________________
२३७ सप्तत्रिंशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् । हेतुनिष्ठश्च पञ्चैते न तीर्थफलभागिनः । तीर्थानि च यथोक्तानि विधिना संचरन्ति ये ॥ ३५ सर्वद्वंद्वसहा धीरास्ते नराः स्वर्गगामिनः । तीर्थयात्रां चिकीर्षुः प्राविधायोपोपणं गृहे ॥ ३६ गणेशं च पितृन्विप्रान्साधूशक्त्याऽभिपूज्य च । कृतपारणको हृष्टो गच्छेनियमयुक्गुनः ॥ ३७ आगत्याभ्यर्च्य च पितॄन्यथोक्तफलभाग्भवेत् । न परीक्ष्या द्विजास्तीर्थेष्वन्नार्थी भोज्य एव च।। सक्तुभिः पिण्डदानं च संयावैः पायसेन तु । कर्तव्यमृपिभिदृष्टं पिण्याकेन गुडेन च ॥ ३९ श्राद्धं तत्र तु कर्तव्यमावाइनर्जितम् । काले वाऽप्ययथाकाले तीर्थे श्राद्धं च तर्पणम् ।।४० अविलम्बेन कर्तव्यं नैव विघ्नं समाचरेत् । तीर्थ प्राप्य प्रसङ्गेन स्नानं तीर्थे समाचरेत् ॥ ४१ स्नानजं फलमामोति तीर्थयात्राश्रितं न तु । नृणां पापकृतां तीर्थे पापस्य शमनं भवेत् ॥ ४२ यथोक्तफलदं तीर्थ भवेच्छुद्धात्मनां नृणाम् । पोडशांशं स लभते यः परार्थं च गच्छति ॥ ४३ कुशपतिकृति कृत्वा तीर्थवारिणि मज्जयेत् । मजयेच्च यमुद्दिश्य सोऽटभागं लभेत वै ॥ ४४ तीर्थोपवासः कर्तव्यः शिरसो मुण्डनं तथा । शिरोगतानि पापानि यान्ति मुण्डनतो यतः॥४५ यदह्नि तीर्थमाप्तिः स्यात्ततोऽहः पूर्ववासरे । उपवासस्तु कर्तव्यः परेऽह्रि श्राद्धदो भवेत् ॥ ४६ तीर्थप्रसङ्गात्ततीर्थमप्युक्तं त्वत्पुरो मया । स्वर्गसाधनमेवैतन्मोक्षोपायश्च वै भवेत् ॥ ४७ एवं नियममास्थाय माघमासे व्रती भवेत् । ईदृशीं तीर्थयात्रां तु माघमासे समाचरेत् ॥ ४८ माघस्नायी तु सर्वत्र यत्किंचिद्दानमाचरेत् । बदरीफलं च कदलीफलमामलकीफलम् ॥ ४९ घृतप्रस्थं तिलप्रस्थं ताम्बूलं तण्डुलाढकम् । कूष्माण्डं कुसरं चैव नवैतानि दिने दिने ॥ ५० ब्राह्मणेभ्यः प्रदेयानि माघस्नानपरैर्नरैः । येन केन प्रकारेण अमोघं माघमाचरेत् ॥ ५१ किंचिदभ्युदिते सूर्ये माघस्नानं समाचरेत् । यथाशक्ति च नियमान्माघस्नायी समाचरेत् ॥५२ पकानैर्भोजयेद्विमान्यतीन्द्रांश्च विशेषतः । लड्डुकैः फेणिकाभिश्च वटकेण्डिरिकादिभिः॥ ५३ घृतपकैः समरिचैः शुद्धकर्पूरवासितैः । गर्भे शर्करया पूर्णेनॆत्रानन्दैः सुगन्धिभिः ॥ ५४ शुष्कन्धनानां भारांश्च दद्याच्छीतापनुत्तये । कञ्चुकं तुलगर्भ च तूलिकां चोपवीतिकाम् ॥ ५५ माञ्जिष्ठं रक्तवासांसि तथा तूलवती पटीम् । जातीफललवङ्गैश्च ताम्बूलानि वढून्यपि ॥ ५६ कम्बलानि विचित्राणि निर्वातानि गृहाण्यपि । मृदुलाः पादरक्षाश्च सुगन्ध्युद्वर्तनानि च ॥५७ घृतकम्बलपूजाभिर्माघस्नानपुरःसरम् । कृष्णागरुप्रभृतिभिहागारप्रथापितैः ॥ ५८ स्थूलवर्तिप्रदीपैश्च नैवेद्यैर्विविधैस्तथा । पूजयेन्माधवं देवं माघस्नानफलाप्तये ॥ ५९ 'दोषाः प्रशममायान्ति माघमासनिमज्जनात् । महापापानि सर्वाणि वहुजन्मार्जितान्यपि ॥ ६० सद्यो विलयमायान्ति माघमासनिमज्जनात् । अहो पुंसां महामोहस्त्वहो पुंसां प्रमादता ॥ ६१ माघमासमनादृत्य यदन्यत्र कृतश्रमाः । इदमेव हि माङ्गल्यमिदमेव धनार्जनम् ॥ ६२ जीवितस्य फलं चैतद्यन्माघे मासि मजनम् । न माघात्परमो धर्मो नार्थो माघात्परस्तथा ॥६३ माघादन्यो न कामोऽस्ति मोक्षो माघं विना न हि । इयमेव परा हानिरुपसर्गोऽयमेव हि॥६४ अभाग्यं परमं चैतन्माघस्नानं न यच्चरेत् । माघस्नानं मनुष्याणां किं किं न कुरुने वत ।। पुत्रमित्रकलत्रादिराज्यस्वर्गापवर्गदम् ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे माघस्नानविधानं नाम
सप्तत्रिंशदधिकद्विशततमोऽध्यायः ॥ २३७ ॥ ( १९) आदितः श्लोकानां समष्ट्यङ्काः-४३७५५