________________
२४५पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् । न कुर्वन्ति क्रियां कांचिदणुमात्रां च योगिनः । दृष्टज्ञाना असंदेहाश्चिद्विचारविशारदाः ॥१२४ एवं ते तव विप्रस्य पूर्वमष्टमजन्मनि । तिष्ठतो मत्स्यदेशेषु पुत्रदारकुटुम्बिनः ॥ १२५ गेहं च तावकं जग्मुर्मध्याह्ने क्षुत्पिपासिताः । वैश्वदेवान्तरे काले त्वया दृष्टा गृहाङ्गणे ॥ १२६ सगद्दं साश्रुनेत्रं सहर्ष च ससंभ्रमम् । दण्डवत्पणिपातेन बहुमानपुरःसरम् ॥ १२७ प्रणम्य चरणों स्पृष्ट्वा कृत्वा पाणियुगाञ्जलिम् । त्वयाऽभिनन्दिताः सर्वे तथा मूनृतया गिरा।। अद्य मे सफलं जन्म जीवितं च सुजीवितम् । अब विष्णुः प्रसन्नो मे सनाथोऽस्म्यद्य पावितः धन्योऽस्मि मे गृहं धन्यं धन्या मेऽद्य कुटुम्बिनी । ममाद्य पितरौ धन्यौ धन्या गावः श्रुतं धनम् यदृष्टौ भवतां पादौ तापत्रयहरौ मया । भवतां दर्शनं यस्मादन्योऽस्म्यद्य हरेरिव ॥ १३१
दूत उवाचएवं संपूज्य तेषां च चरणक्षालितोदकम् । धृतं मूर्ध्नि विशां श्रेष्ठ श्रद्धया परया मुदा ॥ ११२ यतिपादोदकं वैश्य हन्त्यपुण्यं पुरातनम् । शतजन्मार्जितं सत्यं श्रद्धया शिरसा धृतम् ॥ १३३ गन्धपुष्पाक्षतेधूपैर्नीराननपुरःसरम् । संपूज्य संस्कृतैरन्नै जिता यतयस्त्वया ॥ १३४ [*तृप्ताः परमहंसास्ते विश्रान्ता मन्दिरे निशि । ध्यायन्तश्च परं ब्रह्म यज्ज्योतिज्योतिषां वरम् तेषामातिथ्यजं पुण्यं जातं ते यद्विशां वर । न तद्वक्त्रसहस्रेण वक्तुं शक्तोऽस्म्यहं खलु] १३६ भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः । बुद्धिमत्सु नराः श्रेष्ठास्तेषु च ब्राह्मणास्तथा ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः। कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवादिनः॥ १३८ अत एव हि पूज्यास्ते यस्माच्छ्रेष्ठा जगत्रये । तत्संगतिविशां श्रेष्ठ महापातकनाशिनी ॥ १३९ विश्रान्तास्तव गेहे वे सत्त्वस्था ब्रह्मवादिनः। आजन्मसंचितं पापं नाशयन्ति क्षणेन ते १४० संचितं यगृहस्थस्य पापमामरणान्तिकम् । भस्मीकृत्य च तत्सर्वमेकरात्रोषितो यतिः॥ १४१ इति ते संचितं पुण्यमष्टमे पूर्वजन्मनि । त्वद्धात्रे देहि तत्पुण्यं नरकायेन मुच्यते ॥ १४२
श्रीदत्तात्रेय उवाच6. इति दूतवचः श्रुत्वा ददौ पुण्यं स सत्वरम् । हृष्टेन चेतसा भ्रात्रे निरयात्सोऽपि निर्गतः १४३ दवस्तो पुष्पवर्षेण पूजितौ च दिवं गतौ । ताभ्यां संपूजितः सम्यग्गतो दूतो यमालयम् ॥१४४
अखिलजनसुबोधं देवदूतस्य वाक्यं निगमवचनतुल्यं वैश्यपुत्रो निशम्य ।।
स्वकृतसुकृतदानाद्भातरं मोचयित्वा सुरपतिरिव लोकं तेन साध जगाम ॥ १४५ 'इतिहासमिमं राजन्यः पठेच्छृणुयादपि । स गोसहस्रदानस्य विपापो लभते फलम् ] ॥ १४६
इति श्रीमहापुराणे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्टदिलीपसंवादे सु(श्री)कुण्डलविकुण्डलस्वर्गप्राप्तिकथनं
नाम पश्चचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४५ ॥ (२७)
आदितः श्लोकानां समष्ट्यङ्काः-४४५१७
* धनुश्विकान्तर्गतः पाठः, र. ल. पुस्तकस्थः । + भयं श्लोको र. ल. पुस्तकस्थः ।