________________
२९० पञ्चाशदधिकद्विशत्तमोऽध्यायः ] पद्मपुराणम् ।
१७८९
पश्चान्मनः स भूपालो दुस्तरे दुःखमूर्छितः । संयमन्यां महावीचौ तपने संप्रतापितः॥ १८ पपातानन्तरं राजा दुःखाग्निष्टमानसः। संघातं चैव काकोलं कुड्मलं पूतिमृत्तिकम् ॥ १९ लोहशङ्कु मृगीयत्रपन्थानं शाल्मली नदीम् । प्रविष्टोऽथ महाभीमं दुर्दर्श दुर्गमं पुनः ॥ २० असिपत्रवनं चैव लोहेचारकमेव च । एवमेतेषु सर्वेषु पतित्वा पापकृन्नपः॥ अविन्दन्नरके घोरे संतापं यातनामयम् । विष्णुप्रद्वेषदोषेण युगानामेकसप्ततिम् ॥ २२ भुक्त्वा च यातना यामीनिस्तीर्णो नरकानृपः। स मर्ये गिरिराजे तु पिशाचोऽभूत्तदा महान्॥ स भ्राम्यति दिशः सर्वा वने तस्मिन्बुभुक्षितः । न पश्यत्यशनं तोयं भ्रमते च सदा गिरौ॥२४ कदाचित्पर्यटन्सोऽथ पिशाचः शोकपीडितः । लक्षप्रस्रवणेऽरण्ये प्रविष्टो भाविसत्फलः ॥ २५ विभीतकतरुच्छायां समाश्रित्य स दुःखितः । हा हतोऽस्मीति चाऽऽक्रन्दन्धोरमुच्चैः पुनः पुनः।। क्षुत्तृड्भ्यां मुह्यमानस्य सर्वभूतद्रुहो मम । जन्मनोऽस्य दुरन्तस्य कथमन्तो भविष्यति ॥ २७ अहो पापसमुद्रेऽस्मिन्दुःखकल्लोलमालिनि । करावलम्बनं को मे निमनस्य प्रदास्यति ॥ २८ इत्थं तस्य पिशाचस्य रोदनं दीनचेतसः । देवद्युतिरधीयानः शुश्राव करुणामयः॥ २९ समागत्य ततस्तत्र तं पिशाचं ददर्श सः। विकरालमुखं दीनं पिशाचं पिङ्गलाकृतिम् ॥ ३० ऊर्ध्वमूर्धजकृष्णाङ्गं यमदूतमिवापरम् । लोलजिडं चलदृष्टिं दीर्घजधं शिराकुलम् ॥ ३१ दीर्घोष्ठं शुष्कतुण्डं च गाक्षं शुष्कपञ्जरम् । अथामुं कौतुकाविष्टः पप्रच्छ मुनिसत्तमः॥ ३२ को हि त्वं भीषणाकारः कुतो रोदिषि दारुणम् । अवस्थेयं कुतो ब्रूहि किंवाऽहं करवाणि ते३३ ममाऽऽश्रमप्रविष्टा हि दुःखभाजोऽपि जन्तवः । मोदन्ते केवलं सर्वे वैष्णवे भवने यथा ॥ ३४ वद त्वं सत्वरं भद्र दुःखस्यैतस्य कारणम् । कालक्षेपं न कुर्वन्ति प्राप्तेऽर्थे हि मनीषिणः ॥ ३५
___ लोमश उवाचश्रुत्वैतद्वचनं प्रीतः पिशाचस्त्यक्तरोदनः । उवाच दीनया वाचा प्रश्रयावनतस्तदा ॥
पिशाच उवाचसर्वाङ्गव्यापिसंतापं जहार त्वद्वचो मयि । ग्रीष्मे दावानलोद्भूतं वर्षन्मेघ इवाचले ॥ ३७ यन्मेऽस्ति सुकृतं किंचित्तेन दृष्टोऽसि भो द्विज । न ह्यसंचितपुण्यानां सद्भिरेकत्र संस्थितिः ३८
लोमश उवाचइत्युक्त्वा कथयामास पूर्ववृत्तान्तमात्मनः ॥
पिशाच उवाचविष्णुद्वेषप्रभावेन दशामेतामहं गतः । यन्नामस्मरणान्मुक्तो नरो विष्णुपदं व्रजेत् ॥ ४० पापिष्ठस्य हरौ तस्मिन्मम द्वेषोऽभवविज । यः पालयति भूतानि धर्म पाति जगत्रये ॥ ४१ योऽन्तरात्मा तु भूतानां तस्मिन्द्वेषो ममाभवत् । कर्मणां फलदो यश्च सर्ववेदेषु पठ्यते ॥ ४२ तपोभिरिज्यते विप्रैः स मद्वेषपदं गतः । त्यक्तक्रियैः प्रियारण्यैनिःसङ्गैकचरैश्च यः॥ ४३ [*वेदान्ते यतिभिश्चिन्त्यः स मद्वेष्यो हरिदिन । ब्रह्मादयः सुराः सर्वे योगिनः सनकादयः॥ मुक्त्यर्थमर्चयन्तीह स विष्णुदे॒षितो मया । आदिमध्यावसाने यो विश्वस्यास्य सनातनः ॥ ४५
* अयं श्लेकः क. ख. छ. ज. र. ल. पुस्तकस्थः । १ क. ख. ज. र. ल. संजीवने । २ छ. उ. 'हकण्टक' । ३ ख. र. ल. भीमं ।