________________
१८४२ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेस्त्रोत्सङ्गे स्त्रापयित्वा च ददर्शासौ मुखं हरेः(रिः) । विष्णुनिन्दाकृतं पापं तथा वैणवद्वेषजम् ।। नृसिंहस्पर्शनादेव निर्भस्मितमभूत्तदा । अथ दैत्येश्वरस्यासौ महगात्रं नृकेसरी ॥ १२० नविदारयामास तीक्ष्णैर्वजनिभैघनैः । स निर्मलात्मा दैत्येन्द्रः पश्यन्साक्षान्मुखं हरेः ॥१२१ नखैर्निभिन्नहृदयः कृतार्थो विजहावसून् । तगात्रं शतधा भित्त्वा नखैस्तीक्ष्णैर्महाहरिः॥ १२२ आकृष्यान्त्राणि दीर्घाणि कण्ठे संसक्तवान्प्रियात् । अथ देवगणाः सर्वे मुनयश्च तपोधनाः॥ ब्रह्मरुद्रौ पुरस्कृत्य शनैः स्तोतुं समाययुः । ते प्रसादयितुं भीता ज्वलितं विश्वतोमुखम् ॥१२४ मातरं जगतां धात्रीं चिन्तयामासुरीश्वरीम् । हिरण्यवर्णा हरिणी सर्वोपद्रवनाशिनीम् ।। १२५ विष्णोनित्यानवद्यागी ध्यात्वा नारायणी शुभाम् । देवीसूक्तं जपन्भक्त्या(न्तो वै) नमश्चक्रुः सनातनीम् ॥ तैश्चिन्त्यमाना सा देवी तत्रैवाऽऽविरभूत्तदा । चतुर्भुजा विशालाक्षी सर्वाभरणभूषिता ॥ १२७ - दुकूलवस्त्रसहिता दिव्यमालानुलेपना । तां दृष्ट्वा देवदेवस्य प्रियां सर्वे दिवौकसः॥ १२८ ऊचुः पाञ्जलयो देवी प्रसन्नं कुरु ते प्रियम् । त्रैलोक्यस्याभयं स्वामी यथा दद्यात्तथा कुरु ॥
महादेव उवाचइत्युक्ता सहसा देवी प्रियं प्राप्य जनार्दनम् । प्रणिपत्य नमस्कृत्य प्रसीदेति उवाच तम् ॥१३० तां दृष्ट्वा महिषी स्वस्य प्रियां सर्वेश्वरो हरिः। रक्षःशरीरजं क्रोधं तत्याज स तु तत्क्षणात् ॥ अङ्कमादाय तां देवीं समाश्लिष्य दयानिधिः । कृपासुधादृष्ट्या वै निरैक्षत महाहरिः॥ १३२ ततो जय जयेत्युच्चैः स्तुवतां नमतां तदा । तद्यथादृष्टितुष्टानां सानन्दः संभ्रमोऽभवत् ॥ १३३ ततो देवगणाः सर्वे हर्षनिर्भरमानसाः । ऊचुः प्राञ्जलयो देवं नमस्कृत्य जगत्पतिम् ॥ १३४
देवगणा ऊचुःद्रष्टुमत्यद्भुतं तेजो न शक्तास्ते जगत्पते । अत्यद्भुतमिदं रूपं बहुवाहुपदाङ्कितम् ॥ १३५ जगत्रयं समाक्रान्तं तेजस्तीक्ष्णतरं तव । द्रष्टुं स्थातुं न शक्ताः स्म सर्व एव दिवौकसः॥ १३६ ___महादेव उवाचअर्थितस्तु विबुधैस्तेजस्तदतिभीषणम् । उपसंहृत्य देवेशो बभूव सुखदर्शनः ॥ १३७ शरत्कोटीन्दुसंकाशः पुण्डरीकनिभेक्षणः । सुधामयसटापुञ्जविद्युत्कोटिनिभः शुभः॥ १३८ नानारत्नमयर्दिव्यैः केयूरैः कटकान्वितैः । बाहुभिः कल्पवृक्षस्य शाखौघेरिव सत्फलैः ॥१३९ चतुर्भिः कोमलैर्दिव्यैरन्वितः परमेश्वरः । जपाकुसुमसंकाशैः शोभितः करपङ्कजैः॥ १४० शङ्खचक्रगृहीताभ्यामुद्धाहुभ्यां विराजितः । वरदाभयहस्ताभ्यामितराभ्यां नृकेसरी ॥ १४१ श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः । उद्यदिनकरामाभ्यां कुण्डलाभ्यां विराजितः १४२ हारकेयूरकटकैर्भूषणैः समलंकृतः। सव्याङ्गस्थश्रिया युक्तो राजते नरकेसरी ॥ १४३ लक्ष्मीनृसिंहं तं दृष्ट्वा देवताः समहर्षयः । आनन्दाश्रुजलैः सिक्ता हर्षनिर्भरचेतसः॥ १४४ आनन्दसिन्धुमनास्ते नमश्चक्रुनिरन्तरम् । अर्चयामासुरात्मेशं दिव्यपुष्पसमर्पणैः ॥ १४५ रत्नकुम्भैः सुधापूर्णरभिषिच्य सनातनम् । वस्त्रैराभरणैर्गन्धैः पुष्पै पैमनोरमैः ॥ १४६ . दिव्यनिवेदितैर्दीपैरर्चयित्वा नृकेसरिम्(?) । तुष्टुवुर्दिव्यस्तुतिभिर्नमश्चकुर्मुहुर्मुहुः॥ १४७ ततः प्रसन्नो लक्ष्मीशस्तेपामिटान्वरान्ददौ । ततो देवगणेः सार्ध सर्वेशो भक्तवत्सलः ॥ १४८ महादं सर्वदैत्यानां चक्रे राजानमव्ययम् । आश्वास्य भक्तं प्रह्लादमभिषिच्य सुरोत्तमैः ॥ १४९