________________
२५० पञ्चाशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । हंसीयमपि मद्भार्या सारसी च भविष्यति । देशे च कामरूपे वै स्थास्यामोऽत्र यथासुखम् १८८ गोयोनि भाविकल्याणी यास्यामस्तदनन्तरम् । ततश्च मानुषं जन्म प्राप्स्यामो दुर्लभं पुनः १८९ श्रेयस्तद्विपरीतं च प्राणिभिर्यत्र साध्यते । एवं सर्वाशिवो जन्तून्मोहयित्वा स्वमायया ॥१९० सुखै नक्ति दुःखैश्च नास्मानपि च केवलम् । अयं लोके प्रवृत्तश्च मार्गो विधिविनिर्मितः।। १९१ धर्माधर्ममयोऽत्यर्थ सुखदुःखफलात्मकः । सेवितः प्राणिभिः सर्वैः सर्वदा वै पुनः पुनः ॥१९२ देवासुरनरव्याघ्रकृमिकीटकलेवरैः । नातिक्रान्तो हि केनापि पन्याऽयं दुःखकण्टकः ॥ १९३ विरक्तान्योगिनो धीरान्विना वेदान्तपारगान् । अणोर्वाऽपि गुरोर्वाऽपि पुण्यापुण्यस्य कर्मणः१९४ ददातीह फलं ज्ञात्वा देशकालं महेश्वरः । इत्थं विधिविधानज्ञा मायां ज्ञात्वेश्वरस्य च ॥१९५ न शोचन्ति न तप्यन्ते न व्यथन्ते महाधियः । नान्यथा शक्यते कर्तु विपाकः पूर्वकर्मणाम् १९६ उपायैः प्रज्ञया वाऽपि शाखामृग सुरैरपि । पुरा त्वं भूपतिर्जातः पश्चाजातोऽसि नारकी १९७ अधुना वानरो भूयो जन्म प्राप्स्यसि तादृशम् । इति मत्वा विशोकस्त्वं शाखामृग यथासुखम्।। प्रतीक्षां कुरु कालस्य रममाणोऽत्र कानने । अहमप्येवमीशानमायावद्धो वने वने ।। क्षपयिष्यामि वै जन्म धैर्यमास्थाय साहसम् ।।
वानर उवाचमया त्वं पूजितः पूर्व नौमि त्वामधुनाऽप्यहम् । जातिस्मरोऽसि जानामि सर्व मे पविदेहिकम् २०० तिष्ठ सारस सारस्या शिवमस्तु सदा तव । स्वद्वाक्याद्गनमोहोऽहं विचरिष्यामि सर्वदा ॥२०१
प्रेत उवाचइत्थं रम्यं विचित्रं च पवित्रं परमं द्विज । पक्षिवानरसंवादे श्रुतं यावनदीतटे ॥ २०२ तावन्ममापि बोधोऽभूत्तेन शोकः क्षयं गतः । इदानी जाह्नवीतोयमाहात्म्यं परमाद्भुतम् ॥ २०३ दृष्ट्वाऽत्र ब्राह्मणश्रेष्ठं त्वां याचे जाह्नवीजलम् । प्रेतत्वात्ततुकामोऽहं तीव्रतृष्णापपीडितः ॥२०४ अस्मिन्नेव गिरौ दृष्टं मयाऽऽश्चर्य महाद्भुतम् । गङ्गातोयस्य तेनाहं वाञ्छामि सुजलं द्विन।। २०५ परिश्रान्तोऽभवत्कश्चिद्राह्मणो ग्रामयाजकः । अयाज्ययाजनाद्विन्ध्ये संभूतो ब्रह्मराक्षसः ॥२०६ अस्मत्सङ्गस्य लोभेन स्थितोऽसौ हायनाष्टकम् । तस्यास्थीनि च पुत्रेण संचितानि द्विजोत्तम२०७ क्षिप्तान्यानीय गङ्गायां तीर्थे कनखलेऽमले । तत्क्षणादेव मुक्तोऽसौ राक्षसत्वात्सुदारुणात् २०८ इति गङ्गाजलस्यालं महिमा च महाद्भुतः । साक्षादृष्टो मया तेन गाङ्गेयं प्रार्थये जलम् ॥ २०९ पुरस्ताद्यः कृतस्तीर्थे मया भूरिप्रतिग्रहः । न कृतः सुप्रतीकारस्तस्य जाप्यादिलक्षणः ।। २१० तेन मे प्रेतरूपस्य दुर्लभं दकभोजनम् । सहस्रत्रयमन्दानामतीतं विन्ध्यपर्वते ॥ २११ इति ते कथितं सर्व हित्वा लज्जां गरीयसीम् । इदानीं धार्मिक श्रेष्ठ जलदानेन सत्वरम् ॥२१२. संतपय मम पाणान्कण्ठमात्रावलम्बितान् । दुर्लभं प्रेतभावेऽपि जीवित प्राणिनामपि ॥ २१३ शरीरं रक्षणीयं तु सर्वदा सर्वथा नरैः । न हीच्छन्ति तनुत्यागमपि कुष्ठादिरोगिणः॥ २१४
देवद्युतिरुवाचइतीदं वचनं श्रुत्वा विस्मयं परमागतः । पथिकचिन्तयामास कृपां प्रेते समुद्रहन् ।
+ संधिरापः।