________________
3.
२३३ त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
४७
५३
द्वारावलोकनं कुर्यादतिथिग्रहणाय च । गोदोहकर्ममात्रं तु भाग्यात्प्राप्तोऽतिथिर्यदि ॥ देववत्पूजयेद्भक्त्या यथाशक्त्यन्नपानतः । भिक्षां च भिक्षवे दद्याद्विधिवद्ब्रह्मचारिणे ॥ अकल्पितान्नादुद्धृत्य सर्वव्यञ्जनसंयुतात् । यतिश्च ब्रह्मचारी च पक्कान्नस्वामिनावुभौ || तयोरन्नमदत्त्वैव भुक्त्वा चान्द्रायणं चरेत् । यतिहस्ते जलं दद्याद्भैक्षं दद्यात्पुनर्जलम् ॥ ४८ तद्भैक्षं मेरुणा तुल्यं तज्जलं सागरोपमम् । सत्कृत्य भिक्षत्रे भिक्षां यः प्रयच्छति मानवः ।। ४९ गोप्रदानसमं पुण्यमित्याह भगवान्यमः । माता पिता गुरुर्बन्धुर्गर्भिणीवृद्धबालकाः || ५० अतिथिष्वागतेष्वेषु भुक्तवत्सु ततो गृही । उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वाग्यतः ।। ५१ पञ्चार्द्रा भोजनं कुर्यात्प्राङ्मुखो मौनमास्थितः । प्रशस्तशुद्धपात्रेषु भुञ्जीतान्नमकुत्सयन् ॥ ५२ नैकवासास्तथाऽश्नीयाद्भिन्नपात्रेषु मानवः । एक एव तु यो भुङ्क्ते विमले कांस्यभाजने ॥ चत्वारि तस्य वर्धन्ते आयुः प्रज्ञा यशो बलम् । दयी देयं घृतान्नं च समस्तव्यञ्जनानि च५४ भोजनात्किंचिदन्नाग्र्यं धर्मराजाय वै बलिम् । दत्त्वा तु चित्रगुप्ताय भूतेभ्य इदमुच्चरेत् ॥ ५५ यत्र वचन संस्थानां क्षुत्तृष्णोपहतात्मनाम् । भूतानां तृप्तयेऽक्षय्यमिदमस्तु यथासुखम् ॥ ५६ स्वाहान्ताः प्रणवाद्याच नाम्ना मन्त्रास्तु वायवाः । जिह्वया च ग्रसेदनं दशनेन न दंशयेत् ॥ ५७ अश्नीयात्तन्मना भूत्वा पूर्व तु मधुरं रसम् । लवणाम्लो तथा मध्ये कटुतिक्तौ ततः परम् ।। ५८ प्राग्वं पुरुषोऽश्रीयान्मध्ये तु कठिनाशनम् । अन्ते पुनर्द्रवाशी तु बलारोग्ये न मुञ्चति ।। ५९ अष्टौ ग्रासा मुनेर्भक्ष्याः षोडशारण्यवासिनः । द्वात्रिंशच्च गृहस्थस्य अमितं ब्रह्मचारिणः ॥ ६० नाद्याच्छास्त्रविरुद्धं तु भक्ष्यभोज्यादिकं द्विजः । अभोज्यं प्राहुराहारं शुष्कं पर्युषितं तथा ।। ६१ भुक्त्वाऽऽचम्य यथोक्तेन विधानेन समाहितः । शोधयेन्मुखहस्तौ च मृदद्भिर्घर्षणेन च ॥ ६२ आचम्य च ततः कुर्याद्दन्तान्तरविशोधनम् । आचम्य पात्रमुत्सार्य किंचिदार्द्रेण पाणिना || ६३ मुखात्माणान्समालभ्य नाभिं पाणितलेन च । शुद्धप्रशान्तचित्तस्तु कृतासनपरिग्रहः || ६४ अभीष्टदेवतानां च कुर्वीत स्मरणं ततः । भूयोऽप्याचम्य कर्तव्यं ततस्ताम्बूलभक्षणम् ॥ ६५ भुक्ोपविष्टो विश्रान्तो ब्रह्म किंचिद्विचारयेत् । सच्छास्त्रादिविनोदेन सन्मार्गाद्यविरोधिना ।। ६६ इतिहासपुराणाभ्यां षष्ठसप्तमको नयेत् । अष्टमे लोकयात्रा हि बहिःसंध्या ततः पुनः ॥ ६७ सूर्येऽस्तशिखरं प्राप्ते पादशौचक्रियान्वितः । वहिःसंध्यामुपासीत कुशपाणिः समाहितः ॥ ६८ सादित्यां पश्चिमां संध्यामस्तमितभास्कराम् । प्राणानायम्य संप्रोक्ष्य मत्रेणाब्दैवतेन तु ॥ ६९ सायमग्निश्च मेत्युक्त्वा प्रातः सूर्येत्यपः पिवेत् । प्रत्यङ्मुखोपविष्टस्तु वाग्यतः सुसमाहितः ॥ ७० प्रणवव्याहृतियुक्तां गायत्री तु जपेत्ततः । अक्षसूत्रं समादाय सम्यगातारकोदयात् ॥ वारुणीभिस्तदादित्यमुपस्थाय प्रदक्षिणम् । कुर्वन्दिशो नमस्कुर्यादिगीशांश्च पृथक्पृथक् ॥ ७२ उपास्य पश्चिमां संध्यां हुत्वाऽग्निमयात्ततः । भृत्यैः परिवृतो भूत्वा नातितृप्तोऽथ संविशेत् ॥ सायं प्रावैश्वदेवः कर्तव्यो वलिकर्म च । अनश्नताऽपि सततमन्यथा किल्विषी भवेत् || ७४ अतिथिं चाऽऽगनं तत्र स्वशक्त्या पूजयेद्गृही । कृतपादादिशौचश्च भुक्त्वा सायं ततो गृही ॥ ७५ गच्छेच्छय्यां ततो मृद्वीमुपधानसमन्विताम् । स्वगृहे प्राक्शिराः शेते स्वागुरे दक्षिणाशिराः ७६ प्रवासे पश्चिमशिरा न कदाचिदुदक्शिराः । रात्रिसूक्तं जपेत्स्मृत्वा देवांश्च सुखशायिनः ॥ ७७
७१
+ छन्दोनुरोधाद्भस्वत्वम् ।
१७२७
४५
४६