SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ २५२ द्विपञ्चाशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । श्रीपार्वत्युवाच - देवदेव महादेव त्रिपुरन सुरेश्वर । विष्णुभक्तिं ममाऽऽचक्ष्व मुक्तिदां सर्वदेहिनाम् || उपास्यभेदान्मत्रांच तत्पूजाविधयस्तथा । तस्य विष्णोः स्वरूपं च तद्विभूतेर्गुणादयः ॥ तस्य लोकस्वरूपं च यत्माप्य न निवर्तते । सर्गस्थितिलयं येन करोति भगवान्हरिः ॥ यद्गत्वा न निवर्तन्ते तद्धाम परमं हरेः । येन केन च कृत्येन साधनेन परं पदम् ।। प्राप्नुवन्ति नराः पापा विपयासक्तचेतसः । विस्तरेण मयि प्रीत्या ब्रूहि सर्वमशेषतः ॥ वसिष्ठ उवाच - इति पृष्टो महादेव्या हरस्त्रिपुरघातकः । उवाच परमप्रीत्या नमस्कृत्य जनार्दनम् || श्रीरुद्र उवाच - १८ १९ २२ २३ २४ साधु साधु महादेवि सर्वलोकहितैषिणि । साधु पृच्छसि मां देवि श्रीशमाहात्म्यमुत्तमम् ।। १३ धन्याऽसि कृतपुण्याऽसि विष्णुभक्ताऽसि पार्वति । परितुष्टोऽस्मि भद्रं ते शीलरूपगुणैः सदा ॥ अहं वक्ष्यामि गिरिजे भगवद्भक्तिमुत्तमाम् । तन्मत्राणां विधानं च स्वरूपं तस्य शार्ङ्गिणः ।। १५ तत्त्वं नारायणो विष्णुर्वासुदेवः सनातनः । परमात्मा परं ब्रह्म परं ज्योतिः परात्परः ।। १६ अच्युतः पुरुषः कृष्णः शाश्वतः शिव ईश्वरः । नित्यः सर्वगतः स्थाणू रुद्रः साक्षी प्रजापतिः ।। यज्ञो यज्ञपतिः साक्षाद्रह्मणः पतिरेव च । हिरण्यगर्भः सविता लोककल्लोकभृद्विभुः ॥ अकारवाच्यो भगवाञ्श्रीमालीलापतिः प्रभुः । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ 1 सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो दृत्वा अत्यतिष्ठद्दशाङ्गुलम् ||२० अनन्तः श्रीपती रामो गुगभृन्निर्गुगो महान् । सर्वलोकेश्वरः श्रीमान्सर्वज्ञः सर्वतोमुखः ॥ २१ तस्य लोकप्रधानस्य जगन्नाथस्य पार्वति । माहात्म्यं वासुदेवस्य यच्छक्यं तद्ब्रवीमि ते ।। अशक्यं तन्मया वक्तुं ब्रह्मणा सर्वदैवतैः । सर्वोपनिषदामर्थ वेदान्ते परिनिश्चितम् ॥ तस्योपासनभेदांश्च शृणु वच्मि पृथक्पृथक् । आद्यं तु वैष्णवं प्रोक्तं शङ्खचक्राङ्कनं हरेः ॥ धारणं चोर्ध्वपुण्ड्राणां तन्मन्त्राणां परिग्रहः । अर्चनं च जपध्यानं तन्नामस्मरणं तथा ॥ कीर्तनं श्रवणं चैव वन्दनं पादसेवनम् । तत्पादोदकसेवा च तन्निवेदितभोजनम् ॥ तदीयानां च सेवा च द्वादशीव्रतनिष्ठितम् । तुलसीरोपणं विष्णोर्देवदेवस्य शार्ङ्गिणः ॥ भक्तिः षोडशधा प्रोक्ता भवबन्धविमुक्तये । सर्वेषामेव देवानां ममापि पुरुषोत्तमः ॥ पूजनीयो हरिर्नित्यं ब्राह्मणानां विशेषतः । तस्मात्तु ब्राह्मणो नित्यं विधिवत्पूजयेद्धरिम् ।। २९ तचिरङ्कितः श्रीशपदं प्राप्नोत्यसंशयम् । शङ्खचक्राङ्कनं कुर्याद्राह्मणो बाहुमूलयोः ॥ हुतानिनैव संतप्य सर्वपापापनुत्तये । चक्रं वा शङ्खचक्रे वा तथा पञ्चायुधानि वा ॥ धारथित्वैव विधिह्मकर्म समाचरेत् । अग्नितप्तं पवित्रं च धृत्वा वै भुजमूलयोः ॥ त्यक्त्वा यमपुरं घोरं याति विष्णोः परं पदम् । चचिह्नविहीनस्तु यः पूजयति केशवम् ||३३ वैफल्यं तस्य तद्याति पूजामन्त्रजपादिकम् । अग्नितप्तेन चक्रेण ब्राह्मणो बाहुमूलयोः ॥ अङ्कयित्वा जपन्मत्रं संसारान्मोक्षमश्रुते । सुदर्शनं धारयित्वा वह्नितप्तं द्विजोत्तमः ॥ तापनीयविधानेन पञ्चकर्मसु योजयेत् । विष्णुचक्रविहीनं तु यः श्राद्धे भोजयिष्यति ।। 1 २८ ३० ३१ ३२ ३४ ३५ ३६ १ । २फ। १८०३ ७ ፡ ९ १० ११ १२ २५ २६ २७
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy