________________
१७४३
२३९ एकोनचत्वारिंशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
कमलभवनपूज्यस्तत्र कल्पावसाने पुनरपि भुवि जातः शिष्टवंशेऽभिजातः । प्रतनियमसमेतो माघमासे यथावन्मृतिमलभत काश्यां सुव्रतो भूसुरेन्द्रः॥ इति श्रीमहापुराणे पान उत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे सुव्रतोपाख्यान
मामाष्टात्रिंशदधिकद्विशततमोऽध्यायः॥ २३८ ॥ (२०) आदितः श्लोकानां समष्टयङ्काः-४३८४१
८६
अथैकोनचत्वारिंशदधिकद्विशततमोऽध्यायः ।
वसिष्ठ उवाचशृणु राजन्पुनर्माधवैभवं कथयामि ते । सर्वेषामेव [*मासानां माघमासः परः स्मृतः ॥ १ माघमासस्य माहात्म्यं कस्य मासस्य विद्यते । संप्राप्ते माघमासे तु तपखि जनवल्लभे॥ २ तस्मिन्क्रोशन्ति पापानि समुद्गच्छति भास्करे । पुनन्ति सर्वपापानि विविधानि न संशयः ॥३ ब्रह्महत्यादिपापानि माघमासे पुनन्ति हि । दुर्लभो माघमासस्तु बहुपुण्यप्रदः सदा ॥ ४ देवैस्तेजः परिक्षिप्तं माघमासजले सदा । अतः पवित्रं हि जलमशेपाघौघनाशनम् ।। ५ नेशी चापरा पुंभिर्गतिः प्राप्ता सुखावहा । यादृशी माघमासे च प्राप्यते नियमस्थितैः ॥ ६ तस्मिनिर्झरतोयेषु प्रशस्तं स्नानमुच्यते । वापीतटाकेषु पुनर्मध्यमं तु प्रचक्षते ॥ गृहे स्नानं च माघे तु श्रेयोर्थी न समाचरेत् । माघस्नानं सुशीतेन शस्तं कलुषनाशनम् ॥ ८ न सौख्याल्लभ्यते पुण्यं क्लेशात्पुण्यमवाप्यते । न वह्नि सेवयेत्स्नातः श्रेयोर्थी नियमादिकत् ॥९ स्नातो न सेवयेद्वह्नि शीतार्तस्तु कथंचन । सरितामप्यभावे तु नवकुम्भस्थितं जलम् ॥ १० वायुना ताडितं रात्रौ गङ्गास्नानसमं हि तत् । तन्नास्ति पातकं लोके यन्न स्नानाद्विशोधयेत् ११ अग्निप्रवेशादधिकं माघस्नानं विदुर्बुधाः । व्रतानां क्लेशमात्रं तु स्नातानामक्षयं फलम् ॥ १२ एतस्मात्कारणादेव माघस्नानं विशिष्यते । अहन्यहनि दातव्यास्तिलाः शर्करया सह ॥ १३ माघावसाने सुमनाः पड़मेन द्विजोत्तमान् । भोजयविधिवद्भक्त्या व्रतस्य परिपूर्तये ॥ १४ सों मे प्रीयतां देवो मुक्तिं दद्यानिरञ्जनाम् । दंपत्यावोससी शुक्ले सप्तधान्यं तथैव च ॥ १५ त्रिंशच्च मोदका देयाः कृतास्तिलमयाः शुभाः। भाग एकः शर्करायास्तिलभागास्त्रयस्तथा।।१६ नारिकेलं तथैलाश्च प्रक्षिपेत्तत्र जीरकम् । मरिचैमिलितान्कृत्वा ब्राह्मणेभ्यो निवेदयेत् ॥ १७ अभ्यङ्गं वर्जयित्वा तु माघं नयति यो नरः। तस्यैप विधिरुदिष्टः सर्वपापक्षयावहः॥ १८ ब्राह्मणान्मार्थयेद्भक्त्या स्मरन्देवं सनातनम् । सर्वपापप्रशमनं श्रद्दधानः समाहितः ॥ १९ सवित्रे प्रसवित्रेति माघस्नायी वरं यतः(?) । भित्चा विम्बं रवेयर्याति तद्विष्णोः परमं पदम् २० मवित्रे प्रसवित्रे च परधाम्ने नमोऽस्तु ते । त्वत्तेजसा परिभ्रष्टं पापं यातु सहस्रधा ॥ एवविधा माघमामस्तपस्विजनवल्लभः । भीमसेनः पुरा धौम्यमपृच्छत्स्वपुरोहितम् ॥ २२
. भीम उवाचकुर्वन्ति मनुनाः सर्वे उपवामं हरेर्दिने । इसन्ति मां सवयसो भुङ्गेऽसौ हरिवासरे ॥ २३
* धनुचिहान्तर्गतः पाठः, टपुस्तक स्थः ।