SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ २५१ एकपञ्चाशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् । १८०१ देशकालादिनियमम(स्त्व)रिमित्रादिशोधनम् । न्यासमुद्रादिकं तस्य पुरश्चरणसंयुतम् ] ॥ ३३ मच्चक्राङ्कितदेहत्वं मदीयाराधनं तथा । मयि संन्यस्तकर्मत्वं मदनन्यशरण्यता॥ ३४ मयि सर्वफलन्यासो महाविश्वासपूर्वकम् । अनन्यसाधनो यत्नस्त्वकिंचनत्वमात्मनः॥ ३५ अवैष्णवानां संभाषावन्दनादिविवर्जनम् । अनन्यदेवतानां च स्मरणं पूजनं तथा ॥ ३६ एवमाद्या हि नियमाः प्रपन्नस्य प्रकीर्तिताः । इत्यादिगुणयुक्ताय वक्तव्यो मत्र उत्तमः ॥ ३७ तस्य नारायणश्चाहमृषिर्विष्णुः सनातनः । देवता वा श्रिया सार्धमहं वात्सल्यसागरः॥ ३८ सर्वलोकेश्वरः श्रीमान्सुशीलः सुभगस्तथा । सर्वज्ञः सर्वशक्तिश्च सदापूर्णमनोरथः ॥ ३९ सर्वगः सर्वबन्धुश्च कृपापीयूषसागरः। श्रीमन्नारायणश्वाहं देवताऽत्र उदाहृता ॥ छन्दस्तु देवी गायत्री पञ्चविंशच्छरात्मिका (?)। द्विद्विषट्सप्तत्रिपञ्चषडङ्गानि नियोजयेत् (?) ॥ देव्या मदनुयायिन्या मां ध्यायेद्विश्वरूपिणम् । शङ्खचक्रगदापद्मपाणिनं दिव्यरूपिणम् ॥ ४२ वामाङ्कस्थश्रिया सार्ध पूजयेत्प्रयतः शुचिः । अनेन मत्ररत्नेन गन्धपुष्पनिवेदनः ।। सकृत्संपूज्यमानोऽपि संतुष्टोऽस्मि प्रजापते ।। ब्रह्मोवाचसम्यगुक्तं त्वया नाथ रहस्यमिदमुत्तमम् । मत्ररत्नप्रभावश्च सर्वसिद्धिप्रदो नृणाम् ॥ ४४ पिता त्वं सर्वलोकानां माता त्वं गुरुरेव च । त्वं च स्वामी सखा भ्राता गतिस्त्वं शरणं सुहृत् अहं तु तव देवेश दासः शिष्यस्तथा सुहृत् । तस्मान्मम दयासिन्धी प्रापयाभेदमुत्तमम् ॥ ४६ अधुना मन्त्ररत्नस्य दीक्षां सम्यग्विधानतः । ब्रूहि सर्वज्ञ तत्त्वेन लोकानां हितकाम्यया ॥ ४७ श्रीभगवानुवाचशृणु वत्स प्रवक्ष्यामि मन्त्रदीक्षाविधि परम् । आचार्य संश्रयेत्पूर्व मदाश्रयणसिद्धये ॥ ४८ आचार्यों वेदसंपन्नो विष्णुभक्तो विमत्सरः । मन्त्रज्ञो मत्रभक्तश्च सदा मंत्राश्रयः शुचिः॥ ४९ सत्संप्रदायसंयुक्तो ब्रह्मविद्याविशारदः । अनन्यसाधनश्चैव तथाऽनन्यप्रयोजकः॥ ५० ब्राह्मणो वीतरागश्च क्रोधलोभविवर्जितः । सद्वृत्तौ शासिता चैत्र मुमुक्षुः परमार्थवित् ॥ ५१ एवमादिगुणोपेत आचार्यः स उदाहृतः । आचाराशासयेद्यस्तु स आचार्य इतीरितः॥ ५२ यस्त्वाचार्यपराधीनस्तद्वाक्यशासने हृदि । शासने स्थिरवृत्तिश्च शिष्यः सद्भिरुदाहृतः॥ ५३ एवंलक्षणसंयुक्तं शिष्यं सर्वगुणान्वितम् । अध्यापयेद्विधानंन मत्ररत्नमनुत्तमम् ॥ द्वादश्यां श्रवणे वाऽपि कर्हिचिद्वैष्णवोदिते । सदाऽऽचार्योपपत्तौ च तत्र(ब) दीक्षां समाचरेत्॥ सुदर्शनं पाञ्चजन्यं सुवर्णेन प्रकारयेत् । रोप्येण वाऽपि ताम्रण कांस्येनापि प्रकारयेत् ।। ५६ नाप्य पञ्चामृतैः शुद्धैरर्चयेत्पुरतो मम । अर्चयेद्गन्धपुष्पाद्यैस्तन्मत्रेण विधानतः ।। तदत्संस्थापयेदग्निं स्वगृह्योक्तविधानतः । आचार्यो जुहुयादाज्यं मत्रेणाथ द्विजोत्तमः॥ ५८ अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा । जुहुयान्मत्ररत्नेन तथाऽन्यैवैभवैः शुभैः ।। मत्रेः पुरुषसूक्ताद्यैर्जुहुयाघृतपायसम् । तस्मिन्ननो क्षिपेच्चक्रं शङ्ख च द्विजसत्तमः ।। पडक्षरेण जुहुयादाज्यं विंशतिसंख्यया । प्रतप्तं चक्रमादाय मत्रेणवायेद्गुरुः॥ १. 'तमेवित्वं । २ च. 'त्री चतनिशाक्षरा' । ? झ.फ. 'धोत्रोक्तवानिद। ४ क. फ. अगजस्य । ५ क. भक्त्याश्रयः । ६ क. चिः । मन्सं'। , फ. गजेन ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy