________________
१७३२
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे
३७
जरया परिभूता ये व्याधिभिर्विकलीकृताः । येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ३१ पदे पदे समाक्रान्ता ये विपरिहर्निशम् । येषां कापि गतिर्नास्ति तेषां वाराणसी गतिः ॥ ३२ संसारपरिभूता ये बद्धा ये कर्मबन्धनैः । येषां कापि गतिर्नास्ति तेषां वाराणसी गतिः ॥ ३३ पापराशिभिराक्रान्ता ये दारिद्र्यपराजिताः । येषां कापि गतिर्नास्ति तेषां वाराणसी गतिः ३४ ये च योगपरिभ्रष्टा ये तपोदानवर्जिताः । येषां कापि गतिर्नास्ति तेषां वाराणसी गतिः ।। ३५ मध्ये बन्धुजनानां तु मानहानिः पदे पदे । तेषामानन्ददं चैकं शंभोरानन्दकाननम् ॥ ३६ आनन्दकानने येषां वसतामसतामपि । विश्वेशानुगृहीतानां स स्यादानन्दजोदयः ॥ भर्ज्यन्ते कर्मवीजानि यत्र विश्वेशवह्निना । अतो महाश्मशानं तद्गतीनां परा गतिः ॥ संसारसर्पदष्टानां जन्तूनां यत्र शंकरः । उभाभ्यामपि पाणिभ्यां ब्रूते ब्रह्म स्पृशञ्श्रुतौ ॥ ३९ न कापिलेन योगेन न सांख्येन न च व्रतैः । या गतिः प्राप्यते पुंभिस्तां दद्यान्मोक्षभूरियम् ४ काशीप्राप्तिरियं योगः काशीप्राप्तिरियं तपः । काशीप्राप्तिरियं दानं काशीप्राप्तिः शिवार्चनम् ४ १ काशीप्राप्तिरियं यागः काशीप्राप्तिस्तु कर्म यत् । काशीप्राप्तिरियं स्वर्गः काशीप्राप्तिरियं सुखम् ।। कः कामः को मदः क्रोधः को लोभः का ह्यहंकृतिः । किं मात्सर्य किमज्ञानं कर्म किं जाड्यता च का का भीतिः कोऽथवा कालः का जरा किंच दुष्कृतम् । किं रजः कोऽन्तरायो वा नृणां काशीनिवासिनाम् ॥
३८
०
४४
वसिष्ठ उवाच –
४५
वदन्नित्थं स्वमातॄणामध्वखेदापनुत्तये । शनैर्वाराणसीं प्राप मृकण्डुः सह मातृभिः ॥ अविलम्ब प्रथमतो मणिकर्ण्य विधानतः । सचैलं स मुनिः स्नात्वा कृतसंध्या दिसत्क्रियः ॥४६ संतर्प्य सर्वदेवर्षीञ्शुचिर्गन्धकुशोदकैः । तीर्थवासार्थिनः सर्वान्संतर्प्य च पृथक्पृथक् ।। अमृतस्वादुपक्वान्नैः पायसैश्च सशर्करैः । सगोरसैरन्नदानैधन्यदानैरनेकधा ।। गन्धचन्दनकर्पूरैस्ताम्बूलैर्वसनैः शुभैः । दीनानाथान्समभ्यर्च्य पश्चादुण्डिविनायकम् ॥ ४९ अन्वलिम्पत्ततो भक्त्या प्राज्यसिन्दूरकर्दमैः । निवेद्य मोदकान्पञ्च वर्जयन्स निजं जनम् ॥ ५० उपसर्गनिसर्गेभ्यस्ततोऽन्तः क्षेत्रमाविशत् । सर्वावरणदेवांश्च पूजयामास शक्तितः ॥
४७ ४८
५१
ततो विश्वेश्वरं देवं नत्वा स्तुत्वा महामनाः । क्षेत्रोपवासं विधिवच्चकार निजमातृभिः ॥ ५२ जागरेण निशां नीत्वा विश्वनाथस्य संनिधौ । प्रभाते विमले स्नात्वा मणिकर्ण्य समाहित: ५ ३ अनुष्ठानमशेषं च निर्वर्त्य नियतः शुचिः । महद्भिर्ब्राह्मणैः सार्धं वेदवेदाङ्गपारगैः ।। ५४ लिङ्गं संस्थापयामास स्वनाम्ना सर्वसिद्धिदम् । प्रत्येकं स्थापयामासुस्ताश्चतस्रोऽस्य मातरः ५५ स्वस्वनाम्नैव लिङ्गानि मुक्तिदानि विलोकनात् । दुण्डिविघ्नेश्वरस्याग्रे मृकण्डीश्वरदर्शनात् ॥ ५६ सिध्यन्ति सर्वकार्याणि काशीवासोऽपि सिध्यति । तस्य लिङ्गस्य पुरतः सुवृत्तेश्वरदर्शनात् ॥ ५७ नाभिभूयेत विघ्नौघैः सुवृत्तो जायते नरः । तस्य प्राच्यां कमलया स्थापितं लिङ्गमुत्तमम् ॥ ५८ तद्विलोकनमात्रेण सर्वकामालभेन्नरः । देहलीविघ्नराजस्य संनिधौ विमलेश्वरः ॥ दर्शनात्तस्य लिङ्गस्य विमलं ज्ञानमाप्नुयात् । ऐशान्यां तस्य लिङ्गस्य सुरसेश्वरवीक्षणात् ॥ ६० अवाप्य सुरसाम्राज्यं काश्यां मुक्तो भविष्यति । मरुद्वत्याऽचितं लिङ्गं मणिकर्ण्यास्तु पश्चिमे ६१ तस्य दर्शनमात्रेण न मर्त्यो जायते पुनः । एवं लिङ्गानि संस्थाप्य तस्थुः काश्यां तु वत्सरम् || पुनः पुनश्च तत्क्षेत्रमतिथीकृत्य नेत्रयोः । विचित्रं च पवित्रं च तृप्तिं नैव जगाम ह ।
५९
६३