SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ १८३० महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेदेवा ऊचुःशेषस्य दिग्गजानां च सहायार्थ महावल । धर्तुमर्हसि देवेश सप्तद्वीपवती महीम् ॥ १४ ___ रुद्र उवाचएवमस्त्विति हृष्टात्मा भगवाल्लोकभावनः । धारयामास धरणी सप्तद्वीपसमामृताम् ॥ १५ ततो देवाः सगन्धर्वा दैत्यदानवमानुपाः। महर्षिभिरनुज्ञाताः स्वर्लोकान्प्रतिपेदिरे ॥ १६ तदाप्रभृति ते सर्वे देवा ब्रह्मपुरोगाः । सिद्धा ये मानुषाश्चैव योगिनो मुनिसत्तमाः ॥ १७ विष्णोराज्ञां पुरस्कृत्य भक्त्या परमया युताः । एकादश्यामुपोष्याथ भक्त्या चैव जनार्दनम् १८ द्वादश्यामर्चनं चक्रु(यामासु)विधिना वरवणिनि । [*एतत्तु सर्वमाख्यातं देव्या जन्म वरानने॥ कौम च वैभवं विष्णोः किमन्यच्छ्रोतुमिच्छसि ॥ इति श्रीमहापुगणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे एकादश्शुपवासकथनं ___ न मैकषष्ट्यधिकद्विशततमोऽध्यायः ॥ २६१ । आदितः श्लोकानां समष्ट्यङ्काः-४६१४२ अथ द्विषष्ट्यधिकद्विशततमोऽध्यायः । पार्वत्युवाचभगवश्रोतुमिच्छामि द्वादश्याश्च विधानकम् । विष्णोः पूजाविधानं च कर्तव्यं तत्र वै प्रभो ॥१ एकादश्याः प्रभावं च सर्वपापहरं नृणाम् । आचश्व विस्तरेणैव मयि प्रीत्या महेश्वर ॥ २ __ महादेव उवाचशृणु देवि प्रवक्ष्यामि द्वादश्याश्च विधानकम् । तस्याः स्मरणमात्रेण संतुष्टः स्याजनार्दनः॥ ३ एकादश्यां तु प्राप्तायां समुपोष्येह मानवः । सर्वपापविनिर्मुक्ता यान्ति विष्णोः परं पदम् ॥ ४ सप्तजन्मार्जितं पापं ज्ञानतोऽज्ञानतः कृतम् । क्षणादेव लयं याति द्वादश्यां हरिपूजनात् ॥ ५ । अश्वमेधसहस्राणि वाजपेयशतानि च । एकादश्युपवासस्य कलां नार्हन्ति षोडशीम् ॥ ६ - धर्मदा ह्यर्थदा चैव कामदा मोक्षदा किल । सर्वकामदुघा नणां द्वादशी वरवर्णिनि ॥ ७ एकादशीसमं किंचित्पापत्राणं न विद्यते । एकादशीसमं किंचितं नास्ति शुभेक्षणे ॥ ८ एकादशी परित्यज्य यो ह्यन्यद्बतमाचरेत् । स करस्थं महाराज्यं त्यक्त्वा भैक्ष्यं तु याचते ॥९ एकादशेन्द्रियैः पापं यत्कृतं भवति प्रिये । एकादश्युपवासेन तत्सर्व विलयं व्रजेत् ॥ १० रटन्तीह पुराणानि भूयो भूयो वरानने । न भोक्तव्यं न भोक्तव्यं संप्राप्ते हरिवासरे ॥ ११ [+भुव भुवेति यो(न) ब्रूयात्संप्राप्ते हरिवासरे] । अभक्ष्यं सर्वदा प्रोक्तं किं पुनः शुक्लकृष्णयोः॥ वर्णानामाश्रमाणां च स्त्रीणां च वरवणिनि । एकादश्युपवासस्तु कर्तव्यो नात्र संशयः॥ १३ एकादश्यां तु प्राप्तायां मातापित्रोमृतेऽहनि । द्वादश्यां तु प्रदातव्यं नोपवासदिने कचित् ॥ १४ * अयं श्लोकः क. ज. स. फ. पुस्तकस्थः । + इदमर्धे झ. फ पुस्तकस्थम् । १ झ. फ. °माः । ऋषयो मा ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy