SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ १८१२ महामुनिश्रीव्यासप्रणीतं - [ ६ उत्तरखण्डे - दृश्यमानमिदं सर्वमनित्यमिति चोच्यते । अत्रापि प्राकृतं रूपमण्डस्यैव विनाशनम् ॥ प्राकृतानां हि रूपाणामनित्यत्वं तथोच्यते । इदमर्थे महादेवि प्रकृतेरुद्भवं ( वो) हरेः ॥ क्रीडार्थं देवदेवस्य विष्णोर्लीलाविकारिणः । लोकैश्चतुर्भिर्दशभिः सागरैद्वीपसंयुतैः ॥ भूतैश्चतुर्दशभिश्च भूधरैश्च महोत्सवैः । परिपूर्णमिदं रम्यमण्डं प्रकृतिसंभवम् ॥ वस्त्रैरावरणैर्जुष्टं दशोत्तरगुणान्वितैः । कलाकाष्ठादिरूपेण यः कालः परिवर्तते ॥ कालेनैव जगत्सर्गस्थितिसंहारकं भवेत् । चतुर्युगसहस्रे द्वे ब्रह्मणो दिवसो भवेत् ॥ तावन्ति शतवर्षाणि ब्रह्मणोऽव्यक्तजन्मनः । क्षये तु ब्रह्मणः प्राप्ते सर्वसंहारको भवेत् ॥ ४७ अण्डमण्डगता लोका दह्यन्ते कालवह्निना । सर्वात्मनस्तथा विष्णोः प्रकृत्यां विनिवेशिताः ४८ अण्डा वरणभूतानि प्रकृतौ लयमामुयुः । सा सर्वजगदाधारा प्रकृतिर्हरिसंश्रिता ॥ ४६ ४९ ४१ ४२ ४३ ४४ ४५ ५० ५१ ५६ या जगत्सर्गलया करोति भगवान्सदा । क्रीडया देवदेवेन सृष्टा माया जगन्मयी ॥ अविद्या प्रकृतिर्माया महाविद्या जगन्मयी । सर्गस्थितिलयानां सा हेतुभूता सनातनी ॥ योगनिद्रा महामाया प्रकृतिस्त्रिगुणान्वितौ । अव्यक्तं च प्रधानं च विष्णोर्लीलाविकारिणः॥ ५२ जगत्सर्गलयौ स्यातां प्रकृतेरेव सर्वदा । असंख्यं प्रकृतिस्थानं निविडध्वान्तमव्ययम् ॥ ५३ ऊर्ध्वे तु सीनि विरजा निःसीमा तु सनातनी । तयाssवृतं जगत्सर्वं स्थूलसूक्ष्माद्यवस्थया ५४ विकाससंकोचावस्थाभ्यां तस्याः सर्गलयौ स्मृतौ । एवं भूतानि सर्वाणि प्रकृत्यन्तर्गतानि वै५५ ततः शून्यमिदं सर्वं प्रकृत्यन्तर्गतं महत् । एवं प्राकृतरूपस्य विभूते रूपमुत्तमम् ॥ त्रिपाद्विभूतिरूपं तु शृणु भूधरनन्दिनि । प्रधानपरमव्योम्नोरन्तरे विरजा नदी ॥ वेदाङ्गस्वेदजनिततोयैः प्रस्राविता शुभा । तस्याः पारे परे व्योम्नि त्रिपाद्भूतं सनातनम् ॥ ५८ अमृतं शाश्वतं नित्यमनन्तं परमं पदम् । शुद्धं सत्त्वमयं दिव्यमक्षरं ब्रह्मणः पदम् ॥ अनेककोटिसूर्याग्नितुल्यवर्चसमव्ययम् । सर्ववेदमयं शुद्धं सर्वप्रलयवर्जितम् || असंख्यमजरं नित्यं जाग्रत्स्वप्रादिवर्जितम् । हिरण्मयं मोक्षपदं ब्रह्मानन्दसुखायम् ॥ समानाधिकरहितमाद्यन्तरहितं शुभम् । तेजसाऽत्यद्भुतं रम्यं नित्यमानन्दसागरम् ॥ एवमादिगुणोपेतं तद्विष्णोः परमं पदम् । न तद्भासयते सूर्यो न शशाङ्को न पावकः ॥ यद्गत्वा न निवर्तन्ते तद्धाम परमं हरेः । तद्विष्णोः परमं धाम शाश्वतं नित्यमच्युतम् ॥ न हि वर्णयितुं शक्यं कल्पकोटिशतैरपि ॥ ५९ I हरेः पदं वर्णयितुं न शक्यं मया च धात्रा च मुनीन्द्रवर्यैः । यस्मिन्पदे अच्युत ईश्वरो यः स वेद वेदं यदि वा न वेद ॥ यदक्षरं वेदगुह्यं यस्मिन्देवा अधि विश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते || ६० ६१ ६२ ६३ ६४ ६५ ६६ ६७ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । अक्षरं शाश्वतं नित्यं दिवीव चक्षुराततम् तत्प्रवेष्टुमशक्यं च ब्रह्मरुद्रादिदैवतैः । ज्ञानेन शास्त्रमार्गेण वीक्ष्यते योगिपुंगवैः ॥ अहं ब्रह्मा च देवाश्च न जानन्ति महर्षयः । सर्वोपनिषदामर्थं दृष्ट्वा वक्ष्यामि सुत्र || ६८ ६९ १ ङ. न. इमम' । २ ञ. ॰'राभर' । ३ झ. क्रीडार्थे । ४ झ. प्रभुरेषा । ५ च. 'ता । तस्या विकाससंकोचौ वि° । ६ झ. 'तं दिव्यम' । ७ न. 'ल्यम्पस' | ८. य. स वेदवेद्यः स हि वासुदेवः । यद । ९ क. फ. 'मं धाम शाश्वतं पदमव्ययम् । अ' । 1 1 ·
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy