SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ १८०६ महामुनिश्रीव्यासप्रणीतं - [ ६ उत्तरखण्डे १४ ऊर्ध्वपुण्ड्र विप्रो मृदा शुभ्रेण वैदिकः । न तिर्यग्धारयेद्विद्वानापद्यपि कदाचन ॥ विप्राणामूर्ध्वपुण्ड्रं स्यात्तिकं तु महीभृतः । पट्टाकारं तु वैश्यानां शूद्राणां तु त्रिपुण्ड्रकम् ॥ १५ ऊर्ध्वपुण्ड्रं मृदा कार्यं कस्तूर्या तिलकस्तथा । पट्टाकारं तु गन्धेन भस्मनैप (व) त्रिपुण्ड्रकम् ।। १६ ऊर्ध्वपुण्डं तु सर्वेषां न निषिद्धं कथंचन । धारयेत्क्षत्रियाद्योऽपि विष्णुभक्तो भवेद्यदि ॥ १७ विप्राणां नैव धार्यं स्यात्तिर्यक्पुण्ड्रादिधारिणाम् । नारायणात्परब्रह्मादन्येषामर्चनं न तु ॥ १८ ब्राह्मणः कुलजो विद्वान्भस्मधारी भवेद्यदि । वर्जयेत्तादृशं देवि मद्योच्छिष्टं घटं यथा ।। १९ त्रिपुण्ड्रं शुद्रकल्पानां शूद्राणां च विधि (विहितं) तथा । त्रिपुण्ड्रवाणाद्विमः पतितः स्यान संशयः ॥ २० २१ ३० ३१ ३२ एकान्तिनो महाभागाः सर्वभूतहिते रताः । सान्तरालं प्रकुर्वन्ति पुण्ड्र हरिपदाकृतिम् ॥ हरेः पदाकृति धार्यमूर्ध्वपुण्ड्रं विधानतः । मध्यच्छिद्रेण संयुक्तं तद्धि वै मन्दिरं हरेः || २२ ऊर्ध्वपुण्ड्रमृजुं सौम्यं सुपार्श्व सुमनोहरम् । दण्डाकारं तु शोभाव्यं मध्ये छिद्रं प्रकल्पयेत् ॥ २३ तस्माच्छिद्रान्वितं पुण्ड्रं दण्डाकारं सुशोभनम् । विप्राणां सततं धार्यं स्त्रीणां च शुभदर्शने ॥२४ ऊर्ध्वपुण्ड्रस्य मध्ये तु विशाले सुमनोहरे । सान्तराले समासीनो हरिस्तत्र श्रिया सह ।। २५ निरन्तरालं यः कुर्यादूर्ध्वपुण्डं द्विजाधमः । स हि तत्र स्थितं लक्ष्म्या विष्णुं चैव व्यपोहति २६ अच्छिद्रमूर्ध्वपुण्ड्रं तु ये कुर्वन्ति द्विजाधमाः । तेषां ललाटे सततं शुनः पदं न संशयः ॥ २७ तस्माच्छिद्रान्वितं पुण्ड्रं महच्छिद्रं शुभान्वितम् । धारयेद्ब्राह्मणो नित्यं हरिसालोक्यसिद्धये २८ आदाय परया भक्त्या वैकुण्ठाख्यहदान्मृदम् । धारयेदूर्ध्वपुण्ड्राणि हरिसालोक्यसिद्धये ॥ २९ श्रीकृष्णतुलसीमूळे मृदमादाय भक्तिमान् । धारयेदूर्ध्वपुण्ड्राणि हरिस्तत्र प्रसीदति ॥ द्वारवत्यां शुभे रम्ये वासुदेवहदे तथा । तत्रोद्भवां मृदं शुभ्रामादाय द्विजसत्तमः ॥ धारयेदूर्ध्वपुण्ड्राणि सर्वकामफलाप्तये । आदाय परया भक्त्या गङ्गातीरोद्भवां मृदम् || तया धृतोर्ध्वपुण्ड्रेण सर्वयज्ञफलं लभेत् । चन्दनं च हरिद्रां च तथा भस्माग्निहोत्रजम् ॥ ३३ सर्वकरं प्रोक्तमूर्ध्वपुण्डस्य धारणात् । यत्र दिव्यं हरिक्षेत्रं तंत्र (स्थां) मृदमाहरेत् || ३४ पर्वताग्रे नदीतीरे विल्वमूले जलाशये । सिन्धुतीरे च वल्मीके हरिक्षेत्रे विशेषतः || विष्णोः स्नानोदकं यत्र प्रवाहयति नित्यशः । पुण्ड्राणां धारणार्थाय गृह्णीयात्तत्र (त्स्थ) मृत्तिकाम् श्रीवेङ्कटा च श्रीकूर्मे द्वारके शुभे । प्रयागे नारसिंहाद्रौ वाराहे तुलसीवने ॥ गृहीत्वा मृत्तिकां भक्त्या विष्णुपादजलैः सह । धृत्वा पुण्ड्राणि चाङ्गेषु विष्णुसायुज्यमामुयात् ॥ यस्मिन्कस्मिन्महाभागे वैष्णवा धारयन्ति वै । तस्मिन्वै मृत्तिका ग्राह्या ऊर्ध्वपुण्ड्रस्य धारणे ३९ श्यामं शान्तिकरं प्रोक्तं रक्तं वश्यकरं तथा । श्रीकरं पीतमित्याहुः श्वेतं मोक्षकरं शुभम् ॥ ४० वर्तुलं तिर्यगच्छिद्रं हस्त्रं दीर्घ ततं तनुम् । वक्रं विरूपं वक्रायं छिन्नमूलं पदच्युतम् ॥ अशुभं रूक्षमारक्तं तथाऽनङ्गुलिकल्पितम् । विगन्धमत्रसह्यं च पुण्ड्र माहुरनर्थकम् ॥ आरभ्य नासिकामूलं ललाटे तु लिखेन्मृदा । समारभ्य भ्रुवोर्मध्यमन्तरालं प्रकल्पयेत् ॥ अन्तरालं ग्रङ्गुलं स्यात्पार्श्ववगुलिमात्रकौ । मृदा शुभ्रेण विलिखेत्पुण्ड्रमृजुतरं शुभम् ॥ ललाटे केशवं ध्यायेन्नारायणमथोदरे । वक्षःस्थले माधवं च गोविन्दं कण्ठक्रूवरे || ३५ ३७ ४१ ४२ १ च. 'हाभावा वै । २ फ.. खेन्मुदा । ४३ ४४ ४५ /
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy