________________
१७८७
२४९एकोनपञ्चाशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
यं न स्पृशन्ति गुणजातिशरीरधर्मा यं न स्पृशन्ति गतयः खमिवेन्द्रियाणाम् । यं न स्पृशन्ति मुनयो गतसङ्गमोहास्तस्मै नमो भगवते हरये प्रतीचे ।। ११२ यद्ध्यानसंचयनतूर्णवशीकृताङ्गामैश्वर्यचारुगुणितां सुखमोक्षलक्ष्मीम् ।। आलिङ्गय शेरत इहाऽऽत्मसुखैकलाभास्तस्मै नमोऽस्तु हरये मुनिसेविताय ॥ ११३ जन्मादिभावविकृतेविरहस्वभावो यस्मिन्नयं परिधुनोति षडूमिवर्गम् । यं ताडयन्ति न सदा मदनादिदोषास्तं वासुदेवममलं प्रणतोऽस्मि हृद्यम् ॥ ११४ स्थूलं विलाप्य करणं करणे निदानं(ने) तत्कारणं करणकारणजिते च ॥ इत्थं विलाप्य यमिनः प्रविशन्ति यत्र तस्मै नमोऽस्तु हरये मुनिसेविताय ॥ ११५ यद्ध्यानसंगतमलं विजहात्यविद्यां यद्ध्यानवह्निपतितं जगदेति दाहम् ।
यद्ध्यानमुल्लसदसिधति संशयाब्धि तं त्वां हरिं विशदबोधघनं नमामि ॥ ११६ चराचराणि सर्वाणि भूतान्यस्य हरेः पुरा । यथाऽत्र तेन सत्येन पुरस्तिष्ठति(तु) मे हरिः ११७ यथा नारायणः सर्व जगत्स्थावरजङ्गमम् । तेन सत्येन मे देवः स्वं दर्शयतु केशवः ॥ ११८ भक्तिर्यथा हरौ मेऽस्ति तद्वच्छ्रेष्ठा गुरौ यदि । ममास्ति तेन सत्येन स्वं दर्शयतु केशवः ॥११९ तस्यैवं शपथैः सत्यैर्भक्तिं तस्यानुचिन्तयन् । दर्शयामास चाऽऽत्मानं संप्रीतः पुरुषोत्तमः १२० तदा दत्त्वा वरं तस्मै पूरयित्वा मनोरथम् । जगाम कमलाकान्तः स्तुत्या विप्रेण तोषितः।।१२१ कृतकृत्यो द्विजः सोऽपि वासुदेवपरायणः । शिष्यः साध जपन्स्तोत्रं तस्मिन्नास्ते तपोवने १२२ कीर्तयेद्य इदं स्तोत्रं शृणुयादपि मानवः । अश्वमेधस्य यज्ञस्य प्रामोत्यविकलं फलम् ॥ १२३ आत्मविद्यामवोधं च लभते ब्राह्मणः सदा । न पापे जायते बुद्धिर्नैव पश्यत्यमङ्गलम् ॥ १२४ बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमेन्द्रियकं तथा। नृणां भवति सर्वेषां सम्यक्स्तोत्रस्य कीर्तनात् विचार्यार्थ पठेद्यस्तु शृणुयादपि मानवः । स विधूयेह पापानि लभते वैष्णवं पदम् ॥ १२६ वाञ्छितं लभते कामान्पुत्रान्प्रामोत्यनुत्तमान् । दीर्घमायुर्बलं वीर्य लभते च सदा पठन् ॥ १२७ तिलपात्रसहस्रेण गोसहस्रेण यत्फलम् । तत्फलं समवानोति य इमां कीर्तयेत्स्तुतिम् ॥ १२८ [*धर्मार्थकाममोक्षाणां यं यं कामयते सदा । अचिरात्तमवाप्नोति स्तोत्रेणानेन मानवः ॥ १२९ आचारे विनये धर्मे ज्ञाने तपसि सन्नये । नृणां भवति नित्यं धीरिमां संशृण्वतां स्तुतिम्] १३० महापातकयुक्तोऽपि तथा युक्तोपंपातकैः । सद्यो भवति शुद्धात्मा स्तोत्रस्य पठनात्सकृत् ॥ १३१ प्रज्ञालक्ष्मीयश-कीर्तिज्ञानधर्मविवर्धनम् । दुष्टग्रहोपशमनं सर्वाशुभविनाशनम् ॥ सर्वव्याधिहरं पथ्यं सर्वारिष्टनिषदनम् । दुर्गतेस्तरणं स्तोत्रं पठितव्यं जितात्मभिः ॥ १३३ नक्षत्रग्रहपीडासु राजदैवभयेषु च । अग्निचौरनिपातेषु सद्यः संकीर्तयेदिदम् ॥ सिंहव्याघ्रभयं नास्ति नाभिचारभयं तथा । भूतप्रेतपिशाचेभ्यो राक्षसेभ्यस्तथैव च ॥ १३५ पूतनाजृम्भकेभ्यश्च विघ्नेभ्यश्चैव सर्वदा । नृणां कचिद्भयं नास्ति स्तवे ह्यस्मिन्प्रकीर्तिते ॥ १३६
वासुदेवस्य पूजां यः कृत्वा स्तोत्रमुदीरयेत् । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १३७ 7 गङ्गादिपुण्यतीर्थेषु या स्नानेनाऽऽप्यते गतिः। तां गतिं समवाप्नोति पठन्पुण्यामिमां स्तुतिम् ॥
* धनुश्चिहान्तर्गतः पाठो र. ल. पुस्तकस्थः । + संधिरार्षः ।
१ छ. र. ल. द्विजातिभिः ।