________________
१७९४
महामुनिश्रीव्यासप्रणीतं
वानर उवाच -
ब्रूहि भद्र कथं वेत्सिमम जन्म पुरातनम् । त्वं पक्षी ज्ञानहीनश्च तिर्यक्चाहं वनेचरः ॥
[ ६ उत्तरखण्डे
१५९
सारस उवाच -
१६१
१६२
१६४
जानेऽहं तावकं जन्म जातिस्मृतिर्ममास्त्यलम् । त्वं हि विन्ध्याधिपो राजा प्राग्भवे पर्वतेश्वरः ॥ अहं पूज्यतमो विप्रस्तव वंशे पुरोहितः । तेन प्रत्यभिजानामि त्वां सम्यग्वानरोत्तम ॥ इमां पालयता भूमिं प्रजाः सर्वाः प्रपीडिताः । त्वया विवेकहीनेन भृशं संचयता धनम् ॥ प्रजापीडनपापोत्थवह्निज्वालैस्तु वानर । माक्त्वं दग्धः पुनः क्षिप्तः कुम्भीपाकेऽतिदारुणे १६३ पुनः पुनश्च दग्धेन जातेन च पुनः पुनः । नारकेण शरीरेण समास्त्रिरयुतं त्वया ॥ कुर्वता दारुणा शब्दान्रुदता च पुनः पुनः । कुम्भीपाकानले तीव्रा ह्यनुभूताश्च यातनाः ।। १६५ निस्तीर्णनरको भूयः पापशेषेण सांप्रतम् । प्राप्तोऽसि वानरं जन्म येन मां हन्तुमिच्छसि ।। १६६ विप्रस्योपवनात्पूर्वं पकरम्भाफलानि च । अननुज्ञाप्य भुक्तानि त्वयाऽपहृत्य पौरुषात् ॥ १६७ विपाकः कर्मणस्तस्य फलते पश्य दारुणः । वानरत्वं वने वासो ह्यधुना येन वर्तते ॥ १६८ अशुभस्य शुभस्यापि पुराविहितकर्मणः । भोगः क्रीडति लोकेषु योऽलङ्घ्यस्त्रिदशैरपि ॥ १६९ इत्थं त्वज्जन्म जानामि यथावत्तु सहेतुकम् । प्राप्तसारसदेहोऽपि ज्ञानेनाऽऽपरितोषितः ।। १७०
प्रेत उवाच -
इति श्रुत्वा कथां दिव्यां वानरोऽप्याह सारसम् । सम्यग्वेत्ति भवान्नूनं त्वं कथं पक्षितां गतः
―――
सारस उवाच
१७२
१७५
१७६
१७७
कययिष्यामि तत्कर्म येनाहं दुर्गतिं गतः । पक्षियोनिं गतो येन तत्सर्वं श्रोतुमर्हसि ॥ धान्यखारिशतं साग्रमुत्सृष्टं हि त्वया पुरा । बहुभ्यो ब्राह्मणेभ्यश्च नर्मदायां रविग्रहे ।। १७३ पौरोहित्यमदालोभाद्वञ्चयित्वा तु तान्द्विजान् । किंचिद्दत्वा तु तेभ्यश्च गृहीतमखिलं मया १७४ विप्रसाधारणद्रव्यग्रहणोत्पन्नपातकात् । पतितः कालसूत्रेऽहं नरके रक्तकर्दमे | चलत्क्रिमिसंपूर्ण दुर्गन्धे पूयफेनिले । आ नाभेस्तत्र मनोऽस्मि लिहन्पूयमधोमुखः ॥ तथोपरि महागृधैर्भक्ष्यमाणश्च वायसैः । क्रिमिभिस्तुद्यमानश्च भग्नदेहो निरन्तरम् ॥ तस्मि शोणितपङ्केऽहं निरुच्छ्रासोऽभवं तदा । मुहूर्तोऽपि महाकल्पसमो जातो ममात्र वै ॥ १७८ यातनाश्वानुभूताश्च समास्त्रिरयुतं मया । तद्वक्तुं च न शक्नोमि दुःखं वानरे नारकम् ॥ पौरोहित्यं महाघोरं पापदं च स्वभावतः । देवोपजीवनं यत्र ब्राह्मणस्योपजीवनम् ॥ राज्ञः प्रतिग्रहो घोरस्तेन दग्धा द्विजातयः । तेषामपि हरेद्र (द्रव्यं पुरोधास्तेन नारकी ।। १८१ राजा यत्कुरुते पापं पुरो देहेन धीयते । तस्य (च) तेन पुरोधाच गीयते तत्वदर्शिभिः ॥ १८२ दैवात्कथमपि प्राप्त उत्तरो नरकाम्बुधेः । मयाऽऽदौ दैवयोगेन शकुनित्वमुपस्थितम् ॥ १८३ तदपि श्रूयतां वक्ष्ये निःशेषेण सहेतुकम् । अपहृत्य पुरा कांस्यभाजनं भगिनीगृहात् ॥ आक्षिकाय मया दत्तं तेन मे सारसी गतिः । इयं च ब्राह्मणी पूर्व कांस्यचौरी सुदारुणा १८५ तेनेयं सारसी जाता मद्भार्या धर्मचारिणी । इत्थं वानर ते सर्व कथितं कर्मणः फलम् ।। १८६ वृत्तं च वर्तमानं च भविष्यं शृणु सांप्रतम् । अहं हंसो भविष्यामि त्वं च हंसो भविष्यसि १८७
१७९ १८०
१८४
१ र. ल. नायक । पौ' ।