________________
१७५८ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेविकुण्डल उवाचआबाल्यान्मम पापेषु सततं रमते मनः । अस्मिञ्जन्मनि हे दूत दुष्कृतं हि कृतं मया ॥ ५४ देवदूत न जानामि सुकृतं कर्म चाऽऽत्मनः। यदि जानासि तत्पुण्यं तन्ममाऽऽचक्ष्व पृच्छतः ५५
देवदूत उवाचशृणु वैश्य प्रवक्ष्यामि यत्त्वया पुण्यमर्जितम् । जानामि तदहं सर्व न त्वं वेत्थ सुनिश्चितम् ॥५६ हरिमित्रसुतो मित्रः सुमित्रो वेदपारगः । आसीत्तस्याऽऽश्रमः पुण्यो यमुनादक्षिणे तटे ॥ ५७ तेन सख्यं वने तस्मिंस्तव जातं विशां वर । तत्सङ्गेन त्वया स्नातं माघमासद्वयं तथा ॥ ५८ कालिन्दीपुण्यपानीये सर्वपापहरे वरे । तत्तीर्थे लोकविख्याते नाम्ना पापप्रणाशने ॥ ५९ एकेन सर्वपापेभ्यो विमुक्तस्त्वं विशां वर । द्वितीयमाघपुण्येन स्वर्गप्राप्तिस्तवानघ ॥ ६० त्वं तत्पुण्यप्रभावेन मोदस्व सततं दिवि । नरकेषु तव भ्राता सहतां यमयातनाम् ॥ ६१ छिद्यमानोऽसिपत्रैश्च भिद्यमानश्च मुद्गरैः । चूर्ण्यमानः शिलापृष्ठे तप्ताङ्गारेषु भर्जितः ॥ ६२
श्रीदत्तात्रेय उवाचइति दूतवचः श्रुत्वा भ्रातृदुःखेन दुःखितः । पुलकाङ्कितसर्वाङ्गो दीनोऽसौ विनयान्वितः ॥ उवाच देवदूतं तं सान्त्वयनिपुणं वचः ।।
विकुण्डल उवाचमैत्री साप्तपदी साधो सतां भवति सत्फला । मित्रभावं विचिन्त्य त्वं मामुपाकर्तुमर्हसि ॥ ६४ त्वत्तोऽहं श्रोतुमिच्छामि सर्वज्ञस्त्वं मतो मम । यमलोकं न पश्यन्ति कर्मणा येन मानवाः ॥ गच्छन्ति निरयं येन तन्मे त्वं कृपया वद ॥
यमदूत उवाचसम्यक्पृष्टं त्वया वैश्य लुप्तपापोऽसि सांप्रतम् । विशुद्ध हृदये पुंसां बुद्धिः श्रेयसि जायते ॥६६ यद्यप्यवसरो नास्ति मम सेवापरस्य च । तथाऽपि च तव स्नेहात्मवक्ष्यामि यथामति ॥ ६७ कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा । परपीडां न कुर्वन्ति न ते यान्ति यमालयम् ॥ ६८ न वेदैर्न च दानश्च न तपोभिर्न चाध्वरैः । कदाचित्सद्गतिं यान्ति पुरुषाः प्राणिहिंसकाः ॥६९ अहिंसा परमो धर्मस्त्वहिंसा परमं तपः । अहिंसा परमं दानमित्यूचुर्मुनयः सदा ॥ ७० मशकान्मत्कुणान्दंशान्यूकादिप्राणिनः सदा । आत्मौपम्येन रक्षन्ति मानवा ये दयालवः ॥७१ तप्ताकारमयं कीलमार्ग प्रेततरङ्गिणीम् । दुर्गतिं नैव यास्यन्ति कृतान्तस्य च ते नराः॥ ७२ भूतानि येऽत्र हिंसन्ति जलस्थलचराणि च । जीवनार्थ नरा यान्ति कालसूत्रं च दुर्गतिम् ॥७३ स्वमांसभोजनास्तत्र पूयशोणितफेनपाः । मजन्तश्च वसापके दष्टाः कीटैरयोमुखैः ॥ ७४ परस्परं च खादन्तो ध्वान्ते चान्योन्यघातिनः । वसन्ति कल्पमेकान्ते रुदन्तो दारुणस्वरम् ७५ नरकानिगेता वैश्य स्थावराः स्युश्चिरं तु ते । ततो गच्छन्ति ते क्रूरास्तिर्यग्योनिशतेषु च ॥७६ पश्चाद्भवन्ति जात्यन्धाः काणाः कुब्जाश्च पनवः । दरिद्रा अङ्गहीनाश्च मनुष्याःप्राणिहिंसकाः ।। तस्माद्वैश्य परद्रोहं कर्मणा मनसा गिरा । लोकद्वयहितेच्छुर्यो धर्मतो वै स नाऽऽचरेत् ॥ ७८ लोकद्वये न विन्दन्ति सुखानि प्राणिहिंसकाः। ये न हिंसन्ति भूतानि ते न बिभ्यति कुत्रचित् पविशन्ति यथा नद्यः समुद्रमृजुवक्रगाः । सर्वेऽधर्माश्च हिंसायां प्रविशन्ति तथा दृढम् ॥ ८०