________________
+
१९ एकोनविंशोऽध्यायः ] पद्मपुराणम् ।
१२८३ नारद उवाचएवमुक्तो जघानाऽऽशु सिन्धुजं विशिखैः शिवः । ते शराः सिन्धुपुत्रस्य देहलग्ना विभान्ति च७८ यथा लोहगिरिप्रान्ते वेणवो वह्निदीपिताः । जालंधरो हरस्याङ्गं पूरयामास मार्गणैः ॥ ७९ तैः शरैः शुशुभे रुद्रो यया खं खेचराकुलम् । जालंधरेशयोयुद्धं तथा द्वंद्वमभूनृप ॥ ८० हरादन्यो न हन्ताऽस्ति न सोढाऽन्योऽर्णवात्मजात् । गिरिकोटिसहस्रेस्तु तदा पृथ्वीपुटोद्धृतैः पूरयामास समरे सिन्धुजः पार्वतीपतिम् । ततः शूलेन निहतो रुद्रेणोरसि दानवः॥ ८२ निःससार मुखात्तस्य ज्वरो जम्भो भयंकरः । स चे चिरज्वरो नाम सिंहवक्त्रो नराकृतिः ८३ दैत्यदेहाद्विनिष्क्रान्तं दृष्ट्वा सिंहमुखं ज्वरम् । हुंकारमकरोद्घोरं शरभस्तत्र निर्ययौ ॥ ८४ शिवस्य निःसृतेनासौ शरभेण निपातितः। अजेयं शंकरं दृष्ट्वा वृषभेन्द्रेण संयुतम् ॥ ८५ आययो वृषभाभ्यासे तरसा सागरात्मजः । वृषं पुच्छे गृहीत्वा च भ्रामयामास चाम्बरे ॥८६ जालंधरो महाबाहुश्चिक्षेप हिमवद्गिरौ । ततस्त्रिशूलमत्युग्रं मुमोच गिरिजापतिः॥ ८७ तद्धस्तेन गृहीत्वा च दैत्येशः शिवसंनिधौ । रथारूढो धनुर्गृह्य कालकेदारमधिजः॥ ८८ पूरयामास विशिखैः शिवमुर्वीतले स्थितम् । उग्रः शस्त्रशरांश्छिच्चा बाणै रथमचूर्णयत् ॥ ८९ दशयोजनविस्तीर्ण सारथ्यश्वसमन्वितम् । जालंधरोऽपि विरथो बभ्यधावन्मधे शिवम् ॥ ९० रणे युद्धमभूद्धोरमद्भुतं लोमहर्षणम् । तदृष्ट्वाऽकाण्डकल्पान्तशङ्कया तत्रसुः सुराः॥ ९१ सोस्रेस्तावदन्योन्यं जन्नतुर्भीमविक्रमो। षड्भिः पृथ्वी चालयन्तो कम्पयन्तौ नमः स्वनैः॥९२ अथोत्कटं बलं दृष्ट्वा दानवेन्द्रस्य शंकरः । शस्त्रजालं जहाराऽऽशु योगमायावलेन सः ॥ ९३ ततः कोटिभुजो दैत्यो दंष्ट्राभीषणलोचनः । शस्त्रहीनोऽपि तरसा धावमानो हरं ययौ ॥ ९४ विशालकरबन्धेन बबन्ध समरे शिवम् । ततस्तस्य कृपाणेन चिच्छेद करकाननम् ॥ ९५ सिन्धुजेन भुजाकान्तो रुद्रोऽभून्नीललोहितः । लीलया योधयामास रणेऽसौ सिन्धुनन्दनम् ९६ छिन्नहस्तोऽपि युयुधे वर्भानुः शिरसा यथा । नियुद्धेन नदीसूनुस्तोषयामास शंकरम् ॥ ९७ परितुष्टोऽब्रवीच्छंभुर्वरं वरय दुर्लभम् । जालंधरेण सोऽप्युक्तस्त्वं मे देह्यात्मनः पदम् ॥ ९८ मम दोःशस्त्रहीनस्य नावज्ञां कर्तुमर्हसि । शीघ्रं प्रयच्छ मे सिद्धिं नो चेत्त्वां संहराम्यहम्॥ ९९ इत्युक्त्वा सभुजो भूत्वा जन्ने तं मुष्टिनोरसि । ततः सुदर्शनं चक्रं पुरा यनिर्मितं स्वयम्॥ १०० मुखादुद्गीर्य तद्धस्ते गृहीत्वाऽतोलयद्रुषा । सूर्यकोटिसहस्राभं ग्रसत्तत्सचराचरम् ॥ १०१ तेन चक्रेण चिच्छेद शिरो जालंधरस्य च । ततस्तच्छीर्षमुत्पत्य गगने शतयोजनम् ॥ १०२ दंष्ट्राशतकरालास्यं स्वर्भूमिनयनं च यत् । व्याघ्रगत्या ततो यातं सदनं ब्रह्मणो नृप ॥ १०३. भूयः स्वर्गे ततो दृष्ट्वा मृडः शीर्षमधावत । स्रवत्तद्रुधिरं भूरि प्रकुर्वद्भरवस्त्रनम् ॥ १०४ ततो दिशः प्रनष्टास्ता गगने विलयं गताः। न तेजसां प्रकाशोऽस्ति चचाल वसुधा भयात् १०५ आपतत्तजघानाऽऽशु रुद्रश्चक्रेण तच्छिरः। द्विधा भूत्वाऽथ राजेन्द्र पपात हिमवद्गिरौं ॥ १०६ ततो जालंधरस्याऽऽशु शिरसः शकलौ किल । विशतः सर्वभूतानां पश्यतां स्म पाकपौ।।१०७ तस्य कण्ठात्समुद्भता दैत्याः शतसहस्रशः । ते हतास्तेन चक्रेण कपर्दिकरशालिना ॥ १०८ जालंधरकबन्धं तन्ननत रुधिरारुणम् । पुनः पुनः समुद्भतास्तस्य कण्ठात्तु दानवाः॥ १०९.
१ झ. °न्धुजं पार्वतीपतिः । त' । २ . च वीर'। ३ दृ. ने मप्रयो ।