________________
२६६ षट्पट्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८४३ ददौ तस्मै वरानिष्टान्भक्तिं चाव्यभिचारिणीम् । ततो देवगणैः सार्ध स्तूयमानो नृकेसरी १५० विकीर्णः पुष्पवर्षैस्तु तत्रैवान्तरधीयत । ततः सुरगणाः सर्वे स्वं स्वं स्थानं प्रपेदिरे ॥ १५१ पुनश्च यज्ञभागांश्च बुभुजुः प्रीतमानसाः । ततो देवाः सगन्धर्वा निरातङ्काऽभवंस्तदा ॥ १५२ तस्मिन्हते महादैत्ये सर्व एव प्रहर्षिताः । प्रहादस्तु तदा चके राज्यं धर्मेण वैष्णवः॥ १५३ हरेः प्रसादलब्धं तु वैष्णवं राज्यमुत्तमम् । बहुभिर्यज्ञदानाद्यैरर्चयित्वा नृकेसरिम् ॥ १५४ काले हरिपदं प्राप्तो योगिगम्यं सनातनम् । एतत्महादचरितं ये तु शृण्वन्ति नित्यशः ॥ १५५ ते सर्वे पापनिर्मुक्ता यास्यन्ति परमां गतिम् । एतत्ते कथितं देवि नृसिंहवैभवं हरेः॥ शेषां च वैभवावस्थां शृणु देवि यथाक्रमम् ॥
इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे नृसिंहप्रादुर्भावो नाम
पञ्चषष्ट्यधिकद्विशततमोऽध्यायः ।। २६५ ॥ आदितः श्लोकानां समथ्यङ्काः-४६४५७
अथ षट्पष्टयधिकद्विशततमोऽध्यायः ।
रुद्र उवाचमहादस्य सुतो जज्ञे विरोचन इतीरितः । तस्य पुत्रो महाबाहुबलिवैश्वानरः प्रभुः ॥ स तु धर्मविदां श्रेष्ठः सत्यसंधो जितेन्द्रियः । हरेः प्रियतमो भक्तो नित्यं धर्मरतः शुचिः ॥ २ स जित्वा सकलान्देवान्सेन्द्रांश्च समरुद्गणान् । त्रील्लोकान्स्ववशे *स्थाप्य राज्यं चक्रे महाबलः अकृष्टपच्या पृथिवी बहुसस्यफलप्रदा । गावः पूर्णदुधाः सर्वाः पादपाः फलपुष्पिताः॥ ४ स्वधर्मनिरताः सर्वे नराः पापविनिताः । अर्चयन्ति हृषीकेशं सततं विगतज्वराः॥ ५ एवं चकार धर्मेण राज्यं दैत्यपतिर्बलिः । इन्द्रादित्रिदशास्तस्य किंकराः समुपस्थिताः॥ ६ ऐश्वर्य त्रिषु लोकेषु बुभुजे बलदर्पकृत् । भ्रष्टराज्यं सुतं दृष्ट्वा तस्यापि हितकाम्यया ॥ ७ कश्यपो भार्यया सार्ध तपस्तेपे हरिं प्रति । अदित्या सह धर्मात्मा पयोव्रतसमन्वितः ॥ ८ अर्चयामास देवेशं पद्मनाभं जनार्दनम् । ततो वर्षसहस्राणि तेन संपूजितो हरिः ।। तत्रैवाऽऽविरभूत्तस्य देव्या सह सनातनः । तं दृष्ट्वा (पुरतः) पुण्डरीकाक्षं शङ्खचक्रगदाधरम् १० इन्द्रनीलमणिश्यामं सर्वाभरणभूषितम् । स्फुरकिरीटकेयूरहारकुण्डलशोभितम् ॥ ११ कौस्तुभोद्भासितोरस्कं पीतवस्त्रेण वेष्टितम् । श्रिया सह समासीनमण्डजेन्द्रे महात्मनि ॥ १२ तं दृष्ट्वा जगतामीशं हर्षनिर्भरचेतसा । पन्या सह नमस्कृत्वा तुष्टाव द्विजसत्तमः ॥
कश्यप उवाचनमो नमस्ते लक्ष्मीश सर्वज्ञ जगदीश्वर । सर्वात्मन्सर्वदेवेश सृष्टिसंहारकारक ।। अनादिनिधनानन्तवपुषे विश्वरूपिणे । नमस्ते वेदवेदाङ्गवपुषे सर्वचक्षुपे ॥
सर्वात्मने नमस्तुभ्यं सूक्ष्मात्सूक्ष्मतराय च । कल्याणगुणपूर्णाय योगिध्येयात्मने नमः॥ १६ * नमो युवकुमाराय श्रीभूलीलाधिपाय च । नित्यमुक्तकभोगाय परधान्नि स्थिताय च ॥ १७
+ संधिरार्षः । * ल्यवार्षः ।।
१ झ. अ. स्तत्र किं'। २ क. ज. सर्वेश । ३ . णरूपाय ।