________________
२४५पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१७६५
६७
७०
७५
७८
सकृदभ्यर्चिते लिङ्गे शालग्रामशिलोद्भवे । मुक्तिं प्रयान्ति मनुजाः सांख्येनापि विवर्जिताः ।। ६६ शालग्रामशिलारूपी यत्र तिष्ठति केशवः । तत्र देवासुरा यक्षा भुवनानि चतुर्दश || शालग्रामशिलाग्रे हि यः श्राद्धं कुरुते नरः । पितरस्तस्य तिष्ठन्ति तृप्ताः कल्पशतं दिवि ॥ ६८ ये पिबन्ति नरा नित्यं शालग्रामशिलाजलम् । पञ्चगव्यसहस्रैस्तु प्राशितैः किं प्रयोजनम् ॥ ६९ शालग्रामशिला यत्र तत्तीर्थ योजनत्रयम् । तत्र दानं च होमश्च सर्व कोटिगुणं भवेत् ॥ [*शालग्रामशिलातोयं चत्राङ्कितशिलाजलैः । मिश्रितं पिवते यस्तु देहे शिरसि धारयेत् ॥ ७१ तस्य चक्राङ्कितो देवो भवेन्नास्त्यत्र संशयः । गुप्तं न पश्यते कोऽपि लोके सूर्यसुतं विना ॥ ७२ अतो न्यवारयहूतान्वैष्णवानां गृहोत्तमे । भीतो वैष्णवभक्तानां पादोदकनिषेवणात् ॥ ७३ त्रिरात्रफलदो माघो याः काश्चिदसमुद्रगाः । समुद्रगास्तु पक्षस्य मासस्य सरितां पतिः ॥ ७४ षण्मासफलदा गोदा वत्सरस्य तु जाह्नवी । पादोदकं भगवतो द्वादशाब्दफलप्रदम् ॥ कोटितीर्थसहस्रैस्तु सेवितैः किं प्रयोजनम् । तोयं यदि भवेत्पुण्यं शालग्रामसमुद्भवम् ] ॥ ७६ शाळग्रामशिलातोयं यः पिवेद्विन्दुमात्रकम् । मातुः स्तन्यं पिवेन्नैव स भवेन्मुक्तिभाङ्नरः ॥७७ शालग्रामसमीपे हि क्रोशमात्रं समीपतः । कीटकोऽपि मृतो याति वैकुण्ठभवनं तथा ॥ शालग्रामशिलाचक्रं यो दद्यादानमुत्तमम् । भूचक्रं तेन दत्तं स्यात्सशैलवनकाननम् ॥ शालग्रामशिलायास्तु मौल्यमुत्पादयेन्नरः । विक्रेता चानुमन्ता च यः परीक्ष्यानुमोदते ॥ सर्वे ते नरकं यान्ति यावदाभूतसंप्लवम् । अतस्तं वर्जयेद्वैश्य चक्रस्य क्रयविक्रयम् ॥ बहुनोक्तेन किं वैश्य कर्तव्यं पापभीरुभिः । स्मरणं वासुदेवस्य सर्वपापहरं सदा ॥ तपस्तप्त्वा नरो घोरमरण्ये नियतेन्द्रियः । यत्फलं समत्रामोति तन्नत्वा गरुडध्वजम् ॥ कृत्वाऽपि बहुशः पापं नरो मोहसमन्वितः । न याति नरकं नत्वा सर्वपापहरं हरिम् ॥ पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च । तानि सर्वाण्यवाप्नोति विष्णोर्नामानुकीर्तनात् देवं शार्ङ्गधरं विष्णुं ये प्रपन्नाः परायणम् । न तेषां यमसालोक्यं न ते हि नरकौकसः । ८६ वैष्णवः पुरुषो वैश्य शिवनिन्दां करोति यः । न विन्देद्वैष्णवं लोकं स याति नरकं ध्रुवम् ||८७ उपोष्यैकादशीमेकां प्रसङ्गेनापि मानवः । न याति यातनां यामीमिति नो यमतः श्रुतम् ॥ ८८ नेदृशं पावनं किंचित्रिषु लोकेषु विद्यते । उभयं पद्मनाभस्य दिनं पातकनाशनम् ॥ तावत्पापानि देहेऽस्मिन्वसन्तीह विशां वर । यावन्नोपवसेज्जन्तुः पद्मनाभशुभं दिनम् ॥ अश्वमेधसहस्राणिं वाजपेयशतानि च । एकादश्युपवासस्य कलां नार्हन्ति षोडशीम् ॥ एकादशेन्द्रियैः पापं यत्कृतं वैश्य मानवैः । एकादश्युपवासेन तत्सर्व विलयं व्रजेत् ॥ एकादशीसमं किंचित्पुण्यं लोके न विद्यते । व्याजेनापि कृता यैस्तु वशं यान्ति न भास्करैः ९३ स्वर्गमोक्षप्रदा ह्येषा शरीरारोग्यदायिनी । सुकलत्रप्रदा ह्येषां जीवत्पुत्रप्रदायिनी ॥ न गङ्गा न गया वैश्य न काशी न च पुष्करम् । न चापि वैष्णवं क्षेत्रं तुल्यं हरिदिनेन तु ॥ ९५ यमुना चन्द्रभागा च तुल्यं (ल्या) हरिदिनेन तु (न) । अनायासेन येनात्र प्राप्यते परमं पदम् ९६ रात्रौ जागरणं कृत्वा समुपोष्य हरेर्दिनम् । दश वै पैतृके पक्षे मातृके दश पूर्वजान् ||
८९
९०
९१
९२
९४
९७
* धनुश्चिहान्तर्गत: पाठो र. ल. पुस्तकस्थोऽसंगतश्च ।
१ र. ल. 'णि राजसूय । २ र. ल. 'रे: । सर्वभोग । ३ र 'षा सुपुत्र'।
७९
८०
८१
८२
८३
८४