SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ f4 ! 7 २३५ पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । कुलोज्ज्वलो गुणनिधिर्ज्वलत्पावकसंनिभः । कृतोपनयनः पित्रा ब्रह्मचर्यपरायणः ॥ अध्यैष्ट वेदानखिलान्मुनिर्गुरुकुले वसन् । गुरुणाऽनुमतः पश्वाद्वितीयाश्रममग्रहीत् || मुद्गलस्य मुनेः कन्यामुपयेमे मरुद्रतीम् । कमलाऽपि ततः कालादसूत सुतमुत्तमम् ॥ आचारेण श्रुतेनैव विद्यया विनयेन च । सर्वतश्चोत्तमो यस्मात्तस्मादुत्तम इत्यभूत् ॥ स पित्रा कृतसंस्कारः कृतोपनयनक्रियः । अधीत्य वेदानखिलानुपयेमे विधानतः ॥ कान्तालकां तां कमनीयरूपां कण्वस्य कन्यां कमलायताक्षीम् । कल्याणशीलां च कुशाभिधानां कुटुम्बिनी साऽभवदुत्तमस्य ॥ १७३१ ५ ७ ܘܕ विमलाऽपि सुतं लेभे सुमतिं नाम विश्रुतम् । सुमतिः सकलान्वेदानधीत्य गृहवानभूत् ॥ ११ सत्याख्या तस्य भार्याऽभूत्सुमतेस्तनया शुभा । सुरसाऽपि ततः कालात्सुव्रतं सुषुवे सुतम् ॥ १२ सुव्रतः सुरसासूनुः सर्वान्वेदानधीत्य च । दक्षिणां गुरवे दत्त्वा द्वितीयाश्रममग्रहीत् ॥ धर्मपत्नी बभूवास्य पृथोः पुत्री प्रियंवदा । सर्वानयाजयत्पुत्रान्क्रतुभिः प्राप्तदक्षिणैः ॥ तेच शुश्रूषया सर्वे नित्यं चक्रुः पितुः प्रियम् || १३ आभिः स्नुषाभिः शुभलक्षणाभिः शुभैः सुतैस्तैः श्रुतिपारगैव । भार्याभिरुत्कृष्टगुणोत्तराभिश्वकार गार्हस्थ्यमुपास्यमानः ॥ १४ १५ १६ १७ १८ १९ सुमतेरुत्तमस्यापि सुव्रतस्य महात्मनः । प्रत्येकमभवन्पुत्रा बहवो वेदपारगाः ॥ भार्याभिश्च स्नुषाभिश्च पुत्रैः पौत्रैरयं मुनिः । माघमासे तु संप्राप्ते प्रातःकाले निमज्जति ॥ मोघं च कुरुते माघं न कदाचिदपि द्विजः । माघमासे तु संप्राप्ते स्नानं दानं शिवार्चनम् ॥ तानि नियमाचैव गृहस्थाश्रमभूषणम् । इति मत्वा द्विजश्रेष्ठो माघे माघे निमज्जति ॥ एवं संसार सौभाग्यमनुभूय महामुनिः । पुत्रेषु भार्या निक्षिप्य समारोप्याग्निमात्मनि ॥ दृष्ट्वाऽपत्यस्य चापत्यं वपुर्दृष्ट्वा च जर्जरम् । तपोनिधिस्तपस्तप्तुं तपोवनमुपेयिवान् ॥ पर्णाशनात्पल्बलवारिपानादुद्वेगतः शर्कर भूमिवासात् । समानधर्मा मृगयूथमध्ये चरंश्विरं ब्रह्मपदं प्रपेदे || संभावितस्तत्र चतुर्मुखेण समेयिवान्सिंहसनाथपीठम् । स्वेनार्जितानप्रतिमाननन्ताल्लोकाननेकान्बुभुजे मुनीन्द्रः ॥ ततः कदाचित्प्रलयावसाने प्राप्ते पुनः श्वेतवराहकल्पे | भूत्वाऽजपुत्रो घृभुनामधेयश्च निदाघाय हितोपदेशम् ॥ चतस्त्रस्तस्य ता भार्याः शीलवृत्तसमन्विताः । पुत्रेषु व्रतचारिण्यो दिनानि कतिचित्स्थिताः २५ ततस्तु चरमे भागे जरया च पलीकृताः । कुब्जा विरलदन्ताश्च प्रनष्टेन्द्रियवृत्तयः ॥ अभूवन्नथ ता दृष्ट्वा मृकण्डुर्मुनिसत्तमः । अनपत्यो मरुद्वत्यामिदमेवाभ्यचिन्तयत् । अहं सदारो गच्छामि मातृभिः सह धूर्जटेः । राजधानीं शिवो यत्र कर्णे जपति तारकम् ।। २८ अथ तद्देशभूपालो नाम्ना राष्ट्रविवर्धनः । काशीयात्रां समुद्दिश्य प्रतस्थे बहुसैनिकैः ॥ तेन सार्थेन महता ते निर्जग्मुः शनैः शनैः ॥ २४ २६ २७ मृकण्डुरुवाच मात्रा पित्रा परित्यक्ता ये स्यक्ता निजबन्धुभिः । येषां कापि गतिर्नास्ति तेषां वाराणसी गतिः २० २१ २२ २३ २९
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy