________________
१८ अष्टादशोऽध्यायः ] पद्मपुराणम् ।
१२७७ तदङ्गे पतितौ दृष्ट्वा पर्वतौ तौ विनद्य च । जघान मुष्टिपातेन वीरभद्रो नदीसुतम् ॥ २४ मणिभद्रश्चरणयोधृत्वा सागरनन्दनम् । स्यन्दनाद्धामयामास तदद्भुतमिवाभवत् ।। मणिभद्रगृहीतोऽपि दैत्यराट्स महाबलः । हत्वा चरणघातेन मणिभद्रमपातयत् ॥ २६ जालंधरो महाबाहुर्वीरभद्रं च मुष्टिना । अथाऽऽगतः परिवृतो गणैः नन्दिकेश्वरः॥ २७ शुम्भस्तमागतं दृष्ट्वा रुरोध सह सैनिकः । द्वंद्वयुद्धैरथाऽऽजग्मुः गणा दैत्याः परस्परम् ॥ २८ शुम्भः शिलादजं राहुमहाकालं रणे ययौ । कोलाहलं निशुम्भोऽथ केतुः कालमधावत ॥ २९ शैलोदरो गुहं जम्भो माल्यवन्तं महाबलः । महापाों ययौ चण्डं चण्डीशो रोमकण्ठकम् ॥३० विकटास्योऽय वै भृङ्गिमुरुनेत्रो विनायकम् । एवं दैत्येश्वरैः सार्ध गणानामधिपा ययुः॥ ३१ अथ शुम्भायुधैर्वाणैः प्रहतश्च शिलादजः। चूर्णीचकारादिङ्गैः कपितुण्डो महत्तरैः॥ ३२ शुम्भस्तेनादितः शक्त्या शिलादं च(द) जघान तम् । महाकालो जघानाथ तं राहुं रणमूर्धनि शक्त्याऽथ तस्य हतवान्स्यन्दनं स महाद्रिणा । कोलाहलो हतः शक्त्या निशुम्भेन प्रतापवान् शक्तिं गृहीत्वा ह्यहनद्रथं सारथिना सह । विरथेनाथ दैत्येन भृशक्रुद्धन संयुगे ॥ ३५ कोलाहलोऽसुरेन्द्रेण सहस्रफणिना हतः । तं हत्वा चातिवेगेन रथं चान्यमुपागतः॥ ३६ फणचक्रहतः संख्ये क्षणान्मूर्छा विहाय च । स्वरथाच्छीघ्रमुत्तीय गृहीत्वा खड़चर्मणी ॥ ३७ सर्व चक्रे निशुम्भस्य स रथाद्यसिना पृथक् । पुनः स्वरथमारुह्य दैत्यं बाणैरताडयत् ॥ ३८ निशुम्भोऽप्यतिरोषाच्च तत्पराक्रमविस्मितः । शक्त्या महाबलस्तस्य रथं साश्वं न्यमूदयत् ॥३९ कोलाहलो रणे धावन्निशुम्भं विरथो बली । गतः स विरथं चक्रे सरथं भुजबन्धनात् ॥ ४० केतुपुच्छं गृहीत्वा च भ्रामयामास चाम्बरे । कालश्चिक्षेप सोऽप्यद्रिं स चिच्छेद गिरिं जवात् ॥ तं नगं चूर्णितं दृष्ट्वा ताडयामास मुष्टिना । कालचूर्णितसर्वाङ्गः केतुना प्राद्रवद्भयात् ।। ४२ शैलोदरो रणे स्कन्दं जघान गदयोरसि । षडाननोऽपि तं शक्त्या हत्वा भूमावपातयत् ॥ ४३ शक्तिमहारेण मृतं दानवं वीक्ष्य षण्मुखः। जगर्ज तत्र वै चित्रं यथा क्रौञ्चे विदारिते ॥ ४४ माल्यवानथ बाणोधैर्जम्भमभ्यद्रवद्रणे । जम्भोऽपि सायकैस्तीक्ष्णभित्वा तं मूर्छितं जहाँ ॥ ४५ महापाों रथं धृत्वा वाणाधैर्वाजिवर्जितम् । लीलयैव च खे नीत्वा व्यश्वं चण्डमपातयत्।।४६ व्यश्वं रथं विलोक्याथ ततश्चण्डोऽग्रहीद्दाम् । आपतन्तं महापाई चण्डस्तं गदयाऽहनत् ।। ४७ अचिन्त्यैव गदापातं सोऽसुरो भृशदारुणः । प्रहत्य मुष्टिना चण्डं पातयामास भूतले ॥ ४८ चण्डीशशस्त्राभिहतो रोमकण्ठो महासुरः । चण्डीशं पादयोधृत्वा रथं(थ)मूर्ध्नि न्यपातयत् ॥ ४९ पपात सहसा भूमौ ययौ तं भीपणक्षणम् * । उरुनेत्रेण समरे हतो लम्बोदरः शरैः॥ ५० दन्तेनोरसि तं हत्वा पातयामास भूतले । उरुनेत्रः क्षणाच्छान्तिमागत्याऽऽखुरथं क्षणात् ॥५१ जघान मुद्रेणाऽसौ मूर्ध्नि सिन्दूरमण्डिते । गणेश्वरः पट्टिशेन जघानोरसि दानवम् ॥ ५२ तन्मुखादथ निष्क्रान्तो नवशीर्षोऽसुरो महान् । अष्टादशभुजो राजन्सोऽप्यधावत शांकरिम् ५३ नवशीर्षोरुनेत्राभ्यां रणे रुद्धो विनायकः । जर्जरीकृतदेहोऽपि जग्राह परशुं रुषा॥ ५४ तेन चिच्छेद शस्त्राणि तयोराजो गणेश्वरः । रुद्धं गणेश्वरं दृष्ट्वा ताभ्यां संख्येऽथ पण्मुखः॥५५ शीघ्रमागत्य सेनानीर्जघान नवशीर्षकम् । नवशीर्ष रणे हत्वा उरुनेत्रमधावत ॥
* अत्र किंचित्टितमिति प्रतिभाति ।