________________
१७६९
२८ २९
२४६षट्चत्वारिंशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् । सहस्रगणितं पुण्यं सर्वत्र मकरे रबौ । गङ्गायां स्नानमात्रेण लभते मानवो नप ॥ गङ्गां येऽत्रावगाहन्ते माघमासि नरोत्तम । चतुर्युगसहस्राणि न पतन्ति सुरालयात् ॥ शतेन गुणितं माघे सहस्रं राजसत्तम । निर्दिष्टमृषिभिः स्नानं गङ्गायमुनसंगमे ॥ दिने दिने सहस्रं तु सुवर्णानां विशां पते । तेन दत्तं हि गङ्गायां यो माघे नाति मानवः॥ ३० अनडुहां सहस्रं तु अयुतं कापिलं तथा । तेन दत्तं हि गङ्गायां यो माघे स्नाति मानवः ॥ ३१ पापौघभूरिभारस्य दाहार्थे च प्रजापतिः । प्रयागं विदधे भूप प्रजानां च हितेच्छया ॥ ३२ सूनास्थानमिदं सम्यक्सितासितजलं किल । पापरूपपशूनां हि ब्रह्मणा विहितं पुरा ॥ ३३ ब्रह्मोवाच
मा गर्वीरश्वमेधिन्मखदहमिति ब्रह्महन्मा च भैषीः
पातक्यस्मीति पुण्ये महति च दुरिते को मदः का च भीतिः । माघे मासि प्रयागे मकरगतरवौ मज्जतां सज्जमाना
मबिन्दुर्वी धुनीते मदमपि भयमप्यत्र वेदाः प्रमाणम् ।। सितासिते सरिते यत्र संगते तत्राऽऽप्लतासो दिवमुत्पतन्ति ।
ये वै तन्वां विसृजन्ति धीरास्ते जनासो अमृतत्वं भजन्ते ।।
दत्तात्रेय उवाचसितासितेऽपि या धारा सरस्वत्याऽपि गर्भिता । तं मार्ग ब्रह्मलोकस्य सृष्टिकर्ता ससर्ज ह ३६ सितासिते तु यो मजेदपि पापशतावृतः । मकरस्थे रवौ राजन्न स गर्भेषु मज्जति ॥ ३७ दुर्जया वैष्णवी माया देवैरपि सुदुस्त्यजा । प्रयागे दह्यते साऽपि माघे मासि नराधिप ॥ ३८ तेजोमयेषु लोकेषु भुक्त्वा भोगाननेकशः । पश्चाच्चक्रिणि लीयन्ते प्रयागे माघमज्जनात् ॥ ३९ उपस्पृशति यो माघे मारा सितासिते । तस्य पुण्यस्य संख्यां नो चित्रगुप्तोऽपि वेत्त्यलम् ४० संनिमजति यो माघे मकरस्थे सितासिते । तस्य पुण्यस्य माहात्म्यं वक्तुं ब्रह्माऽपि न क्षमः ॥ संवत्सरशतं साग्रं निराहारस्य यत्फलम् । प्रयागे माघमासे च व्यहस्नानाच तत्फलम् ॥ ४२ स्वर्णभारसहस्रेण कुरुक्षेत्रे रविग्रहे । यत्फलं लभते माघे वेण्यां तत्तु दिनत्रये ॥ [*योगाभ्यासेन यत्पुण्यं संवत्सरशतत्रयम् । प्रयागे माघमासे तु व्यहं स्नातस्य तत्फलम्॥४४ राजसूयसहस्रस्य राजन्नविकलं फलम् । सितासितेषु माघे तत्स्नातानां भवति ध्रुवम् ।। ४५ पृथिव्यां यानि तीर्थानि पुर्यः सप्तव याः पुनः। स्नातुमायान्ति वै वेण्यां माघे मासि नराधिप ।। सर्वतीर्थानि कृष्णानि पापिनां सङ्गदोषतः । भवन्ति शुक्लवर्णानि प्रयागे माघमज्जनात् ॥ ४७ आकल्पसंचितं पापं जन्मभिर्यनराधिप । तद्भवेद्भस्मसान्माघे स्नातानां तु सितासिते ॥ १८ वाङ्मनःकायजं पापं नरस्य सुदृढं भवेत् । प्रयागे माघमासे तु व्यहस्तानेन तत्क्षयः ॥ ४९ प्रयागे माघमासे वै यस्त्र्यहं स्नाति मानवः । पापं त्यक्त्वा दिवं याति जीर्णा त्वचमिवोरगः॥ कुरुक्षेत्रसमा गङ्गा यत्र कुत्रावगाहिता । तस्मादशगुणा राजन्यत्र विन्ध्येन संगता ॥ ५१ तस्माच्छतगुणा गङ्गा काश्यामुत्तरवाहिनी । काश्याः शतगुणा प्रोक्ता गङ्गायमुनसंगमे ॥ ५२
४३
* अयं श्लोकः ख. पुस्तकस्थः । झ. मितस्य या । २ ख. ज. स. र. ल. वो माये न स ।