________________
१७८६
महामुनिश्रीव्यासपणीत-- [६ उत्तरखण्डेविदोषं विगुणं चै चिन्मूर्तमखिलं जगत् । कवीनां भाति यद्रूपं तं विष्णु नौमि निर्गुणम्॥८१ यस्मिज्ञाते न कुर्वन्ति कर्माऽऽचारश्रुतेरितम् । निरेषणा जगन्मित्रं शुद्धं ब्रह्म नमामि तत्।। ८२ [+कामयज्ञान्मजार्थं च एषणाभ्यः समुत्थितान् । लोकमात्मैव पश्यन्तो यं वुद्ध्वैवं चराचरम् ] स्वं स्वेतरं च सन्मात्रं यत्प्रवोधादुपासते । योगिनः सर्वभूतेषु सद्रूपं नोमि तं हरिम् ॥ ८४ ब्रह्माहमिति गायन्ति यं ज्ञात्वैकं वरा जनाः। पश्यन्तो हि त्वया तुल्यं देवं तं नौमि माधवम् माया मोहो विचित्राभस्तथाऽहंममता नृणाम् । विलीयन्ते विदित्वा यं नमस्तस्मै चिदात्मने८६ मोहानललसज्ज्वालाज्वलल्लोकेषु सर्वदा । यन्नामाम्भोधरच्छायां प्रविष्टो न तु दह्यते ॥ ८७ प्रयाणे वाऽप्रयाणे वा यन्नाम स्मरतां नृणाम् । सद्यो नश्यति पापौघो नमस्तस्मै चिदात्मने ८८ यस्य स्मरणमात्रेण न मोहो नैव दुर्गतिः। न रोगो नैव दुःखानि तमनन्तं नमाम्यहम् ॥ ८९ . कामयन्ते प्रजा नैव ह्येषणाभ्यः समुत्थिताः । लोकमात्मेति पश्यन्तो यं बुद्ध्वेकचरा जनाः॥ शब्दार्थः संविदर्थश्च विष्णोर्नास्ति परो यदि । सत्येन तेन संसारो न मां स्पृशतु माधव ॥९१ नारायणो जगद्यापी यदि वेदादिसंमतः । सत्येन तेन निर्विघ्ना विष्णुभक्तिर्ममास्तु वै ॥ ९२ योनिबीजं विना बीजं बीजे यो जीवभाषितः । स विष्णुर्भवबीजं मे शितविद्यासिना द्यतु॥९३ त्रितनुर्नटविद्यस्तु सृष्टिस्थितिलयेषु च । गुणैर्भवति कार्येषु स प्रसीदतु मे हरिः॥ ९४ [*दशभेदावतीर्णो यो धर्मत्राणाय केवलम् । अभ्यर्थितः सुरगणः स प्रसीदतु मे हरिः॥९५ ब्रह्मादिस्तम्बपर्यन्तं प्राणिहन्मन्दिरेऽमलः । एको वसति यो देवः स प्रसीदतु मे हरिः ॥ ९६ इच्छां चक्रे सदेवाग्रे य एकः स्यां बहुस्तथा । प्रविष्टो देवताः सृष्ट्वा स प्रसीदतु मे हरिः ॥९७ हत्खगः खसमः खादिः खातीतः खक्रियः खगः । खं ब्रह्म खादि भुक्त्वाऽन्ते खमूर्तिस्त्वं मखाशनः यद्भासा यन्मुदा यस्य सत्तया संततं जगत् । जाड्यं दुःखमसत्त्वं च स भवानेव तन्मयः॥ ९९ त्वत्पृष्ठं मोदते सर्व त्वत्त्यक्तमशुचिर्भ(भ)वेत् । तत्संगतोऽप्यसङ्गस्त्वं विकारस्तेन ते न हि १०० [+केचिबुद्धिं परे प्राणं मनोऽहंकारमातरम् । केचिच्च कायं(य)चैतन्यं कायमात्रं परेऽधमाः ॥१ केचित्तु पुरुषं शब्दं ब्रह्म केचित्परे शिवम् । भक्तिं च चिन्मयीं केचिद्गोविन्दं त्वां कुमार्गगाः२ । तीथातीर्थमधिष्ठाय केशाकेशि मिथा जनाः। यद्वदन्ति पुनस्त्वां हि चित्सदानन्दलक्षणम् १०३ योगज्ञं भूतचैतन्यं चार्वाकास्त्वामुपासते । सौगता ब्रुवते तस्त्वां बुद्धिं क्षणभङ्गुराम् ॥ १०४ शरीरपरिमाणं त्वां मन्यन्ते जिनदेवताः। ध्यायन्ति पुरुषं सांख्यास्त्वामेव प्रकृतेः परम्।।१०५ जन्मादिरहितं पूर्व चित्सदानन्दलक्षणम् । त्वामौपनिषदा ब्रह्म चिन्तयन्ति परात्परम् ॥ १०६ खादिभूतानि देहश्च मनोबुद्धीन्द्रियाणि च । विद्याविद्ये त्वमेवात्र नान्यत्वत्तोऽस्ति किंचन१०७ त्वमग्निस्त्वं हविस्त्वं झुग्दीक्षितानां क्रियाक्षये(मा)। त्वं सेतुः सर्वभूतानां त्वमेव शरणं मम ८ युवतीनां यथा यूनि यूनां च युवती यथा । मनोऽभिरमते तद्वन्मनो मे रमतां त्वयि ॥ १०९ अपि पापं दुराचारं नरं त्वां प्रणतं हरे । नेक्षन्ते किंकरा याम्या उलूकास्तपनं यथा ॥ ११० तापत्रयमघौघश्च तावत्पीडयते जनम् । यावन्नाऽऽश्रयते मर्यो भक्त्या त्वत्पादपङ्कजम् ॥ १११
+ अयं श्लोकः, छ. ठ. पुस्तकस्थः । * धनश्चिद्वान्तर्गतः पाठः, क. ख. छ. ज. झ. र. ल. पुस्तकस्थः । + धनुचिहान्तगतः पाठः, छ. 3. पुस्तकस्थः ।
१. 3. लोकानां।