________________
१८४६
[ ६ उत्तरखण्डे -
महामुनिश्रीव्यासप्रणीतं -
बलिरुवाच
प्रीतये वासुदेवस्य सर्व पुण्यं कृतं मया । अद्य धन्योऽस्म्यहं विष्णुः स्वयमेवाऽऽगतो यदि ॥ २५ तस्य प्रदेयमेवाद्य जीवितं च महासुखम् । तस्मादस्मै प्रयच्छामि त्रिलोकीमपि च ध्रुवम् ॥ २६
शंकर उवाच ---
इत्युक्त्वा भूपतिस्तस्य पादौ प्रक्षाल्य भक्तितः । वाञ्छितां प्रददौ भूमिं वारिपूर्व विधानतः २७ परिणीय नमस्कृत्वा दत्त्वा वै दक्षिणं वसु । प्रोवाच तं पुनर्विप्रं प्रहृष्टेनान्तरात्मना ॥
२८
बलिरुवाच -
धन्योऽस्मि कृतकृत्योऽस्मि तव दत्त्वा महीं द्विज । यथेष्टं तव विमेन्द्र तगृहाण महीमिमाम् ॥ २९ शंकर उवाच
तमुवाच नृपं विष्णू राजंस्तव समीपतः । मापयामि पदेनाद्य पृथिवीं तव पश्यतः ॥ इत्युक्त्वा वटुरूपं तद्विहाय परमेश्वरः । त्रिविक्रमवपुर्भूत्वा जग्राह पृथिवीमिमाम् || पञ्चाशत्कोटिविस्तीर्णां ससमुद्रमहीधराम् । ससागरां च सद्वीपां सदेवासुरमानुषाम् ॥ पादेनैकेन पुरुषो विक्रम्य मधुसूदनः । उवाच दैत्यराजेन्द्रं किं करोमीति सांप्रतम् ॥ तद्वै त्रैविक्रमं रूपमीश्वरस्य महौजसम् । हितार्थमपि देवानामृषीणां च महात्मनाम् || न द्रष्टुमपि शक्यं स्याद्ब्रह्मणः शंकरस्य च । तत्पदं पृथिवीं सर्वामाक्रम्य गिरिजे शुभे ॥ अतिरिक्तं समभवच्छतयोजनमायतम् । दिव्यं चक्षुर्ददौ तस्मै दैत्यराज्ञे सनातनः ॥ तस्मै संदर्शयामास स्वकं रूपं जनार्दनः । तद्विश्वरूपं देवस्य दृष्ट्वा दैत्येश्वरो बली ॥ प्रहर्षमतुलं लेभे सानन्दाश्रुपरिप्लुतः । दृष्ट्वा देवं नमस्कृत्य स्तुत्वा स्तुतिभिरेव च । माह गद्गदया वाचा प्रहृष्टेनान्तरात्मना ॥
३०
३१
३२
३३
३४
३५
३६
३७
३८
बलिरुवाच --
धन्योऽऽस्मि कृतकृत्योऽस्मि त्वां दृष्ट्वा परमेश्वरम् । लोकत्रयं त्वमेवैतगृहाण परमेश्वर || शंकर उवाच --
४०
४१
४२
४४
अथ सर्वेश्वरो विष्णुर्द्वितीयं पदमव्ययम् । ऊर्ध्वं प्रसारयामास ब्रह्मलोकान्तमच्युतः ॥ सनक्षत्रग्रहोपेतं सर्व देवसमावृतम् । पादो न परिपूर्णोऽभूदच्युतस्य शुभानने ।। ततः पितामहो दृष्ट्वा चक्रपद्मादिचिह्नितम् । पदं तदेवदेवस्य हर्षसंकुलचेतसा ॥ धन्योऽस्मीति वदन्ब्रह्मा गृहीत्वा स्वकमण्डलुम् । भक्त्या प्रक्षालयामास तत्र संस्थितवारिणा ॥ अक्षय्यमभवत्तोयं तस्य विष्णोः प्रभावतः । तत्तीर्थ मेरुशिखरे पपात विमलं जलम् ॥ जगतः पावनार्थ वै चतुर्दिक्षु प्रवाहितम् । सीता चालकनन्दा च चक्षुर्भद्रा यथाक्रमम् ॥ ४५ ततश्चालकनन्दा च मेरोर्दक्षिणतः स्मृता । त्रिधा नाम्ना त्रिपथगा त्रिस्रोता लोकपावनी ॥। ४६ ॐ मन्दाकिनी प्रोक्ता त्वधो भोगवती तथा । मध्ये वेगवती गङ्गा पावनार्थं नृणां शिवा ४७ तां दृष्ट्वा मेरुमध्यात्तु प्रस्रवन्तीं शुभानने । आत्मनः पावनार्थाय शिरसाऽहमधारयम् ॥ दिव्यवर्षसहस्रं तु धृत्वा गङ्गाजलं शुभम् । शिवत्वमगमं देवि सर्वलोकेषु पूजितः || यो वहेच्छिरसा गङ्गातोयं विष्णुपदोद्भवम् । प्राशयेद्वा जगत्पूज्यो भविष्यति न संशयः ॥ ५०
४८
४९
१ झ. विप्रो ।
३९