________________
१८०२
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे
शङ्खेनैवाङ्कनं कुर्याद्वाह्वोर्दक्षिणसव्ययोः । होमशेषं समाप्याथ पुनः पूजां समाचरेत् ॥ ततः कलशमादाय पवित्रोदकपूरितम् । मत्रेणैवाभिमन्त्रयाथ तस्य मूर्त्यभिषेचयेत् ॥ सितवस्त्रधरं सम्यगाचान्तं विनयान्वितम् । ऊर्ध्वपुण्ड्रधरं शिष्यं मन्त्रमध्यापयेद्गुरुः ॥ मन्त्रार्थश्च प्रवक्तव्यो वृत्तिचैव विशेषतः । लब्धमन्त्रस्तदाऽऽचार्यं पूजयेद्भूपणादिभिः ॥ अनेन विधिना मन्त्रं योऽधीते वैष्णवागुरोः । ततः स वैष्णवं याति नान्यथा सुरसत्तम ।। ६६
६५
६२
६३
६४
नारद उवाच -
एवमुक्त्वा विधातारं देवदेवो हरिः पिता । स्वचक्रेणाङ्कयित्वा तु तस्मै मन्त्रं ददौ स्वयम् ॥६७ सर्वलोकेश्वरो देवो ब्रह्मा मम पिता प्रभुः । ममापि विधिवन्मत्रं प्रददौ मुनिसत्तमाः ॥ ६८ तस्माद्यूयं मुनिश्रेष्ठा धारयित्वा सुदर्शनम् । नारायणपदद्वंद्वं गच्छध्वं शरणं द्विजाः ॥ ६९
वसिष्ठ उवाच -
७२
७३
७४
इत्युक्ता मुनयः सर्वे नारदेन सुरर्षिणा । द्वयाधिकारिणः सर्वे याता विष्णोः परं पदम् ।। ७० तस्मात्त्वमपि राजर्षे (चेद्राजन्) विष्णु सायुज्यमिच्छसि । दीक्षामार्गविधानेन धारयित्वा सुदर्शनम् नारायणपदद्वंद्वं तदेकं शरणं व्रज । सर्वलोकेश्वरः साक्षाद्ब्रह्मा त्रिभुवनेश्वरः ॥ ममापि नारद्स्यापि मोक्तवान्मन्त्रमुत्तमम् । शौनकादिमहर्षीणां नैमिषारण्यवासिनाम् ॥ नारदः प्रददौ मत्रं प्रपाति शरणागतम् । एतगुह्यतमं राजन्न जानन्ति महर्षयः । देवताश्च न जानन्ति सिद्धाः साध्याश्च दानवाः । मया च प्रापितो मत्रं शक्तिपुत्रः पराशरः ॥ इदं रहस्यं परमं लक्ष्मीनारायणद्वयम् । राजंस्तवापि वक्ष्यामि प्रपाति शरणागतम् ॥ द्वयात्परतरो मत्रो नास्ति सत्यं ब्रवीमि ते । द्वयात्परतरं धर्म नास्ति लोकेषु किंचन । ७७ सत्यं सत्यं पुनः सत्यं ब्रह्मणा कथितं पुरा । नारायणात्परो देवो नास्ति मुक्तिमदो नृणाम् ॥ तत्सेवैव भवेन्मोक्षः सर्वधर्मनिकृन्तनः ॥
७६
७९
इति श्रीमहापुराणे पाय उत्तरखण्डे वसिष्टदिलीपसंवादे विद्योपदेशो नामैकपञ्चाशदधिकद्विशततमोऽध्यायः ॥ २५१ ॥ आदितः श्लोकानां समष्ट्यङ्काः –४५३८७
अथ द्विपञ्चाशदधिकद्विशततमोऽध्यायः ।
दिलीप उवाच
भगवन्सर्वमाचक्ष्व हरिभक्तिसुधामयम् । शृण्वतो नैव तृप्तिर्मे विष्णुभक्तिसुभावहम् || तापत्रयमहाज्वालावह्निभिः सततं नृणाम् । संतप्तानां मुनिश्रेष्ठ विष्णुभक्तिसुधार्णवम् ॥ विना किमन्यच्छरणं भवारण्ये भयानके । आचक्ष्व विस्तरेणाद्य भक्तिभेदान्महामुने ॥ उपास्यमानान्सततं मुनिभिः परमात्मनः ॥
WW.
वसिष्ठ उवाच --
साधु पृच्छारी राजेन्द्र संसारोत्तारणं नृणाम् । वैकुण्ठस्य परेशस्य भक्तिं नित्यसुखावहाम् ॥ ५ इममेत्र महाप्रश्नं कैलासशिखरे पुरा । पप्रच्छ गिरिजा देवी शंकरं लोकपूजितम् ||
१.ड. स. न. प्रपत्ति शरणागतिम् । २ फ. 'जिता । श्री ।