________________
१७२९
२३४ चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । प्रत्युत्थायाभिनन्देत चाऽऽसनेनोदकेन च । प्रसन्नभाण्डा मृष्टान्ना काले भोजनदायिनी ॥ २० संयता गुप्तधान्या च सुसंमृष्टनिवेशना । गुरूणां पुत्रमित्राणां बन्धूनां कर्मकारिणाम् ॥ २१ आश्रितानां च भृत्यानां दासीदासजनेषु च । अतिथ्यभ्यागतानां च भिक्षुकाणां च लिङ्गिनाम् आसने भोजने दाने संमाने प्रियभाषणे । तत्तद्गुणानुसारेण प्राप्ते काले यथोचितम् ॥ २३ दक्षया सर्वदा भाव्यं भार्यया गृहमुख्यया । गृहव्ययाय यद्रव्यं दिशेत्पत्न्याः करे पतिः ॥२४ निर्वर्त्य गृहकार्य सा किंचिबुद्ध्याऽवशेषयेत् । त्यागार्थपिते द्रव्ये लोभात्किचिन्न धारयेत् २५ भर्तुराज्ञां विना नैव स्वबन्धुभ्यो दिशेद्धनम् । अन्यालापमसंतोषं परव्यापारसंकथाः ॥ २६ अतिहासातिरोषौ च क्रोधस्थानं च वर्जयेत् । यच्च भर्ता न पिबति यच्च भर्ता न खादति ॥२७ यच्च भर्ता न चाश्नाति सर्व तद्वर्जयेत्सती । तैलाभ्यङ्गं तथा स्नानं शरीरोद्वर्तनक्रियाम् ॥ २८ मार्जनं चैव दन्तानामलकानां च वर्तनम् । भोजनं चाऽऽसनं निद्रां परिधानं च वाससाम् २९ [*भारम्भं मण्डनानां च न कुर्यात्मोषिते प्रिये । त्रेताप्रभृति नारीणां मासि मास्यातवं नृप] ॥ प्रथमेऽहनि चाण्डाली यथा वा तथाऽङ्गना। द्वितीयेऽहनि विप्रा हि (भूपाल) यथा वै ब्रह्मघातिनी तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति । स्नानं शौचं तथा गानं रोदनं हसनं तथा ॥ ३२ यानमभ्यञ्जनं नारी द्यूतं चैवानुलेपनम् । दिवा स्पमं विशेषेण तथा वै दन्तधावनम् ॥ ३३ मैथुनं मानसं वाऽपि वाचिकं देवतार्चनम् । वर्जयेच्च नमस्कारं देवतानां रजस्वला ॥ ३४ रजस्वलायाः संस्पर्श संभाष च तया सह । संत्यागं(?) चैव वस्त्राणां वर्जयेत्सर्वयत्नतः ॥ ३५ स्नात्वाऽन्यं पुरुषं नारी न पश्येच्च रजस्वला । ईक्षेत भास्करं देवं ब्रह्मकूर्च ततः पिवेत ॥ ३६ केवलं पञ्चगव्यं वा क्षीरं वाऽऽत्मविशुद्धये । यथोपदेशं नियता वर्तेत च वराङ्गना ॥ ३७ अलंकृता सुप्रयता भर्तुः प्रियहिते रता । गर्भिणी चेद्यथा नारी नियमेन समाचरेत् ॥ ३८ कृतरक्षा सुभूषा च वास्तुपूजनतत्परा । तिष्ठेत्प्रसन्नवदना भर्तुः प्रियहिते रता ॥ १९ कुस्त्रीभिर्नाभिभाषेत शूर्पवातं विवर्जयेत् । मृतवत्सादिसंसर्ग परपाकं च सुन्दरी ॥ ४० न बीभत्सं किंचिदीक्षेन्न रौद्रां शृणुयात्कथाम् । गुरुं वाऽत्युष्णमाहारमजीर्ण न समाच(ह)रेत् ॥ अनेन विधिना साध्वी शोभनं पुत्रमामुयात् । अन्यथा गर्भपतनं स्तम्भनं वा प्रपद्यते ॥ ४२ यदा प्रविशते भर्ता कूटं वाऽर्थेन केनचित् । सुमना वर्णकोपेता तदा च व्रतचारिणी ॥ ४३ तरुणी वा सुरूपा वा पुत्रिणी वा हिता भवेत् । ज्येष्ठा वाऽपि कनिष्ठा वा परोक्षे संमुखेऽपि वा हीनां निजगुणैरन्यां सपत्नीं न विगर्हयेत् । ईर्ष्यारागसमुद्भुत विद्यमानेऽपि मत्सरे ॥ ४५ अप्रियं नैव कर्तव्यं सपत्नीभिः परस्परम् । न गायेदन्यनामानि न कुर्यादन्यवर्णनम् ॥ ४६ न वसेहूरतः पत्युः स्थेयं वल्लभसंनिधौ । निर्दिष्टे च महीभागे वल्लभाभिमुखी वसेत् ॥ ४७ नावलोक्या दिशः स्वैरं नावलोक्यः परो जनः । विलासेरवलोक्यं स्यात्पत्युराननपङ्कजम् ४८ कथ्यमाना कथा भर्ना श्रोतव्या सादरं स्त्रिया । पत्युः संभाषमाणस्य नान्यं संभाषयेत्स्वयम् ।। आता सत्वरं गच्छेद्रतिस्थानं रतोत्सुका । पत्यो गायति सोत्साहं श्रोतव्यं हृष्टचेतमा ॥ ५० नृत्यन्तं वल्लभं पश्येत्महर्षोत्फुल्ललोचना । शास्त्रादिकौशलं विद्यां कलाप्रागल्भ्यमेव च ॥ ५१ दर्शयन्तं पतिं दृष्ट्वा भवेदानन्दनिर्भरा । भर्तुः समीपे न स्थेयं सोद्वेगव्यग्रचित्तया ॥ ५२
* अयं श्लोकः, ठ. पुस्तकम्थः ।
२१.