________________
१७९०
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे
1
यस्य नास्त्यादिमध्यान्तं स मे द्वेषपथं ययौ । यन्मया सुकृतं कर्म विहितं पूर्वजन्मनि ॥ ४६ विष्णुद्वेषाग्निना दग्धं तत्सर्वं भस्मसादभूत् । कथंचिदस्य पापस्य सीमां पश्यामि चेदहम् ॥ ४७ मुक्त्वा नारायणं नान्यं स्मरयिष्यामि देवताम् । विष्णुद्वेपाचिरं भुक्ता मया नरकवेदनाः ॥ ४८ नरकान्निर्गतः सोऽहं पैशाची योनिमागतः । अधुना कर्मवातैः कैरप्यानीतस्त्वदाश्रमम् ||४९ यत्र त्वद्दर्शनार्कान्मे नष्टं दुःखमयं तमः । प्राप्यते मरणं यत्र वन्दनं श्रीः सुखं वधूः ॥ ५० स तत्र नीयते तेन कर्मणा ग ( ज ) लहस्तिना । इदानीमुचितं ब्रूहि कर्म पैशाच्यनाशनम् ॥ परोपकारकार्ये हि न धन्या मन्दगामिनः ॥
देवद्युतिरुवाच -
५२
५५
अहो मुष्णाति मायेयं देवासुरनृणामपि । यया देवेष्वपि द्वेषो जायते धर्मनाशनः ॥ स्रष्टा पालयिता हन्ता जगतां यो महेश्वरः । आत्मा च सर्वभूतानां तं मूढो द्वेष्टि कः कथम् ५३ भवन्ति सर्वकर्माणि सफलानि यदर्पणात् । तद्भक्तिविमुखो मर्त्यः को न याति हि दुर्गतिम् ५४ श्रुतिस्मृतिसदाचारविहितं कर्म केवलम् । सेवितव्यं चतुर्वर्णैर्भजन्नारायणं सदा ॥ अन्यथा निरयं याति त्रिमार्गागमसेवनात् । अतो वेदविरुद्धार्थ शास्त्रोक्तं कर्म संत्यजेत् ॥ ५६ स्वबुद्धिरचितैः शास्त्रैः प्रतार्येह च बालिशान् । विघ्नन्ति श्रेयसो मार्ग लोकनाशाय केवलम् ५७ विष्णुं निन्दन्ति वेदांश्च तपो निन्दन्ति स द्विजम् । तेन ते निरयं यान्ति असच्छास्त्रनिषेवणात् अयमेव यथा राजा द्राविडो निरयं गतः । द्विषन्नारायणं देवं देवदेवं जगद्गुरुम् ॥ तस्माद्वेषं हि देवेषु गोषु च ब्राह्मणेषु च । संत्यजेत्पुण्यकामोऽत्र वेदबाह्यां त्यजेत्क्रियाम् ६० लोमश उवाच –
५९
५१
इत्युक्त्वा कथयामास पिशाचाय हितं मुनिः ॥
देवद्युतिरुवाच -
६४
प्रयागं गच्छ भो भद्र माघमासं विचारयन् । तत्र ते निश्चिता मुक्ति: पैशाच्यान्नात्र संशयः ६२ तत्र स्नात्वा दिवं यान्ति श्रुतिरेषा पुरातनी । विजहाति नरस्तत्र प्राक्तनं कर्म दुष्कृतम् ।। ६३ प्रयागस्नानतो नान्यत्पुण्यं तदधिकं परम् । प्रायश्चित्तं तपोरूपं दानरूपं क्रियात्मकम् ॥ यागयोगाधिकं विद्धि प्रयागं पापनाशनम् । स्वर्गापवर्गयोर्द्वारं तत्पृथिव्यामपावृतम् ॥ सितासितोदवेणी या तां हित्वा भुवि नापरा । पापान्निगडवन्धस्य च्छेदने वै कुठारिका ॥ ६६ क त्रिष्णुः सूर्यतेजोऽग्निर्गङ्गायमुनसंगमः । क वराकी नृणां तुच्छा पापराशिस्तॄणाहुतिः ॥ ६७ मलीमसघनध्वंसी यथा नभसि चन्द्रमाः । भाति पापक्षयादूर्ध्वं नरो वेणीजलाप्लुतः ॥ ६८ सितासितस्य माहात्म्यमहं वक्तुं न ते क्षमः । यत्तोयकणसंस्पृष्टो मुक्तः केरलको द्विजः ॥ ६९
६५
६१
लोमश उवाच
इति वाक्यं मुनेः श्रुत्वा पिशाचस्तुष्टमानसः । मुक्तदुःख इव प्रीतः पप्रच्छ प्रणयान्मुनिम् ॥ ७० पिशाच उवाच -
कथं केरलदेशीयो द्विजो मुक्तो महामुने । एतं कथय वृत्तान्तं संसृज्य करुणां मयि ॥
देवतिरुवाच -
पिशाच शृणु पुण्यान्मे कथां कथयतः शुभाम् । केरले वसुनामा च ब्राह्मणो वेदपारगः ॥ ७२
७१