________________
२५९ एकोनषष्ट्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८२५ दुर्वासा उवाचप्रैलोक्यैकश्रिया युक्तो यस्मान्मामवमन्यसे । तस्मात्रैलोक्यश्रीनष्टा भवत्वेव न संशयः ॥ ९
रुद्र उवाचइति शप्तस्ततः शक्रो जगाम स्वपुरं पुनः । ततः श्रीजगतां धात्री क्षणादन्तर्दधे स्वयम् ॥ १० अन्तर्धानं गता लक्ष्मीस्तदा नष्टं जगत्रयम् । यदपाङ्गाश्रितं सर्व जगत्स्थावरजङ्गमम् ।। ११ तस्यामन्तर्धानवत्यां सर्व नष्टतरं भवेत् । ब्रह्मादित्रिदशाः सर्वे गन्धर्वा यक्षकिंनराः ॥ १२ दैत्याश्च दानवा नागा मनुष्या राक्षसास्तथा । पशवः पक्षिणः कीटाः [*सर्वे स्थावरजङ्गमाः॥ तया लक्ष्म्या जगन्मात्रा ते सर्वे नावलोकिताः । दारिद्येणैव निहतास्ते सर्वे दुःखभागिनः॥१४ क्षुत्पिपासान्विताः सर्वे चुक्रुशुवै निरन्तरम् । न वर्जलधराः सर्वे शुष्का जलाशयाः] ॥ १५ सर्वे ते पादपाः शुष्काः फलपुष्पविवर्जिताः । तदा देवाः सगन्धर्वा दैत्यदानवराक्षसाः ॥ १६ क्षुत्पिपासार्दिता जग्मुर्ब्रह्माणममितौजसम् । ऊचुस्तं देवदेवेशमब्जयोनि पितामहम् ॥ १७
देवा ऊचुःभगवन्क्षुत्पिपासाभ्यां पीडितं हि जगत्रयम् । न हुतं न वषट्कारः सर्वधर्मविवर्जितम् ॥ १८ क्षुत्पिपासार्दिताः सर्वे देवदानवमानवाः। त्रातारं सर्वलोकेशं भवन्तं शरणं गताः ॥ त्रातुमर्हसि देवेश क्षुत्पिपासार्दिताञ्जनान् ।
__ रुद्र उवाचइति तेषां वचः श्रुत्वा सर्वलोकपितामहः । उवाच परमप्रीतस्तान्सर्वान्प्रति मानदः ॥
ब्रह्मोवाचशृणुध्वं देवताः सर्वे दैत्यगन्धर्वमानवाः । महेन्द्रस्यापचारेण सर्वमेतदुपस्थितम् ।। समुद्भूतमिदं घोरं जगत्संवर्तकं महत् । दुर्वाससं महात्मानमनयत्क्रोधमात्मवान् ॥ तस्मात्क्रुद्धेन तेनेदं नष्टं लोकत्रयं सुराः । असो रोषपरीतात्मा क्रोधेन कलुपीकृतः ॥ २३ जगत्रयस्य श्रीनटा भवत्वित्याह दुर्मतिः। तच्छापाजगतां धात्री लक्ष्मीर्नारायणप्रिया ॥ २४ अन्तर्धानं गता देवी जगन्माता महेश्वरी । यदपाङ्गेक्षिता लोका भवन्ति सुखिनस्तथा ॥ २५ नालोकिता जगन्मात्रा दुःखभागिन एव हि । तस्मात्सर्वे वयं गत्वा दुग्धाब्धौ स्थितमुत्तमम् ।। तत्र नारायणं देवमर्चयामः सनातनम् । तस्मिन्प्रसन्ने देवेशे शिवमेतद्भवेज्जगन् ।
रुद्र उवाचइति निश्चित्य मनसा ब्रह्मा देवगणैर्वृतः । भृग्वादिमुनिभिः सार्ध प्रययो क्षीरसागरम् ॥ २८ क्षीराब्धेरुत्तरतटे ब्रह्मरुद्रादिदेवताः। विष्णुं समर्चयामासुः पौरुषेण विधानतः ॥ जपन्नष्टाक्षरं मत्रं पौरुपं सूक्तमेव च । ध्यायन्तोऽनन्यमनसो जुहुवुः परमेश्वरम् ॥ तुपुवुः स्तवनैर्दिव्यैर्नमश्चक्रुर्विधानतः । ततः प्रसन्नो भगवान्सर्वेषां च दिवौकसाम् ॥ तेषां संदर्शने तस्थौ स्तूयमानो महर्षिभिः । वैनतेयं समारुह्य सर्वदेवमयं विभुम् ॥ तं दृष्ट्वा जगतामीशं शङ्खचक्रगदाधरम् । पीतवस्त्रं चतुर्वा हुं पुण्डरीकनिभेक्षणम् ॥ श्रीवत्सकौस्तुभोरस्कं वनमालाविभूषितम् । किरीटहारकेयूरनूपुरैरुपशोभितम् ।।
* धन
द्वान्तर्गतः पाठः क.ज. झ. फ. पुस्तकस्थः ।