SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ २४७सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् । १७७५ राक्षस उवाचभव प्रमुदिता नित्यं सर्वदा शिवमस्तु ते । आचन्द्रार्क रमस्व त्वं कैलासे शिवसंनिधौ ॥ १८० उमयाऽखण्डितं प्रेम तवास्तु वरणिनि । धर्मनिष्ठा तपोनिष्ठा मातस्त्वं भव सर्वदा ।।। माऽस्तु लोभः शरीरे ते आपन्नार्तिहरा भव ॥ १८१ श्रीदत्तात्रेय उवाचइत्युक्त्वा संप्रणम्याथ स तां काञ्चनमालिनीम् । जगाम राक्षसः स्वर्ग गन्धर्बहुभिः स्तुतः१८२ देवकन्यास्तदाऽऽगत्य वपुः पुष्पवृष्टिभिः । तस्याः काञ्चनमालिन्या मूर्ति हर्षसमाकुलाः ॥ तामालिङ्गच ततः प्रोचुः कन्यकाः सुप्रियं वचः॥ १८३ देवकन्या ऊचुःकृतं भद्रे त्वया चित्रं रक्षसो हि विमोक्षणम् । दुष्टस्यास्य भिया किंचिद्विशत्यस्मिन्न कानने अधुना निर्भया पत्र विचरामो यथासुखम् ॥ १८४ श्रीदत्तात्रेय उवाचश्रुत्वा तु वचनं तासां राजन्काञ्चनमालिनी । हृष्टा तेनैव दानेन कृतकृत्या सती तदा ॥ १८५ तं राक्षसं काश्चनमालिनी तदा गन्धर्वकन्या परिमोक्ष्य सत्वरम् । क्रीडन्त्यमूभिः प्रययौ हरालयं प्रीत्या सुपूर्णा हि परोपकारिणी ॥ १८६ संवादमेतद्वरकन्यकेरितं भक्त्या परं यश्च शृणोति मानवः ।। नो बाध्यते जात्वपि राक्षसादिभिर्धर्मे मतिस्तस्य भृशं प्रजायते ॥ १८७ इति श्रीमहापुराणे पान उत्तरखण्डे माघमाहात्म्य वसिष्ठदिलीपसंवादे राक्षसविमोक्षणं नाम षट्चत्वारिंशदधिकद्विशततमोऽध्यायः ।। २४६ ॥ (२८) आदितः श्लोकानां समष्ट्यङ्काः-४४७०४ अथ सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः । rati वसिष्ठ उवाचकथितं माघमाहात्म्यं दत्तात्रेयेण भाषितम् । अधुनाऽहं प्रवक्ष्यामि माघस्नानफलं महत् ॥ १ सर्वक्रतुवरिष्ठं यत्सर्वदानफलप्रदम् । सर्वत्रततपस्तुल्यं माघस्नानं परंतप ॥ स्नानेन माघस्य दिलीप मानवाः पितृन्दिवि स्थाप्य कुलद्वयोद्भवान् । स्वर्ग प्रयान्ति स्वयमुज्ज्वलानना वरैर्विमानै रुचिरैश्च काञ्चनैः॥ ये मानवाः पापकृतोऽपि सर्वदा महादुराचाररता विमार्गगाः।। स्नात्वा हि माघेऽहिरिव त्वचं भृशं मुञ्चन्ति तेऽपीह महाघकञ्चकम् ॥ सत्येन हीनाः पितृमातृदूषका अनाश्रमस्थाः कुलधर्मवर्जिताः। ये दाम्भिकास्तेऽपि नराः सतां गतिं स्नानैः प्रयान्त्यत्र हि माघसंभवैः॥ ५ पुण्येपु तीर्थेष्वपि माघमास स्नानं नराणामपि दुर्लभं भुवि ।। तस्माद्यतो ब्रह्मविदां पदं नरैः संप्राप्यते नात्र विचारणा च ॥ १ ख. ज. झ. वरा । २ ख. ज. झ. र. ल. कामगैः ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy