________________
२४२ द्विचत्वारिंशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१७५९
मूर्छयन्ती स्वरं षड्जं सुस्निग्धं कोमलं कलम् । इत्थं तिलोत्तमा बाला तिष्ठन्त्यशोककानने ६२ दृष्टा दैत्यभरिन्दोः कलेव सुखदायिनी । तां दृष्ट्वा विस्मितै राजन्समेतैः सैनिकैर्भृशम् ॥ ६३ त्वरमाणैश्च दृष्ट्वैव गत्वा सुन्दोपसुन्दयोः । कथिता संभ्रमेणैव वर्णयित्वा पुनः पुनः ॥ ६४
सैनिका ऊचुः
हे दैत्यौ न विजानीमो दैवी वा दानवी नु किम् । नागाङ्गना वा यक्षी वा स्त्रीरत्नं सर्वथा हिसा युवां रत्नभुजौ लोके रत्नभूता च साऽबला । वर्तते नातिवरेऽग्रे शोके शोकहारिणी || गत्वा तां पश्यतं नूनं मन्मथस्यापि मोहिनीम् ||
६६
दत्तात्रेय उवाच
इति सेनापतीनां तौ श्रुत्वा वाचं मनोहराम् । चषकं मीधुनस्त्यक्त्वा विहाय जलसेचनम् ॥ ६७ उत्तमस्त्रीसहस्राणि त्यक्त्वा तस्माज्जलाशयात् । शतभारायसीं घोरां कालदण्डोपमां गदाम् ६८ भिन्नां भिन्नां गृहीत्वा तौ जवेनातिप्लुतं गतौ । यत्र शृङ्गारसज्जा सा हन्तुं चण्डीव तौ स्थिता राजन्संधुक्षयन्तीव दैत्ययोर्मन्मथानलम् । स्थित्वा तस्याः पुरो जाल्मौ तपेणातिमोहितौ ॥ विशेषान्मधुना मत्तावूचतुच परस्परम् ॥
७०
--
सुन्दोपसुन्दावूचतु:
भ्रातर्विरम भार्येयं ममास्तु वरवर्णिनी । त्वमेवाऽऽयं त्यजेमां मे भार्याऽस्तु मदिरेक्षणा ॥ ७१
दत्तात्रेय उवाच
७२
७३
७४
इत्याग्रहेण संरब्धौ मातङ्गाविव सोन्मदौ । अन्योन्यकालसंदिष्टौ गदया जघ्नतुश्च तौ ॥ परस्परप्रहारेण गतासू पतितौ भुवि । तौ मृतौ सैनिकैर्दृष्ट्वा कृतः कोलाहलो महान् ।। कालरात्रिसमा केयं हा किमेतदुपस्थितम् । एवं वदत्सु दैत्येषु दैत्यो सुन्दोपसुन्दकौ ॥ पातयित्वा गिरेः शृङ्गे ह्रादिनीव तिलोत्तमा । प्रस्थिता गगनं शीघ्रं द्योतयन्ती दिशो दश ।। ७५ देवकार्य ततः कृत्वा गता मा ब्रह्मणोऽन्तिकम् । ततस्तुष्टेन देवेन विधिना साऽनुमोदिता ॥ ७६
ब्रह्मोवाच
स्थानं सूर्यरथे दत्तं तव चन्द्रानने मया । भुङ्क्ष्व भोगाननेकांस्त्वं यावत्सूर्योऽम्बरस्थितः ॥७७ दत्तात्रेय उवाच
इत्थं सा ब्राह्मणी राजन्भूत्वा चाप्सरसां वरा । भुङ्क्तेऽद्यापि खेर्लोके माघस्नानफलं महत् ॥ ७८ तेन प्रयत्नतो राजञ्श्रद्दधानैः सदा नरैः । स्नातव्यं मकरादित्ये वाञ्छद्भिः परमां गतिम् ॥ ७९ अनवाप्तो न तस्यास्ति पुरुषार्थोऽपि कश्चन । नाक्षीणं पातकं तस्य माघे मज्जति यो नरः ||८०
इति श्रीमहापुराणे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे तिलोत्तमाख्यानं नाम द्विचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४२ ॥ ( २४ )
आदितः श्लोकानां ममथ्र्यङ्काः - ४४१८२