________________
२५० पश्चाशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१७९१ दायादैर्हतभूमिस्तु निर्धनो बन्धुवर्जितः । जन्मभूमि परित्यज्य महादुःखेन निर्गतः ॥ ७३
देशादेशं परिभ्रम्य कालेन महता पुनः । प्रविश्य स महारण्यमीपद्याधिप्रपीडितः] ॥ ७४ गच्छंस्तीर्थान्तरं श्रान्तः क्षुत्क्षामो विन्ध्यपर्वते । दुर्भिक्षेण मृति लेभे न तदा चोर्ध्वदेहिकीम् ७५ तेन कर्मविपाकेन तत्रैव गिरिगढरे । प्रेतीभूतश्विरं कालमुवास निर्जने वने ॥ ७६ शीतातपपरिक्लिष्टो निराहारो निरुदकः । दिगम्बरोऽनुपानको हाहेति कथयन्गिरा॥ ७७ इतस्ततः परिभ्रम्य वायुभूतः स केरलः । द्विजो न शरणं लेभे न सुखं कुत्रचित्तदा ॥ ७८ स शोचति स्म दुःखार्तो नैव पश्यति सद्गतिम् । सर्वदादत्तदानोऽसौ भुते स्वकर्मणः फलम् ७९ हविर्जुह्वति नानौ ये गोविन्दं नार्चयन्ति च । भजन्ति नाऽऽत्मविद्यां ये सुतीर्थविमुखाश्च ये ८० सुवर्ण वस्त्रताम्बूलं रत्नमन्नं फलं जलम् । आर्तेभ्यो न प्रयच्छन्ति सर्वे तेऽकृतदानकाः ॥ ८१ ब्रह्मस्वं च परस्वं च स्त्रीधनानि हरन्ति ये । बलेन च्छद्मना वाऽपि धूर्ताश्च परवञ्चकाः ॥ ८२ दाम्भिकाः कुहकाश्चौरा ये चान्ये वकवृत्तयः । बालवृद्धातुरस्त्रीपु निर्दयाः सत्यवर्जिताः ॥ ८३ अग्निदा गरदा ये च ये चान्ये कूटसाक्षिणः । अगम्यागामिनः सर्वे ये चान्ये ग्रामयाजकाः८४ पितृमातृस्नुषापत्यस्वदारत्यागिनश्च ये । ये कदर्याश्च ये लुब्धा नास्तिका धर्मदूपकाः॥ ८५ त्यजन्ति स्वामिनं युद्धे त्यजन्ति शरणागतम् । गवां भूमेश्च हारा ये चान्ये रत्नदूपकाः ॥८६ महाक्षेत्रेषु सर्वेषु प्रतिग्रहरताश्च ये । परद्रोहरता ये च तथाच पाणिहिंसकाः॥ परापवादिनः पापा देवतागुरुनिन्दकाः । कुप्रतिग्राहिणः सर्वे संभवन्ति पुनः पुनः॥ ८८ प्रेतराक्षसपैशाचतिर्यग्वृक्षकुयोनिषु । न तेषां सुखलेशोऽस्ति इहलोके परत्र च ॥ तस्मात्त्यक्त्वा निषिद्धार्थ विहितं कर्म चाऽऽचरेत् । यज्ञं दानं तपस्तीर्थ मन्त्रं देवं गुरुं भजेत्९० विपाकं कर्मणो दृष्ट्वा योनिकोटिषु दुस्तरम् । चतुर्भिरपि वर्णैस्तु सेव्यो धर्मो निरन्तरम् ।। ९१
लोमश उवाचइति प्रेतगतिं दृष्ट्वा पापबीजोत्थितां हि सः । कृत्वा धर्मोपदेशं च पुनस्तस्मै द्विजोऽब्रवीत् ॥९२
देवद्युतिरुवाचइत्थं स केरलः प्रेतो वर्तमानो गिरौ तदा । अतिवाह्य चिरं कालमपश्यत्पथिकं पथि ॥ ९३ वहन्तं द्विकरण्डं च वेणीपानीयभाण्डकम् । गायन्तं प्रमुदा देवं पुण्यश्लोकं जनार्दनम् ॥ ९४ तं दृष्ट्वा सहसा प्रेतो मार्गरोधं चकार वै । दर्शयामास चाऽऽत्मानं मा भैषीरित्युवाच ह ॥ ९५ पानीयं पातुमिच्छामि त्वत्तः कार्पटिकोत्तम । न दास्यसि जलं चेन्मां प्राणा यास्यन्ति मे दृढम् इति प्रेतवचः श्रुत्वा पान्थः प्रत्याह कौतुकात् ॥
कार्पटिरुवाचकस्त्वं दुःखाभिभूतस्तु कृशो म्लानो दिगम्बरः । जीवशेषो मुमूर्षुश्च विकृतो भयवर्धनः ॥ ९७ नवधूममयाकारश्चञ्चलश्चललोचनः । पद्भ्यामस्पृष्टभूमिस्त्वं निर्मासोदरबाहुकः ।।
देवद्युतिरुवाचइति तद्वचनं श्रुत्वा प्रेतो वाक्यमथाब्रवीत् ॥
+ अयं श्लोकः क. ख. छ. ज. र. ल. पुस्तकस्थः ।