________________
२६५ पञ्चषष्ट्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८४१ __महादेव उवाचइत्युक्त्वा सहसा खड्गमाकृष्य दितिजेश्वरः । प्रहादोरसि चिक्षेप हन्तुं खड़ेन तं रुषा ॥ ९० तस्मिन्क्षणे महाशब्दः स्तम्भे संश्रूयते भृशम् । संवाशनिसंरावैः खमिव स्फुटितान्तरम् ॥ ९१ तेन शब्देन महता दैत्यश्रोत्रविघातिना । सर्वे निपातिता भूमौ छिन्नमूला इव द्रुमाः॥ ९२ बिभ्यति संप्लुतं दैत्या मेनिरे वै जगत्रयम् । ततः स्तम्भे महातेजा निष्कान्तो वै महाहरिः॥९३ चकार सुमहाघोरं जगत्क्षयनिभं(करं) स्वनम् । तेन नादेन महता तारकाः पतिता भुवि ॥ ९४ नृसिंहं वपुरास्थाय तत्रैवाऽऽविरभूद्धरिः । अनेककोटिसूर्याग्नितेजसा सुसमावृतः॥ ९५ मुखे पञ्चाननप्रख्यः शरीरे मानुषाकृतिः । दंष्ट्राकरालवदनः स्फुरजिह्वावरोद्धतः ॥ ९६
ज्वालावलितकेशान्तस्तप्तालातेक्षणो विभुः । सहस्रबाहुभिर्दीधैः सर्वायुधसमन्वितैः ॥ ९७ " वृतो मेरुरिवाऽऽभाति बहुशाखनगान्वितः । दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः ॥ ९८
तस्थौ नृकेसरी तत्र संहर्तु सर्वदानवान् । तं दृष्ट्वा घोरसंकाशं नारसिंहं महाबलम् ॥ ९९ [*दग्धाक्षिपक्ष्मो दैत्येन्द्रो विह्वलाङ्गः पपात ह । प्रहादोऽथ तदा दृष्ट्वा नारसिंहोपमं हरिम् ] । जयशब्देन देवेशं नमश्चक्रे जनार्दनम् । ददर्श तस्य गात्रेषु नृसिंहस्य महात्मनः ॥ १०१ लोकान्समुद्रान्सद्वीपान्सुरगन्धर्वमानुषान् । अण्डजानां सहस्रं तु सटाग्रे तस्य दृश्यते ॥ १०२ दृश्यन्ते तस्य नेत्रेषु (नेत्रयोस्तस्य) सोमसूर्यादयस्तथा । [कर्णयोरश्विनौ देवौ दिशश्च विदिशस्तथा ॥ ललाटे ब्रह्मरुद्रौ च नभो वायुश्च नासिके । इन्द्राग्नी तस्य वक्त्रान्ते जिह्वायां च सरस्वती १०४ दंष्टासु सिंहशार्दूलशरभाश्च महोरगाः । कण्ठे च दृश्यते मेरुः स्कन्धेष्वपि(न्धेऽपि च) महाद्रयः।। देवतिर्यमनुष्याश्च बाहुष्वपि महात्मनः। नाभौ चास्यान्तरिक्षं च पादयोः पृथिवी तथा।।१०६ रोमस्वोषधयः सर्वाः पादपा नखपङ्क्तिषु । निःश्वासेषु च वेदाश्च साङ्गोपाङ्गसमन्विताः॥ १०७ आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः । सर्वाङ्गेषु प्रदृश्यन्ते गन्धर्वाप्सरसश्च ये ॥ १०८ इत्थं विभूतयस्तस्य दृश्यन्ते परमात्मनः। श्रीवत्सकौस्तुभोरस्कं वनमालाविभूषितम् ॥ १०९ शङ्खचक्रगदाखड़शाबिहेतिभिर्युतम् । सर्वोपनिषदामर्थं दृष्ट्वा दैत्येश्वरात्मजः ॥ ११० हर्षाश्रुजलसिक्ताङ्गः प्रणनाम मुहुर्मुहुः । दैत्येन्द्रस्तु हरिं दृष्ट्वा क्रोधान्मृत्युवशे स्थितः ॥ १११ योद्धं खडं समुद्यम्य नृसिंहं तमथाद्रवत् । अथ दैत्यगणाः सर्वे लब्धसंज्ञा महावलाः ॥ ११२ स्वान्यायुधानि चाऽऽधाय हरिं जनुस्त्वरान्विताः । पलालकाण्डानि यथा वह्नौ क्षिप्तान्यनेकशः तथैव भस्मतां यान्ति सहस्राण्यायुधानि वै । तान्यनेकानि दैत्यानां दृष्ट्वा नरहरिस्तदा ॥ ११४ सटैपैदाह च ज्वालामालाविरचितस्फुटैः । नृकेसरिसटोद्भूतवह्निना दानवा भृशम् ॥ ११५ निर्भस्मिताः क्षणात्सर्वे निःशेषं तदभृद्भलम् । प्रह्लादं सानुगं हित्वा भस्मिते रक्षसां वले॥११६ क्रोधादैत्यपतिः खड़माकृष्याभ्यप्रपद्यत । खड्गहस्तं तु दैत्येन्द्रं जग्राहेकेन वाहुना ॥ ११७ पातयामास देवेशो यथा शाखां महानिलः । गृहीत्वा पतितं भूमौ महाकायं नृकेसरी ॥ ११८
* धनुश्चिह्नान्तर्गतः पाठो झ. फ. पुस्तकस्थः । + धनुश्चिद्वान्तर्गतः पाठः क. ज. झ. फ. पुस्तकस्थः ।
१ ङ. अ. रीरूपः मं' । २ झ. फ. "कान्गिरीन्मप्ती । ३ झ. फ. "दयो ग्रहाः । । ४ ङ. दंष्ट्राग्रे । ५ झ. हु. निर्भत्मिताः ।