________________
१७६६ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेप्रियाया दश वैश्यैतान्समुद्धरति निश्चितम् । ते द्वंद्वसङ्गनिर्मुक्ता नागारिकृतकेतनाः ॥ ९४ । स्रग्विणः पीतवसनाः प्रयान्ति हरिमन्दिरम् । बाल्यत्वे यौवनत्वे वा वृद्धत्वे वा विशां वर॥९९ उपोष्यैकादशीं नैव याति पापोऽपि दुर्गतिम् । उपोष्येह त्रिरात्राणि कृत्वा वा तीर्थमज्जनम् ॥ दत्त्वा हेमतिलान्गाश्च स्वर्गतिं याति मानवः। तीर्थे स्नाति न यो वैश्य न दत्तं काञ्चनं तु यः॥ नैव तप्तं तपः किंचित्ते स्युः सर्वत्र दुःखिताः । संक्षिप्य वच्मि ते धर्म नरकस्य निवारकम् १०२ अद्रोहः सर्वभूतेषु वामनःकायकर्मभिः । इन्द्रियाणां निरोधश्च दानं च हरिसेवनम् ॥ १०३ वर्णाश्रमक्रियाणां च पालनं विधिवत्तथा । स्वर्गार्थी सर्वदा वैश्य तपो दानं न कीर्तयेत् ॥१०४ यथाशक्ति सदा दद्यादात्मनो हितमिच्छता । उपानच्छत्रवस्त्रादि ह्यन्नं मूलं फलं जलम् ।। १०५ अवन्ध्यं दिवसं कुर्यादरिद्रोऽपि विशां वर । इहलोके परे चैव नादत्तमुपतिष्ठति ॥ १०६ । [*इति मत्वा सदा चैव दातव्यं तु स्वशक्तितः । दातारो नैव पश्यन्ति तां तां हि यमयातनाम् । दीर्घायुषो धनाढ्यास्ते भवन्तीह पुनः पुनः । किमत्र बहुनोक्तेन यान्त्यधर्मेण दुर्गतिम् ॥ १०८ आरोहन्ति दिवं धर्मेनराः सर्वत्र सर्वदा । तेन बालत्वमारभ्य कर्तव्यो धर्मसंग्रहः ॥ इति ते कथितं सर्व किमन्यच्छ्रोतुमिच्छसि ॥
विकुण्डल उवाचश्रुत्वा तव वचः सौम्य प्रसन्नं मम मानसम् । गणेव तापहं दूत पापहारि सतां वचः॥ ११० उपकर्तुं प्रियं वक्तुं गुणो नैसर्गिकः सताम् । शीतांशुः क्रियते येन शीतलोऽमृतमण्डलः ॥ १११ देवदूत ततो ब्रूहि कारुण्यान्मम पृच्छतः । नरकान्निर्गतिः सद्यो भ्रातुर्मे जायते कथम् ॥ ११२
श्रीदत्तात्रेय उवाचइति तस्य वचः श्रुत्वा देवदूतो जगाद तम् । ज्ञानदृष्ट्या क्षणं ध्यात्वा तन्मैत्रीकृतबन्धनः ११३
दूत उवाचगते वैश्याष्टमे पुण्यं त्वया जन्मनि संचितम् । तदात्रे दीयतां शीघ्रं स्वर्ग तस्य यदीच्छसि ११४ ।
विकुण्डल उवाचकिं तत्पुण्यं कथं जातं किंजन्माऽहं पुराऽभवम् । तत्सर्वं कथ्यतां दूत ततो दास्यामि सत्वरम् ११५ ।
देवदूत उवाचशृणु वैश्य प्रवक्ष्यामि तत्पुण्यं च सहेतुकम् । पुरा मधुवने पुण्ये ऋषिरासीद्विशालिकः ॥ ११६ तपोध्ययनसंपन्नस्तेजसा ब्रह्मणा समः । जज्ञिरे तस्य रेवत्यां नव पुत्रा ग्रहा इव ॥ ११७ ध्रुवः शशी बुधस्तारो ज्योतिष्मानत्र पञ्चमः । अग्निहोत्रप्रिया ह्येते गृहधर्मेषु रेमिरे ॥ ११८ निर्मोहो जितमायश्च ध्यानकामो गुणातिगः । एते गृहविरक्ता हि चत्वारो द्विजसूनवः ॥११९ चतुर्याश्रममापन्नाः सर्वकर्मविनिस्पृहाः । ग्रामैकनिलयाः सर्वे निःसङ्गा निरुपद्रवाः॥ १२० निःशिखा नोपवीताश्च समलोष्टाश्मकाञ्चनाः । येन केनचिदाच्छन्ना येन केनचिदाशिताः ॥ सायंगृहास्तथा नित्यं ब्रह्मध्यानपरायणाः। जितनिद्रा निराहाराः शीतवातसहिष्णवः ॥ १२२ पश्यन्तो विष्णुरूपेण जगत्सर्व चराचरम् । चरन्ति लीलया पृथ्वीं तेऽन्योन्यं मौनमाश्रिताः ॥
* इदमधे र. ल. पुस्तकस्थम् । र. ल. सांच्च शाकालः । त'।