________________
१७८२ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेशापः पापफलं विप्र पापनाशो भवेश्नृणाम् । माघस्नानेन सत्तीर्थे ममेयं निश्चिता मतिः ॥ ५५ सप्तजन्मकृतं पापं वर्तमानं च दारुणम् । माघस्नानं दहेत्कृत्स्नं पुण्यतीर्थे विशेषतः ॥ ५६ प्रायश्चित्तं न पश्यन्ति यस्मिन्पापे मुनीश्वराः । पातकं पुण्यतीर्थेपु नश्येत्तदपि माघतः ॥ ५७ ज्ञानकुन्मानसे माघस्तस्मान्मोक्षफलपदः । हिमवत्पृष्ठतीर्थेषु सर्वपापप्रणाशनः ॥ इन्द्रलोकप्रदोऽच्छोदे निर्दिष्टो वेदवादिभिः । सर्वकामप्रदो माघो मोक्षद्धदरीवने ॥ पापहा दुःखहारी च सर्वकामफलप्रदः । रुद्रलोकप्रदो माघो नार्मदः पापनाशनः ॥ यामुनः सूर्यलोकाय भवेत्कल्मषनाशनः । सारस्वतोऽघविध्वंसी ब्रह्मलोकप्रदस्तथा ॥ ६१ विशालफलदो माघो विशालायां द्विजोत्तम । पातकेन्धनदावाग्निगेभेहेतुक्रियापहः ॥ ६२ विष्णुलोकाय मोक्षाय जाह्नवी परिकीर्तिता । शरयूर्गण्डकी सिंधुश्चन्द्रभागा च कोशिकी ॥ ६३ . तापी गोदावरी भीमा पयोष्णी कृष्णवेणिका । कावेरी तुगभद्रा च याश्चान्याश्च समुद्रगाः॥६४ । पासु माघी नरो याति स्वर्गलोकं विकल्मषः। नमिपे विष्णुसारूप्यं पुष्करे ब्रह्मणोऽन्तिकम् ॥ आखण्डलस्य लोको हि कुरुक्षेत्रेषु माघतः । माघो देवहदे विष योगसिद्धिफलप्रदः॥ ६६ प्रभासे मकरादित्ये स्नानाद्रुद्रगणो भवेत् । देवक्यां देवतादेहो नरो भवति माघतः ॥ ६७ माघस्नानेन भो विप्र गोमत्यामपुनर्भवः। हेमकूटे महाकाले ओंकारेऽप्यमरेश्वरे ॥ नीलकण्ठहदे माघाद्रुद्रलोके महीयते । सर्वासां सरितां विप्र संगमे मकरे रवौ ॥ सानेन सर्वकामानामवाप्तिर्जायते नृणाम् । माघस्तु प्राप्यते धन्यैः प्रयागे द्विजसत्तम । अपुनर्भवदं तत्र सितासितजलं किल ॥
गायन्ति देवाः सततं दिविष्ठा माघः प्रयागे किल नो भविष्यति । स्नाता नरा यत्र न गर्भवेदनां पश्यन्ति तिष्ठन्त्यपि विष्णुसंनिधौ ॥ मजन्ति येऽपि त्रिदिनं तु मानवास्तीर्थे प्रयागे बहुपापकञ्चकाः। मन्जन्ति ते नो निरयेषु धर्मिणः स्वर्गेऽप्सरोभिर्विहरन्ति देववत् ।। तीव्रतैर्दानतपोभिरध्वरैः सार्धं विधात्रा तुलया धृतः पुरा । माघः प्रयागस्य तयोर्द्वयोरभून्माघो गरीयानत एव सोऽधिकः ॥ वाताम्वूपर्णाशनदेहशोषणैस्तपोभिरुचिरकालमंचितैः। योगेर्न संयान्ति नराः सतां गतिं स्नानात्प्रयागस्य च याति यां गतिम् ॥ ७४ स्नाताश्च ये वै मृगभास्करोदये तीर्थे प्रयागे सुरसिन्धुसंगमे । तेषां गृहद्वारमलंकरोति किं भृङ्गावली कुञ्जरकर्णताडिता॥ यो राजसूयाद्धयमेधयज्ञतः स्नानात्फलं संप्रददाति चाधिकम् । पापानि सर्वाणि विलोप्य लीलया नूनं प्रयागः स कथं न वर्ण्यते ॥ ७६ इति श्रीमहापुराणे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादेऽष्ट
चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४८ ॥ (३०)
आदिनः श्लोकानां समष्ट्यङ्काः-४४८६१