SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ २४९एकोनपञ्चाशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् । १७८५ देवधुतिरुवाचदेवदेवारविन्दाक्ष स्वमायाधृतविग्रह । त्वदर्शनात्सदा देव दुर्लभो नापरो वरः॥ ५६ ब्रह्मादयः सुराः सर्वे योगिनः सनकादयः । त्वां साक्षात्कर्तुमिच्छन्ति सिद्धाश्च कपिलादयः॥ अहं ममेति देहस्य मोहमूलाः शुभाशुभाः । सहेतुकाश्च दह्यन्ते त्वयि दृष्टे परावरे ॥ ५८ जन्मनः कर्मणो बुद्धराविर्भूतं फलं मम । यदृष्टोऽसि जगन्नाथ प्रार्थये किमतः परम् ॥ ५९ न वरार्थ हि देवेश त्वत्पादपङ्कजं हृदि । चिन्तयाम्यनिशं भक्त्या त्वद्गतेनान्तरात्मना ॥ ६० इममेव वरं याचे त्वद्भक्तिरचला मम । अस्तु वै केवला नाथ प्रार्थये नापरं वरम् ॥ ६१ __ लोमश उवाच[+इति श्रुत्वा वचस्तस्य प्रसन्नहृदयस्तदा] । प्रत्युवाच प्रसन्नात्मा एवमस्तु द्विजोत्तम ।। ६२ अन्यस्ते तपसः कश्चित्पत्यूहो न भविष्यति । [*एतच्च त्वत्कृतं स्तोत्रं ये पठिष्यन्ति मानवाः।। तेषां मद्विषया भक्तिनिश्चला च भविष्यति । धर्मकार्य च यत्किचित्साङ्गं सर्व भविष्यति ॥६४ ज्ञानेन परमा निष्ठा तेषां स्थास्यति सर्वदा ।। लोमश उवाचइत्युक्त्वाऽन्तर्हितो भूयो देवदेवो जनार्दनः । देवद्युतिस्तदारभ्य नारायणपरोऽभवत् ॥ ६६ वेदनिधिरुवाचमहर्षेऽनुगृहीतोऽस्मि कथया पावनीकृतः । अनया विष्णुसङ्गिन्या गङ्गयेवाहमद्य वै ॥ ६७ किं तत्स्तोत्रं तदाख्याहि प्रसन्नो येन माधवः । तस्यानघस्य विप्रस्य महत्कौतूहलं मम ॥ ६८ त्वत्प्रसादादहं विप्र मन्ये प्राप्तं मनोरथम् । महतां संगतिः कस्य महत्त्वाय न कल्पते ॥ ६९ लोमश उवाचकथयामि रहस्यं ते यजप्तं स्तोत्रमुत्तमम् । प्राग्गृहीतं सुपर्णेन गरुडान्मम चाऽऽगतम् ॥ ७० अध्यात्मगर्भसारं तन्महोदयकरं शुभम् । सर्वपापहरं विप्र ह्यात्मज्ञानकरं परम् ।। ७१ ॐ नमो भगवते वासुदेवाय नमो विश्वाय चक्रिणे । भक्तप्रियाय कृष्णाय जगन्नाथाय तेजसे ।। स्तोता स्तुत्यः स्तुतिः सर्व जगद्विष्णुमयं सदा । तदा संस्तूयते केन भक्तिर्भेदकरी नृणाम् ॥७३ यस्य देवस्य निश्वासो वेदाः साङ्गाः ससूत्रकाः।का स्तुतिः प्रमुदे तस्य भक्त्याऽहं मुखरोऽभवम् वेदो न वक्ति यं साक्षान्न च वाग्वेत्ति नो मनः। मद्विधस्तं कथं स्तौति भक्तियुक्तो न किं वदेत ब्रह्मादिब्रह्म विष्णो त्वं त्वमेव ब्रह्मणो वपुः। स्रष्टा ब्रह्मनिदानं च शुद्धब्रह्म त्वमेव च ॥ ७६ ['काऽय कायस्तव विभो भित्त्वा स्पृशति कायिनम् । कायदोषेरनाघातस्तया त्वं भासि योगिनाम् (2)] ॥ ७७ देहभावेन जागर्ति न निद्राति निजात्मनि । सुखसंदोहबुद्धिर्या सा त्वं विष्णो न संशयः।। ७८ महदादिद्विधाभावास्तथा वैकारिका गुणाः । त्वमेव नाथ तत्सर्व नानात्वं मूढकल्पना॥ ७९ केशकेशवरूपाभिः कल्पनाभिः मृतिस्तथा। त्वमेव कथ्यसे ब्रह्मन्पुत्रादिभिः पुमानिव ॥ ८० + इदमधे क. ख. च छ. ज. झ. द. र. ल. पुस्तकस्थम् । * अयं श्लोकः क. छ. ज. झ.र. ल, पस्तकस्थः । + अयं श्लोकः ख. छ. र. ल. पुस्तकस्थः । .ल. क्तिर्मोद'। १ क. ज झ. भूप। २ क. झ. र. ल. भक्तिप्रि। ३. ल. शार्षिण। २२४
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy