद्विशततमोऽध्यायः ।
-
ईश्वर उवाचभृगुपुत्रो महानासीजमदग्निर्द्विजोत्तमः । समस्तवेदवेदाङ्गपारगश्च महातपाः ॥ तपस्तेपे स धर्मात्मा महेन्द्रं प्रति भामिनि । सहस्रवर्षपर्यन्तं गङ्गायाः पुलिने शुभे ॥ ततः प्रसन्नः प्राहेदं भगवान्पाकशासनः।
इन्द्र उवाचवरं वृणीष्व विप्रेन्द्र यत्ते मनसि वर्तते ।
ईश्वर उवाचततः प्रोवाच विप्रर्षिः परितुष्टं शतक्रतुम् ।
जमदग्निरुवाचमुरभि देहि मे देव सर्वकामदुघां सदा ।
ईश्वर उवाचततः प्रसन्नो देवेशस्तस्मै विप्राय गोत्रभित् । प्रददौ सुरभिं देवि सर्वकामदुधां तदा ।। ६ स लब्ध्वा सुरभि देवि जमदग्निर्महातपाः । उवास स महैश्वर्यः शतक्रतुरिवापरः ॥ ७ रेणुकस्य सुतां रम्यां रेणुकां नाम नामतः । उपयेमे विधानेन जमदग्निर्महातपाः ॥ ८ तया सह स धर्मात्मा रेमे वर्षाण्यनेकशः । पौलोम्या शुभया देव्या यथा संक्रन्दनो विभुः ॥९ ततः स पुत्रकामत्वादिष्टिं चक्रे सुधार्मिकः । इष्ट्या संतोषयामास पाकशासनमीश्वरम् ॥ १० परितुष्टः शचीभर्ता तस्मै(ददौ) पुत्रं महाबलम् । महौजसं महावाहुं सर्वशत्रुप्रतापनम् ।। ११
१ झ. शुभाम् ।