________________
'
पद्मपुराणम् ।
१८३१
२६२ द्विपट्यधिकद्विशततमोऽध्यायः ] गर्हितान्नं न चाश्नन्ति पितरश्च दिवौकसः । एकादश्यां न भोक्तव्यं सुरां वा न पिवेत्कचित्१५ ब्राह्मणं नैव हन्यात्तुं सममेतत्रयं मतम् । [तस्मादेकादशीं शुद्धा ( एकादश्यां तु शुद्धाया ) मुपवासं समाचरेत् ] ।। १६
१७
२५
२६
दशमीमिश्रितां तां तु प्रयत्नेन विवर्जयेत् । अरुणोदय वेलायां दशमी मिश्रिता भवेत् ॥ तां त्यक्त्वा द्वादशी शुद्धामुपोपेदविचारयन् । कलायां विद्यमानायां सूर्यस्योदयनं प्रति ।। १८ त्रयोदश्यां तथा देवी द्वादशी परिविद्यते । तथा च [ + द्वादशी शुद्धा छुपवासे विधीयते ।। १९ अरुणोदयवेलायां कृत्यं सर्व समाचरेत् । कलायामपि ] द्वादश्यां पारणं तत्र चोदितम् ॥ २० शुद्धामेकादश चापि त्यजेदत्र न संशयः । कलाऽप्येकादशी यत्र द्वादश्यामुदिते खौ || सर्वामेकादशीं त्यक्त्वा तत्रैवोपवसेद्विजः । एवं विधिं विनिश्चित्य समुपोप्यं हरेर्दिनम् ।। सायमाद्यन्तयोरह्नोः सायं प्रातस्तु मध्यमे । तत्रोपवासं कुर्वीत त्यक्त्वा भुक्तिचतुष्टयम् ॥ दशम्यामेकभुक्तस्तु नारीसंगमवर्जितः । अवनीतल्पशायी च परेऽहनि वसेच्छुचिः ॥ धात्रीफलानुलिप्ताङ्गः स्नानं संध्यां समाचरेत् । उपवासपरो भूत्वा रात्रौ संपूजयेद्धरिम् ॥ पाषण्डिनं विकर्मस्थं पतितं श्वपचं तथा । नावलोकेन संभाषेन्न स्पृशेत्तत्र वैष्णवः ॥ अवैष्णवस्तु यो विप्रः स पापण्डः प्रकीर्तितः । शिखोपवीतत्यागी च विकर्मस्थ इतीरितः।। २७ महापापोपपापाभ्यां युक्तः पतित उच्यते । अन्त्यजः श्वपचः प्रोक्तो वेदैस्तत्र सुनिर्णयः ॥ २८ रात्रौ संपूज्य देवेशं जागरं च समाचरेत् । गन्धपुष्पैस्तथा दीपैर्वस्त्रैराभरणैः शुभैः ॥ जपैः स्तोत्रैर्नमस्कारैः पूजयेन्निशि भक्तितः । ततः प्रभातसमये तुलसीमिश्रितैर्जलैः ॥ स्नात्वा सम्यग्विधानेन संतर्प्य पितृदेवताः । पूजयेज्जगतामीशं लक्ष्म्या सह जनार्दनम् ॥ ३१ कोमलैस्तुलसीपत्रैः पुष्पैश्चैव सुगन्धिभिः । दीपान्नी राजयेत्तत्र शतमष्टोत्तरं ततः । शतपत्रकृतां मालां ताभ्यां सम्यनिवेदयेत् । धूपं दीपं च नैवेद्यं ताम्बूलं च समर्पयेत् ॥ ३३ शर्करासहितं दिव्यं पायसान्नं समर्पयेत् । कर्पूरेण च संयुक्तं ताम्बूलं च निवेदयेत् ॥ प्रदक्षिणं नमस्कारं कृत्वा भक्त्या समन्वितः । आज्येन जुहुयाद्वह्नौ शतमष्टोत्तरं तथा ॥ ३५ प्रत्यृचं पुरुषसूक्तेन श्रीसूक्तेन च पायसम् । ब्राह्मणान्भोजयेद्भक्त्या स्वयं भुञ्जीत वाग्यतः ३६ [पुराणादिप्रपाठेन क्षपयेत्तद्दिनं महत् । क्षितिशायी ब्रह्मचारी तस्यामेव निशि स्वपेत् ।। ३७ एवं संपूज्यमानः स द्वादश्यां कमलापतिः ] । क्षणात्प्रसन्नो भगवान्सर्वाभीष्टप्रदो ध्रुवम् ॥ ३८ इत्येतत्कथितं देवि द्वादशीव्रतमुत्तमम् । किमन्यच्छ्रोतुकामाऽसि तद्वक्तव्यं ब्रवीम्यहम् ॥
२९
३०
३२
३४
३९
इति श्रीमहापुराणे पान उत्तरखण्ड उमामहेश्वरसंवादे द्वादशीमाहात्म्यकथनं नाम द्विषष्ट्यधिकद्विशततमोऽध्यायः ॥ २६२ ॥
आदितः श्लोकानां समथ्यङ्काः - ४६१८१
२१
२२
२३
२४
* इदम झ. फ. पुस्तकस्थम् । + धनुश्चिहान्तर्गतः पाठः, झ. फ. पुस्तकस्थः । * धनुश्चिहान्तर्गतः पाटो झ. फ. पुस्तकस्थः ।
१ झ. फ. तु इत्येषा वैदिकी श्रुतिः । त । २ङ न. 'तः । संध्योप । ३ झ. फ. 'क्तो देवि तत्रैष नि । ४ झ. "था धुपे' । ५ झ. विशिष्यते ।