SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ १७१६ महामुनिश्रीन्यासप्रणीतं [६ उत्तरखण्डेकाल उवाचयावत्य एव गङ्गायां सिकता विप्र दुर्मते । तावन्त एव ब्रह्माणो मया कालेन संहृताः॥ ६९ किंवाऽत्र बहुनोक्तेन पश्य मे विक्रम बलम् । स पातु त्वां महादेवो यस्य दासोऽसि सांप्रतम्॥ वसिष्ठ उवाचतेनैवं गर्जता राजन्कालेनासौ महामुनिः । ग्रस्तुं हठात्समारब्धो राहुणैवं यथा शशी॥ ७१ लिङ्गादथ समुत्तस्थौ मूर्तिमान्परमेश्वरः । अनिर्देश्यवयोरूपश्चन्द्रार्धकृतशेखरः ॥ गर्जन्मेघ इवोदग्रं हुंकृतेन स तत्क्षणात् । उद्धृत्य पादकमलं प्रजहार भुजान्तरे ॥ पादप्रहारचकितो दूरे मृत्युः पपात ह । दूरे पतितमालोक्य कृतान्तं भीषणाकृतिम् ।। मार्कण्डेयोऽथ तुष्टाव तेन स्तोत्रेण शंकरम् ॥ मार्कण्डेय उवाचरत्नसानुशरासनं रजताद्रिशृङ्गनिकेतनं शिञ्जिनीकृतपन्नगेश्वरमच्युतानलसायकम् । क्षिपदग्धपुरत्रयं त्रिदशालयैरभिवन्दितं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ पञ्चपादपपुष्पगन्धिपदाम्बुजद्वयशोभितं भाललोचनजातपावकदग्धमन्मथविग्रहम् । भस्मदिग्धकलेवरं भवनाशिनं भवमव्ययं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥ मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहरं पङ्कजासनपद्मलोचनपूजिताघ्रिसरोरुहम् । देवसिन्धु(सिद्ध)तरङ्गिणीकरसिक्तशीतजटाधरं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ कुण्डलीकृतकुण्डलीश्वरकुण्डलं वृषवाहनं नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम् । अन्धकान्तकमाश्रितामरपादपं शमनान्तकं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥ यक्षराजसखं भगाक्षिहरं भुजंगविभूषणं । शैलराजसुतापरिष्कृतचारुवामकलेवरम् । क्ष्वेडनीलगलं परश्वधधारिणं मृगधारिणं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥ भेषजं भवरोगिणामखिलापदामपहारिणं दक्षयज्ञविनाशिनं त्रिगुणात्मकं त्रिविलोचनम् । भुक्तिमुक्तिफलप्रदं निखिलाघसंघनिवणं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy