________________
१७७४
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे
जानास्यत्रोचितं त्वं हि किंचिन्नो वच्यतः परम् । अस्य दुःखोदधेः पारं कथं यामीति चिन्तय सज्जनानां महाभूतिः सर्वेषामुपजीविनी । क्षीरार्णवः पयो दत्ते हंसाय न बकाय किम् ।। १६०
श्रीदत्तात्रेय उवाच —
इति तस्य वचः श्रुत्वा कृपाकृतमानसा । धर्मदाने मनः कृत्वा जगौ काञ्चनमालिनी ।। १६१ काञ्चनमालिन्युवाच -
करिष्ये निष्कृतिं रक्ष इदानीं खलु मा शुचः । प्रतिज्ञां तु दृढां कृत्वा यतिष्ये तव मुक्तये १६२ बहवो हि कृता माघा वर्षे वर्षे यथाविधि । श्रद्धापूर्व मया रक्षो ब्रह्मक्षेत्रे सितासिते ।। १६३ तां वदामि न संख्यां ते तस्य धर्मस्य राक्षस । गूढो धर्मो हि कर्तव्य इत्यूचुर्विधोत्तमाः १६४ आर्ते दानं प्रशंसन्ति मुनयो वेदवादिनः । सागरे वर्षतो भद्र किं मेघस्य फलं भवेत् ।। १६५ ददामि माघपुण्यं ते कृतमेकं सितासिते । तेन ते स्वर्गतिः सद्यो भविष्यति न संशयः ।। १६६ अनुभूतं मया रक्षः स्वयं तत्पुण्यजं फलम् । तव दास्यामि तद्रक्षः सद्यस्तापविनाशनम् ।। १६७
श्रीदत्तात्रेय उवाच
निष्पीड्याथ तदा वस्त्रं जलं कृत्वा कराम्बुजे । ददौ सा माघजं पुण्यं यदा वृद्धाय रक्षसे १६८ शृणु राजन्विचित्रं तं प्रभावं माघमासजम् । तदैव प्राप्तपुण्यस्तां विमुक्तो (च्य) राक्षसीं तनुम् १६९ संभूतो देवताकारस्ततो भास्करविग्रहः । देवयानं समारूढो हर्षादुत्फुल्ललोचनः ॥ द्योतमानस्तदा व्योम्नि भासयन्प्रभया दिशः । दिव्यरूपधरो रेमे द्वितीय इव भास्करः || ततोऽभिवन्दयामास स तां काञ्चनमालिनीम् ॥
१७०
१७१
राक्षस उवाच -
भद्रे वेत्तीश्वरो देवः कर्मणां यः फलप्रदः । त्वयाऽप्युपकृतं सम्यग्यत्र मे नास्ति निष्कृति: १७२ इदानीं मम कारुण्यात्प्रसीदानुग्रहं कुरु । शिक्षां विधेहि मे देवि सर्वनीतिमयीं शुभाम् ॥ १७३ सर्वधर्म नूनं न कुर्वे पातकं यथा । तां श्रुत्वा त्वदनुज्ञातः पश्चाद्यामि सुरालयम् ॥ १७४ श्रीदत्तात्रेय उवाच —
एतन्निशम्य तेनोक्तं प्रियं धर्ममयं वचः । अतिमीताऽब्रवीद्राजन्धर्म काञ्चनमालिनी ॥ काञ्चनमालिन्युवाच
धर्मे भजस्व सततं त्यज भूतहिंसां सेवस्त्र साधुपुरुषाञ्जहि कामशत्रुम् । अन्यस्य दोषगुणकीर्तनमाशु मुक्त्वा सत्यं वदार्चये हरिं जहि सर्वदुःखम्।। १७६ देहेऽस्थिमांसरुधिरेऽहंमति त्यज त्वं जायासुतादिषु सदा ममतां विमुञ्च | पश्यानिशं जगदिदं क्षणभङ्गनिष्ठं वैराग्यभावरसिको भव योगनिष्ठः || प्रीत्या मया निगदितं तत्र धर्मजातं चित्ते निधेहि सफलं भव शीलयुक्तः । संत्यज्य राक्षसतनुं धृतदेवदेहो ज्योतिर्मयो व्रज यथासुखमाशु नाकम् || श्रीदत्तात्रेय उवाच -
१७७
१७८
श्रुते धर्मे ततो रक्षः संतुष्टो वाक्यमब्रवीत् ॥
१ ख. र. ल. सद्यः पापवि' । २ ज झ य हरिं व्रज देवलोकम् । र. ल. 'य शिषं भज वासुदेवम् ।
१७५
१७९