________________
४२
१७८४ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेआश्रमो रमणीयस्तु द्रुमैर्नानाविधैर्दिन । मध्येवनं नदी याति पुण्यतोया सरस्वती ॥ २८ कूजन्ति सारसास्तत्र मदस्निग्धकलं सदा । नदन्ति कोकिलास्तत्र कूजन्ति च मधुव्रताः॥ २९ बहुकोलाहलं विम तद्वनं शुकसारिभिः । चरन्ति विविधास्तत्र श्वापदाः काननोत्तमे ॥ ३० सदाफलं सदापुष्पं परागकणधूसरम् । आच्छन्नं काननं सर्व मधुः समन्ततः॥ १ नवपल्लवसंजातमञ्जरीवरवल्लिभिः । आश्लिष्टमभितोरम्यं प्रियाभिरिव वल्लभः॥ ३२ तस्य शापभयात्रस्ता झञ्झावाताः प्रवान्ति न । न वर्षन्त्यश्मनो मेघा न शोषयति-भास्करः३३ वनं निरुपद्रवं तद्धि सदा सिद्धनिषेवितम् । आहादजननं नित्यं वनं चैत्ररथं यथा ॥ ३४ तस्मिन्वसति धर्मात्मा देवद्युतिर्द्विजोत्तमः । पुत्रः सुमित्रविप्रस्य लब्धो लक्ष्मीपतेर्वरात् ॥ ३५ नियमः श्रूयतां तस्य सर्वदा नियतात्मनः । ग्रीष्मे तु पञ्चाग्नितपा रवी न्यस्तविलोचनः ॥ ३६ वर्षाकादम्बिनी यावद्वर्षास्वभ्रावकाशकः । वाते प्रवाति निष्कम्पो दुःसहे हिमवानिव ॥ ३७ वसत्यप्सु च हेमन्ते ह्रदे सारस्वते द्विज । उपस्पृशति काले स त्रिवारं वारि निर्मलम् ॥ ३८ पितॄन्देवानृषीनित्यं संतर्पयति श्रद्धया। वह्नौ जुहोति वैताने श्रद्धयाऽतिथिपूजकः ॥ ३९ चान्द्रायणविधानेन कालं नयति सर्वदा । ब्रह्मयज्ञपरो नित्यं सत्यवादी जितेन्द्रियः॥ ४० भ्रमन्विश्रम्य विश्रान्तः प्रपदैः प्रार्थयन्हरिम् । स्वयं विगलितैः पुष्पैः फलैर्वृत्तिं समीहते ॥ ४१ अनुद्विग्नस्तपोनिष्ठो वेदवेदाङ्गपारगः। धमनीविकरालोऽसावस्थिमात्रकलेवरः॥ इत्थं जगाम वर्षाणां सहस्रं तस्य तद्वने । तदा जज्वाल शैलोऽसौ तपसा तस्य तेजसा ॥ ४३ सोडुं न शक्यते भूतैस्तपस्तस्य महात्मनः । वैश्वानर इवाऽऽभाति प्रज्वलंस्तपसा द्विजः ॥ ४४ गतवेराणि भूतानि समजायन्त तद्वने । मृगव्याघ्राखुमार्जारा मिथः क्रीडन्ति निर्भयाः॥ ४५ अन्योऽपि नियमस्तस्य श्रूयतामतिदुर्लभः । नारायणं त्रिकालं स संपूजयति नित्यशः॥ ४६ पुष्पाणां तु सहस्रेण विकचेन सुगन्धिना । वेदसूक्तविधानेन विष्णुध्यानपरायणः॥ ४७ विष्णोः संप्रीतये विप्रः कुरुते कर्म चाखिलम् । दधीचेवरदानात्स संजातो वरवैष्णवः ॥ ४८ एकदा मासि वैशाखे एकादश्यां महामुनिः। पूजां कृत्वा हरे रम्यां विचित्रामकरोत्स्तुतिम् ४९ तदैव खगमारुह्य देवदेवो हरिः स्वयम् । आजगाम पुरस्तस्य तया स्तुत्याऽतिहर्षितः॥ ५० तं दृष्ट्वा गरुडारूढं प्रत्यक्षं जलदच्छविम् । चतुर्बाहुं विशालाक्षं सर्वालंकारभूपितम् ॥ ५१ उद्भूतपुलको विप्रः सानन्दजललोचनः । जगाम शिरसा भूमौ कृतकृत्यमनास्तदा ॥ ५२ न ममौ तेन हर्षेण स ब्रह्माण्डोदरेऽपि हि । न सस्मार निजं देहं ब्रह्मभूत इवाभवत् ॥ ततः संभावितः प्रीत्या हरिणा वैष्णवो मुनिः ॥
हरिरुवाचदेवद्युते विजानामि मद्भक्तस्त्वं मदाश्रयः । संन्यस्याखिलकर्माणि मद्भावो मन्मनाः सदा ॥ वरं ब्रूहि प्रसन्नोऽस्मि स्तोत्रेणानेन तेऽनघ । ___लोमश उवाचइति श्रुत्वा हरेर्वाक्यं प्रत्युवाच स तापसः ॥
१ क. ज. स. धैर्नप । म । २ ज. न । ३ र. ल. मुदाऽन्वितः ।