________________
२१३ त्रिपञ्चाशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम्
६९
धृतोर्ध्वपुण्ड्रो हृदि चक्रधारी विष्णुं परं ध्यायति यो महात्मा । वरेण मत्रेण सदा हृदिस्थं परात्परं याति विशुद्धचेताः ॥ ये कण्ठल तुलसी नलिनाक्षमाला ये बाहुमूलपरिचिह्नितशङ्खचक्राः । ये वा ललाटफलके लसदूर्ध्वपुण्ड्रास्ते वैष्णवा भुवनमाशु पवित्रयन्ति ॥ दिवस्पतेः सुविततं पवित्रं यस्य दक्षिणे । न तप्यते भुजे सम्यक्तस्य शोचन्ति हि क्रियाः ॥ ७० ये वहन्ति भुजे चक्रं शङ्खं च विधिना द्विजाः । परानपि विलोमस्थांस्ते रक्षन्ति जनाः सदा ७१ होमाग्निसंतप्तपवित्रलाञ्छितो मूले च बाहोः परमात्मनो हरेः । स तारयित्वा भवसागरं महत्परं पदं याति परेशलोकम् || अङ्कयेत्तप्तचक्राद्यैरात्मनो बाहुमूलयोः । कलत्रापत्यभृत्येषु पश्वादिषु च अङ्कयेत् ॥ द्विविधं वैष्णवं प्रोक्तं बाह्यमाभ्यन्तरं तथा । शङ्खचक्रादिभिर्वाह्यमान्तरं वीतरागता ॥ बाह्याभ्यन्तरसाम्यं यत्तद्वैष्णवमुदाहृतम् । तस्माच्चक्रादिचिह्नं तु प्रथमं वैष्णवं स्मृतम् । आन्तरं मानरोषादिविमुक्तं स्वात्मदर्शनम् । सर्वभूतदयाशान्तिरिन्द्रियार्थे त्वलोलता ॥ पुत्रदाराद्यसङ्गत्वं योगाभ्यास रतिस्तथा । अनन्यभक्तियोगेन परेशस्याभिषेवणम् ॥ तस्माच्चक्रादिहेतीनामङ्कनं वैष्णवं स्मृतम् । चत्रादिचिह्नहीनत्वाद्वैष्णवत्वं न लभ्यते ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे सुदर्शनमाहात्म्यं नाम द्विपञ्चाशदधिकद्विशततमोऽध्यायः ।। २५२ ।। आदितः श्लोकानां समष्ट्यङ्काः –४५४६५
अथ त्रिचाशदधिकद्विशततमोऽध्यायः ।
१८०५
६८
७२
७३
७४
७५
७६
७७
७८
श्रीशंकर उवाच -
१
ऊर्ध्वपुण्ड्रस्य माहात्म्यं वक्ष्यामि शुभदर्शने । धारणादेव मुच्येत भववन्धाद्विजोत्तमः ॥ ऊर्ध्वपुण्ड्रस्य मध्ये तु विशाले सुमनोहरे । लक्ष्म्या सार्धं समासीनो देवदेवो जनार्दनः ॥ तस्माद्यस्य शरीरे तु ऊर्ध्वपुण्ड्रो धृतो भवेत् । तस्य देहं भगवतो विमलं मन्दिरं शुभम् ॥ स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । धारयेदूर्ध्वपुण्ड्रं यो मृदा शुभ्रेण (?) वैष्णवः ॥ ऊर्ध्वपुण्ड्रधरो विप्रः सर्वलोकेषु पूजितः । विमानवरमारुह्य याति विष्णोः परं पदम् ॥ धारयेदूर्ध्वपुण्ड्रं तु त्रिसंध्यासु द्विजोत्तमः । सर्वपापविशुद्ध्यर्थमिष्टापूर्तफलाप्तये ।। ऊर्ध्वपुण्ड्रधरं विमं दृष्ट्वा पापैः प्रमुच्यते । नमस्कृत्याथ वा भक्त्या सर्वदानफलं लभेत् ॥ ऊर्ध्वपुण्ड्रधरं विमं यः श्राद्धे भेोजयिष्यति । आकल्पकोटि पितरस्तस्य हृष्टा न संशयः ॥ ऊर्ध्वपुण्ड्रधरो यस्तु कुर्याच्छ्राद्धं शुभानने । कल्पकोटिसहस्राणि गया श्राद्धफलं लभेत् ॥ यज्ञदानतपश्चर्याजपहोमादिकं च यत् । ऊर्ध्वपुण्ड्रधरः कुर्यात्तस्य पुण्यमनन्तकम् || ऊर्ध्वपुण्ड्रविहीनस्तु किंचित्कर्म करोति यः । इष्टापूर्वादिकं सर्वे निष्फलं स्यान्न संशयः ।। ११ यच्छरीरं मनुष्याणामूर्ध्वपुण्ड्रविवर्जितम् । द्रष्टव्यं नैव तत्किचिच्छ्मशानसदृशं भवेत् ॥ [*ऊर्ध्वपुण्ड्र विहीनस्तु संध्याकर्मादिकं चरेत् । तत्सर्वं राक्षसैनीतं नरकं चाधिगच्छति] ॥ १३ * धनुश्चिहान्तर्गतः पाठः क. झ. फ. पुस्तकस्थः ।
९
१०
१२
३
४
५
६
७
ሪ