________________
महामुनिश्रीव्यासमणीत
[६ उत्तरखण्डे- । कलहो नैव कर्तव्यः प्रणयेन बहिष्कृतः । आत्मार्थ निजबन्ध्वर्थ सपत्न्यर्थ सकोपया ॥ ५३ कलहो न विधातव्यः कल्ययोग्ये प्रिये स्त्रिया। सिता निन्दिताऽत्यर्थ ताडिता प्रेयसी प्रियम् । व्यथिताऽपि भयं त्यक्त्वा कण्ठे गृह्णीत वल्लभम् । उच्चैनै रोदनं कुर्यान्नैवाऽऽक्रोशेज्जनं प्रति ५५ पलायनं न कर्तव्यं निजगेहादहिः स्त्रिया । त्वं पिता त्वं मम भ्राता नेच्छामि त्वामतः परम्॥ विरक्तलक्षणं वाक्यं नेदृग्वाच्यं कदाचन । उत्सवादिषु बन्धूनां सदनं यदि गच्छति ॥ ५७ लब्ध्वाऽनुज्ञां तदा पत्युर्गच्छेदध्यक्षरक्षिता । न वसेत्सुचिरं तत्र प्रत्यागच्छेद्गृहं सती ॥ ५८ प्रस्थानाभिमुखे पत्यौ भवेन्मङ्गलभाषिणी । न वार्योऽसौ निषेधोक्त्या न कार्य रोदनं तदा५९ । अकृत्वोद्वर्तनं नित्यं पत्यौ देशान्तरं गते । वधूर्जीवनरक्षार्थ कर्म कुर्यादनिन्दितम् ॥ ६० कृत्वा वृत्तिं यदा भर्ता बजेद्देशान्तरं तदा । पतिकल्पितवृत्त्यैव वर्तेत गृहमेधिनी ॥ ६१ श्वश्रूश्वशुरयोः पार्थे निद्रा कार्या न चान्यतः । प्रत्यहं पतिवार्ता च तयाऽन्वेष्या प्रयत्नतः ६२ दूताः प्रस्थापनीयाश्च पत्युः क्षेमोपलब्धये । देवतानां प्रसिद्धानां कर्तव्यमुपयाचनम् ॥ ६३ एवमादि विधातव्यं सत्या प्रोषितयोषया । अप्रक्षालनमङ्गानां मलिनाम्बरधारणम् ॥ ६४ तिलकाञ्जनहीनत्वं गन्धमाल्यविवर्जनम् । नखरोम्णामसंस्कारो दशनानाममार्जनम् ॥ ६५ ताम्बूलचर्वणालस्यमतिकश्मलता स्त्रियाः। बहालस्यं सदानिद्रा कलहे सर्वदा रुचिः॥ ६६ । उच्चैर्हासोऽपरैर्नर्म परचेष्टाविचिन्तनम् । स्वेच्छापर्यटनं चैव परपुंसोऽङ्गमर्दनम् ॥ ६७ अटनं चैकवस्त्रेण निर्लज्जत्वं वृथागतिः । इत्यादिदोषाः कथिता योपितो भर्तृदुःखदाः॥ ६८ निवर्त्य गृहकार्याणि हरिद्रालेपनैस्तनुम् । प्रक्षाल्य शुचितोयेन कुर्यान्मण्डनमुज्ज्वलम् ॥ ६९ समीपं प्रेयसो गच्छेद्विकसन्मुखपङ्कजा । अनेन नारी वृत्तेन मनोवाग्देहसंयता ॥ इहाव्यां कीर्तिमामोति पतिलोके परत्र च ॥
नैतादृशं दैवतमस्ति किंचित्सर्वेषु लोकेषु सदैवतेषु । यदा पतिस्तुष्यति सर्वकामाल्भ्यात्मकामं कुपितश्च हन्यात् ॥ तस्मादपत्यं विविधाश्च भोगाः शय्यासनान्यद्भुतदर्शनानि । वस्त्राणि माल्यानि तथैव गन्धाः स्वर्गश्च लोको विविधा च कीर्तिः ॥ ७२ इत्यादिधर्मनयनीतिगुणोत्तराभिस्ताभिः सहैव चिरकालमतौ मुनीन्द्रः। संसारसौख्यनियतोऽप्यमलान्तरात्मा चक्रेऽतिरात्रचयनक्रतुवाजपेयान् ॥ ७३ इति श्रीमहापुराणे पाद्य उत्तरखण्डे माघमाहात्म्ये वसिष्टदिलीपसंवादे पतिव्रतालक्षणाख्यानं
नाम चतुर्विशदधिकद्विशततमोऽध्यायः ॥ २३४ ॥ (१६)
आदितः श्लोकानां समष्ट्यङ्काः-४३५१७
भय पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ।
वसिष्ठ उवाचएवं गृहे निवसतो मृगशृङ्गमहामुनेः । कालेन महिषी तस्य सुवृत्ता सुषुवे सुतम् ॥ ततः पितृऋणान्मुक्तः कृतार्थो मुनिपुंगवः । जातकर्म कुमारस्य सम्यक्चक्रे विधानवत् ॥ २ घकार नामकरणं त्रिकालज्ञो महामतिः। भविष्यकर्मसदृशं मृकण्डुमिति विश्रुतम् ॥ ३ पदिशङ्का मृगगणाः कण्डूयन्तेऽस्य विग्रहे । तस्मान्मृकण्दुरित्यस्य नाम चक्रे पिता स्वयम् ॥ ४